SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२० चन्द्रप्रमचरितम् [ ९,२१प्रगमितमरविन्दलोचनायाः प्रणयवता श्रवणावतंसभावम् । स्वयमतिविहितादरेण शोकं व्यतरदशोकमपि प्रतीपपत्न्याः ॥२२॥ कुसुमकिसलयं विचेतुकामां विटपिनि सत्यपि नम्रनम्रशाखे। तरुमनयत तुङ्गमेव भर्ता भुजयुगमूलदिदृक्षया मृगाक्षीम् ।। २२ ॥ तिलकमिति यदत्र पूर्वमासीद्भुवि विदितं खलु नाममात्रकेण । कुवलयनयनाभिरुत्तमाङ्गे निहितमवाप यथार्थतां तदानीम् ॥ २३ ॥ वपुषि कनकभासि चम्पकानां सुदति न ते परभागमेति माला । स्तनतटमिति संस्पृशन्प्रियाया हृदि रमणो बकुलस्रज बबन्ध ।। २४ ॥ इत्यादिना मिः । 'नेः' इति तस्य लुक् । हेतुः ॥२०॥ प्रामितमिति । स्वयम्, अतिविहितादरे। अतिविहितेनातिक्रमेण विहितेन कृतेनादरेण प्रीत्या । प्रणयवता स्नेहवता पुरुषेण अरविन्दलोचनायाः अरविन्दे कमले इव लोचने यस्याः तस्याः । श्रवणावतंसभावं श्रवणयोः कर्णयौरवतंसयोः कर्णपूरयोर्भावं स्वरूपम् । प्रगमितं प्रापितम् । अशोकमपि कङ्केलिपुष्पमपि । प्रतीपपत्न्याः सपत्न्याः । शोकं दुःखम् । व्यतरत् करोति स्म । त प्लवनतरणयोर्लङ् । पर्यायोक्तिः ।।२१।। कुसुमेति । भर्ता वल्लभः । कुसुमकिसलयं पुष्पपल्लवम् । 'शेषोऽप्राणी' इति द्वन्द्वकत्वम् । विचेतकामा छेत्तुकामाम् । 'तुमो मनस्कामे' इति तुमो मकारस्य कामे परे लक। मगाक्षी कुरङ्गाक्षोम् । नम्रनम्रशाखे नम्रनमेऽत्यन्तं नमे शाखे शाखायुक्ते । विटपिनि वृक्षे, सत्यपि । भुजयुगमूलदिदृक्षया भुजयो वाह्वोर्युगं युग्मं तस्य मूलस्य दिदृक्षया द्रष्टुमिच्छया। तुङ्गमेव उन्नतमेव । तर वृक्षम् । अन यत् प्रापयत् । णीञ् प्रापणे लङ्। द्विकर्मकः ॥२२॥ तिलकमिति । अत्र भुवि भूमो। यत् पूर्व प्राक् । तिलकमिति तिलकपुष्पमिति । नाममात्रेण संज्ञामात्रेण । विदितं प्रसिद्धम् । आसीत् खलु अभवत् खलु-स्फुटम् । कुवलयनयनाभिः कुवलयमिव नीलोत्पलवन्नयने यासां ताभिः । उत्तमाङ्गे मस्तके । निहितं धृतम् । तदानों तस्मिन् काले। यर्थार्थतां' सत्यरूपसंज्ञात्वम् । अवाप ययौ । आप्ल व्याप्ती लिट् ।२३।। वपुषीति । सुदति सु शोभना दन्ता अस्या इति ( सुदती तत्सम्बुद्धौ ) मनोहरदन्तयुक्ते । 'वयसि दन्तस्य दत' इति दन्तस्य दत्रादेशः ( दतृ-आदेशः )। ऋदित्वात् 'नृदुगि-' इत्यादिना ङो । ते तव । कनकभासि कनकस्येव भाः कान्तिर्यस्य तस्मिन् । सुवर्णच्छाये-इत्यर्थः । वपुषि शरोरे। चम्पकानां हेमपुष्पकाणाम् । माला माल्यम् । परभागं स्ववर्णस्य संपूर्णत्वम्-अतिशयम् । 'परभागो गुणोत्कर्षः' इत्यभिधानात् । नैति न याति । इति एवम् । वे उन्हीं पुराने पत्तोंको नये पत्तोंके रूपमें समझने लगीं। इसका कारण उन्होंका भोलापन था ॥२०॥ किसी कमललोचना नायिकाके स्नेही पतिने बड़े आदरसे जो फूल उनके कानमें पहनाया था, वह स्वयं अशोक-अशोक वृक्षका फूल था अथ च शोक रहित था पर सौतको शोक दे रहा था। उसे देखते ही सौतके चित्तमें शोक उत्पन्न हो गया ॥२१॥ फूलों और पत्तियोंको चुननेकी इच्छा रखनेवाली एक मृगनयनोको उसका पति, अत्यन्त नीची शाखाओंवाले वृक्षके समीपमें होनेपर भी, उसके बाहुके मूल भागको देखने को इच्छासे खूब ऊंचे वृक्षके पास ले गया ॥२२॥ इस भूमि पर पहले जो फूल केवल 'तिलक' इस नामसे ही प्रसिद्ध था, वही जब नील कमल सरीखे नेत्रोंवाली नायिकाओंके द्वारा मस्तक पर रख लिया गया, तब वह यथार्थ 'तिलक' हो गया। पहले वह केवल संज्ञासे ही तिलक था, पर अब अर्थसे भी तिलक हो गया है ॥२३॥ हे सुन्दर दाँतोंवाली ! तेरे गोरे रंगके शरीर पर चम्पेको माला फब नहीं रहो है, यह कहकर उसके पतिने स्तनोंका स्पर्श करते हुए उसके सीने पर १. आ इ स्वयमिति । २. = पत्या-इति यावत् । ३. = कर्णपूरत्वमित्यर्थः । ४. = नम्रनम्रा अत्यन्तं नम्नाः शाखा यस्य तस्मिन् । ५. = अन्वर्थताम् । ६. आसंज्ञताम् । For Private & Personal Use Only Jain Education International www.jainelibrary.org:
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy