________________
३१९
-९, २०]
नवमः सर्गः कृतमनसिजवेगमूरुयुग्मं पथिजपरिश्रमनोदनापदेशात् । मुहुरलसगतेः स्पृशप्रियायाः समुपययावपरोऽल्पकेऽपि मार्गे॥ १७॥ इति कृतविविधप्रकारचेष्टा मनसिशयाकुलचेतसः सभार्याः । विविशुरुपवनं पुरः प्रयातक्षितिपतिसेवितकृत्रिमाद्रि पौराः ।। १८ ॥ तरुविटप शिखावसक्तहस्ताश्चिरमनुपात्तनिमेषनेत्रयुग्माः । फलकुसुमसमृद्धिमीक्षमाणा हरिणदृशो वनदेवता इवाभुः ॥ १६ ॥ सति निजकरजारुणांशुभिन्ने जरठपलाशचये महोरुहाणाम् ।
समजनि वनिताजनस्य हेतुम्रदिमगुणो नवपल्लवावबोधे ॥ २० ॥ गम्ल गती लिट् । उपमा ।।१६।। कृतेति । अपरः अन्यो नायकः । पथिजपरिश्रमनोदनापदेशात् पथिजस्य मार्गजातस्य परिश्रमस्य नोदनस्य निराकरणस्यापदेशाद् व्याजात । अलसगतेः अलसा मन्दा गतिर्गमनं यस्याः तस्याः । प्रियायाः दयितायाः । कृतमनसिजवेगं कृतो विहितो मनसिजो मनसि जातो वेगः शीघ्रं यथा तथा । ऊरुयुग्मम् ऊर्वोर्युग्मं युगलम् । मुहः भूयः । स्पृशन् स्पर्शनं कुर्वन् । अल्पके समीपे। मार्गेऽपि सत्यपि । समुपययौ समुपजगाम । या प्रापणे लिट् ॥१७।। इतीति । इति एवम् । कृतविविध प्रकारचेष्टाः कृता विविधप्रकारा नानाप्रकारा चेष्टा व्यापारा यः,ते। मनसिशयाकुलचेतसः मनसिशयेन कामेनाकुलं व्या कु. लितं' चेतश्वित्तं येषां ते। सभार्याः जायाज.नसहिताः। पौरा: पुरे भवाः पौरा: पुरजनाः । पुरः अग्रे । प्रयातक्षितिपतिसे वित कृत्रिमाद्रि प्रयातेन गतेन क्षितिपतिना भूमिपतिना सेवित आश्रितः कृत्रिमाद्रिः कृतकाशलो यस्मिन् तत् । उपवनं क्रीडावनम् । विविशुः प्रविष्टाः ॥१८॥ तरुविटपेति । तरुविटपशिखावसक्तहस्ताः तरूणां वृक्षाणां विटपानां शिखानामग्रेऽवसक्ता न्यस्ता हस्ता यासां (याभिः) ताः । चिरं मन्दम् । अनुपात्तनिमेषनेत्रयुग्मा: अनुपात्तोऽस्वीकृतो निमेषो निमीलनं यस्य तत्तथोक्तं नेत्रयोनयनयोयुग्मं तथोक्तम्, अनुपात्तनिमेषं नेत्रयुग्मं यासां ताः । फलकुसुमसमृद्धि फलानां कुसुमानां पुष्पारणां ( च ) समृद्धि प्रवृद्धिम् । ईक्षमाणाः विलोकमानाः । हरिणदशः हरिणस्य (दशी) इव दशौ यासां ताः। वनदेवता इव वनस्य देवता इव देववनिता इव । आभुः रेजुः । भा दीप्तौ लङ् ॥१९।। सतीति । महीरुहाणां वृक्षाणाम् । जरठपलाशचये जरठानां पुराणानां पलाशानां पत्राणां चये समूहे । निजकरजारुणांशुभिन्ने निजानां करजानां नखानामरुणोहित रंशभिभिन्ने मिश्रिते सति । वनिताजनस्य वनिता एव जनः, तस्य । रूपकम् (?)। नव पल्लवावबोधे नवा नतनाः पल्लवाः किसलयानि-इत्यवबोधे विज्ञाने । मृदिमगुणः मृदु (ता) गुणः। हेतुः कारणम् । समजनि अजायत । जनैङ् प्रादुर्भावेलुङ् । 'दीप्पूरजन्-' धीरे-धीरे आगे बढ़ रहा था ॥१६।। दूसरा कामी मन्द गतिसे चलती हुई प्रियाके ऊरुओंघुटने के ऊपरी भागोंको, मार्गको थकावटको दूर करनेके बहानेसे सुहराकर काम-विकारके वेगको बढ़ाता हुआ, बहुत सकरे रास्तेसे भी आनन्द पूर्वक चला जा रहा था ॥१७॥ इस प्रकारको और भी अनेक चेष्टाओंको करनेवाले सपत्नीक पुरवासियोंने-जिनके मन कामदेवसे व्याकुल थे-नगरके उस उपवनमें प्रवेश किया. जिसके कृत्रिम पर्वत पर चक्रवर्ती अजितसेन पहले ही पहुँच चुका था ॥१८॥ उपवन में पहुँचकर मृगसरीखे नेत्रोंवाली स्त्रियाँ वृक्षोंकी शाखाओंको पकड़कर उनके फलों और फूलोंकी समृद्धिको निनिमेष-अपलक दृष्टि से देखने लगीं। उस समय वे ऐसी जान पड़ती थीं मानो वनदेवियां हों ॥१९॥ वृक्षोंके पुराने पत्तोंके समूहको स्त्रियोंने अपने नखोंकी लाल कान्तिसे बिलकुल ही भिन्न बना दिया-पीलेसे लाल कर दिया, और फिर
१. आ इ 'रलसगतिः । २. अ मनसिज व्याकुल। ३. म तटविट। ४. = कामजो। ५. = व्याकुलं । ६ = शाखानाम् । ७. = चिरात् । ८. श लिट् । ९.वनितानां जनो वर्गः, तस्य ।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org