________________
[९,१४
चन्द्रप्रमचरितम् त्यज मम विरहोऽधुनेव पश्चादपि न रुजाकर इत्यपि स्वमानम् ।। नहि भवति यथा स्थिरं क्रियादावधिकृतनिर्वहणे तथैव चेतः ।। १४ ।। इति हितमधुरैरिवाहिमन्त्रैरपहृतमानविषा सखीवचोभिः।। दयितमनुजगाम मन्दमन्दं निहितपदा किल नेच्छृतीव काचित् ॥ १५ ॥
( कुलकम्) स्मरपरवशवद्धिरंसपृष्ठप्रगमितपाणिधृतप्रियाकुचाग्रः। गजपतिरिव मन्थरेण कश्चित्समुपजगाम शनैः पदक्रमेण ॥१६॥
त्वयापि२ । तावत् तत्पर्यन्तम् । सुसहः सुखेन सहः। स च । तव ते। आन्तरङ्गम् अन्तरङ्गभवम् । आधि पीडाम् । उष्णश्वसितविरूक्षितम् उष्ण'श्वसितेन श्वासेन विरूक्षितं परुषितम् । ओष्ठबिम्बम् ओष्ठोऽघरः स एव बिम्बं बिम्बफलम् कथयति हि वदति । कथ वाक्यप्रबन्धे लट् । अनुमितिः ।।१३।। त्यजेति । मम मे । विरहः वियोगः । अधुनेव इदानीमिव । 'सदैतमुधुनेदानी सद्यः' इति साधुः । पश्चादपि परस्मिन्नपि ( समये )। रुजाकरः पीडाकरः । न भवति, इत्यपि, स्वमानं स्वस्य मानं गर्वम् । त्यज जहि । त्यज हानी लोट । चेतः चित्तम । क्रियादी क्रियायाः कार्यस्यादौ प्रारम्भे। यथा, स्थिरं दृढम् । तथैव । अधिकृतनिर्वहणे अधिकृतस्य प्रारब्धस्य निर्वहणे संपूर्णकरणे। न भवति हि नास्ति हि ॥१४॥ इतीति । इति एवम् । हितमधुरैः हितैहितभूतैर्मधुरैर्मनोहरैः । अहिमन्त्ररिव विषापहारमन्त्ररिव । सखोवचीभिः सख्या आल्या वचोभिर्वचनैः । अपहृतमानविषा अपहृतं निराकृतं मान एव गर्व एव विषं यस्याः सा। नेच्छतीव न वाञ्छतोव । मन्दं मन्दं शनैः शनैः । 'वीमायाम' (इति) द्विः । निहितपदा निहिती निक्षिप्तो पदी यया सा। काचित् अन्या वनिता । दयितं बल्लभेन सह (वल्लभम्) । अनुजगाम अनुयाति स्म । गम्ल गती लिट् । उपमा- ( रूपकमुत्प्रेक्षा च )। पञ्चभिः कुलकम्१२ ॥१५।। स्मरेति । स्मरपरवशबुद्धिः स्मरेण मन्मथेन परवशा पराधीना बुद्धिर्यस्य सः। अंपृष्ठप्रगमितपाणिधृतप्रियाकुचाग्रः अंसेन भुजशिरसा पृष्ठे चरमतनो प्रगमिवेन प्रापिसेन पाणिना हस्तेन धृतं प्रियाया दयितायाः कुच ग्रं यस्य सः । गजपतिरिव गन्धहस्तीव । कश्चित् एकनायकः। मन्थरेण मन्देन । पदक्रमेण पदविन्यासेन । शनैः, समुपजगाम १६समुपयाति स्म ।
नहीं है; क्योंकि तेरा होठ, जो गरम श्वासवायुसे रूखा पड़ गया है, और जिसपर पपड़ी पड़ गयी है, तेरी मानसिक व्याधिको बतला रहा है ।। १३ ॥ जैसे इस समय मुझे प्रियका विरह पीड़ा नहीं दे रहा है, इसी तरह आगे भी नहीं देगा, यह सोच कर भी तू मान मत कर-मानको छोड़ दे; क्योंकि किसी भी कार्यके प्रारम्भमें मन जैसा स्थिर होता है, वैसा उसके अन्त तक नहीं रहता ।। १४ ।। इस तरह हितकर, मधुर एवं सर्पमन्त्रके समान सखीके वचनोंसे किसी मानवती नायिकाका मान विषकी तरह शान्त हो गया। फलतः वह अपने पतिके पीछे-पीछे धीरेधीरे पैर रखकर चलने लगो, जिससे उस समय वह ऐसी जान पड़ती थी मानो जाना नहीं चाहती हो ॥१५॥ एक कामी-जिसकी बुद्धि कामदेवके वशमें थी-अपनी प्रियाके कन्धे और पीठके ऊपरसे बगल में डाले हुए हाथसे उसके स्तनके अगले भागको पकड़कर गजराजकी तरह
१. आ इ 'कुलकम्' इति नास्ति । २. = भवत्यापि । ३. = वाक्यालङ्कारे। ४. = विरहः । ५. आ उष्णस्य । ६. = प्रोष्ठो विम्वमिवेत्योष्ठबिम्बम । ७. श 'परस्मिन्नपि' इति नोपलभ्यते । ८. श लेट । ९. = तेनैव प्रकारण। १०. = निर्वाहे। ११. = निहिते निक्षिप्ते पदे यया सा। १२. श 'पञ्च कुलकम्' इति नोपलभ्यते । १३. श गती। १४. = येन । १५. श कश्चिदेव । १६. आ समन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org