________________
नवमः सर्गः प्रणदितकलकाञ्चिनूपुरोत्थं धनिमनुबध्नति राजहंसयूथे । सदृशगतिकुतूहलेन दृष्टिर्मुहुरपतद्वनिताजने च यूनाम् ॥३॥ 'सुललितगमनो न राजहंसः कलभपतिर्न च मन्थरप्रयातः । अलसगतिषु वामलोचनानां गुरुरजनिष्ट निजो नितम्बभारः ।। ४ ॥ गगनमुभयतः प्रपूर्यमाणं हरिणदृशां चटुलैः कटाक्षपातैः।
पवनविधुतनीलनीरजौघव्यतिकरिणः सरसो बभार लक्ष्मीम् ।।५।। भरेण भारेणालसं यथा भवति तथा। प्रचेलु प्रययुः । चल कम्पने लिट् ॥२।। प्रणदितेति । प्रणदितकलकाश्विनूपुरोत्थं प्रणदितैर्मनोहरध्वनितैः कलैर्मनोहरैः काञ्चिनूपुरैः काञ्चिदामपादकटकैः उत्थं जातम् । ध्वनि शब्दम् । अनुबध्नति अनुयाति । राजहंसयूये राजहंसानां यूथे समूहे । वनिताजने वनिता एव जनः तस्मिन्, च। तरुणानां ( यूनाम् ) । दृषिः नयनम् । सदृशगतिकुतूहलेन सदृशगतो समानगमने कुतूहलेन कौतुवे न । मुहुः पुनः पुनः । अपतत् । अपप्तत् । पत्ल गती लुङ् ॥३॥ सुललितेति । वामलोचनानां कामिनीनाम् । निजः स्वकीयः। नितम्बभार: नितम्बस्य भारः। सुललितगमनः सुललितं सुरुचिरं गमन यस्य सः । तथापि राजहंसः हंसपक्षी। नाजनिष्ट नाभवत् । मन्यरप्रयात: मन्दगमनः, सन्नपि । कलभपतिः करिशावकपतिः । न च नाजनिष्ट । ततः, अलसगतिषु मन्दगतिषु गमनेषु । गुरुः उपदेशकः । बभूव। जनैङ् प्रादुर्भावे लुङ् ॥४॥ गगन मिति । हरिणदृशां हरिणस्य ( दृशी) इव दृशौ नयने यासां तासाम्, नारीणाम्-इत्यर्थः । चटुलै: चंचलैः । कटाक्षपात: कट क्षस्यापाङ्गदर्शनस्य पातैविन्य सैः । उभयत: उभयपार्वतः । प्रपूर्यमाणं संपूर्ण क्रियमाणम् । (भ्रियमाणम् )। गगनम् आकाशम् । पवनविधुतनोलनीरजौघव्यतिकरिणः पवनेन वायुना विधुतस्य (कम्पितस्य ) नीलानां कृष्णानां नोरजानां नोलोत्पलानामिति यावत, ओघस्य समहस्य व्यतिकरिणो व्यतिकरः संभ्रमोऽस्त्यस्येति तथोक्तः, तस्य । 'व्यतिकर: स्याद् व्यसनव्यतिषङ्गयोः' इति विश्वः । सरसः सरोवरस्य । लक्ष्मी शोभाम् । बभार धरति स्म ।
और भी अधिक बढ़ गयी थी ॥ २ ॥ यात्रामें सम्मिलित होनेवाली सभी स्त्रियोंकी कमर में बजनेवालो करधनी और पैरोंमें नपूर थे। चलते समय उन दोनोंकी ध्वनि सुनकर राजहंसोंका झुण्ड इधर-उधरसे आ-आकर उनके पीछे-पीछे चलने लगा। उन स्त्रियों और हंसोंको बिलकुल एक सरीखी चाल देखकर युवकोंको बड़ा कौतूहल हुआ, अतः उनकी दृष्टि स्त्रियों और हंसोंकी ओर बार-बार जा रही थी ॥ ३ ॥ राजहंस उतना सुन्दर गमन नहीं कर पाता और न श्रेष्ठ कलभ भी उतनी मन्दगतिसे चल सकता है। अतः स्त्रियोंको सुन्दर एवं मन्द गतिका उपदेश देनेवाला गुरु उनके नितम्बका भार था, न कि राजहंस या कलभ ।। ४ ।। हिरणोंके समान सुन्दर नेत्रोंवाली स्त्रियों के चंचल कटाक्षोंसे दोनों ओरसे व्याप्त होकर आकाश उस सरोवरके समान हो गया, जिसमें वायुसे कम्पित होकर नील कमलोंका समूह लहरा रहा
१. भाइकाञ्ची । २. अ स ललितं । ३. = वनितानां जनो वर्ग: तस्पिश्च । ४. श 'पुनः' इति नोपलभ्यते । ५. = राजहंस: मरालः। सुललितगमनः सुललितमतिमनोहरं गमनं यस्य सः । न नास्ति । कलभपतिः च त्रिंशदब्दककरिशावकेशोऽपि । मन्यर यातः मन्यरं मन्दं प्रयातं गमनं यस्य सः । न न वर्तते । अतो वामलोचनानां कामिनीनाम् । अलसगतिषु मन्दगतिषु । निजः स्वकीय एव । नितम्बभार: बृहन्नितम्बा। गुरुः शिक्षकः। अजनिष्ट समजनि । नितम्बिनीनां यादृशो गतिरस्ति तादृशी राजहंसे कलभे च नावलोक्यते । अत एव तासामलसगतिषिये तन्नितम्ब एव गुरुर्न राजहंसो न च कलभ इति निर्गलितार्थः । व्यतिरेकालङ्कारः ।।४।। ६. श संचलैः । ७. श विधूतस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org