SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् ललित तिलकमण्डनानि मुग्धे रचयितुमेष वृथा तव प्रयासः । मुखकमलमलं करोति यत्ते पतदलिनीकुलमेव पद्ममोहात् ||६|| विरचयसि यमादरेण हारं तमपि तवाहमवैमि शुद्धभारम् | कमलमुखि पयोधरान्तराले श्रमजलबिन्दुविभूषिते व्रजन्त्याः ||७|| श्रवणतटविलम्बि संविधत्ते नयनयुगं न किमेतदीयशोभाम् । वरतनु विफलक्रिय' विधातुं यदसितमुत्पलमुद्यतासि कर्णे ॥ ८ ॥ चिरयसि परमेव निक्षिपन्ती रसमतिसान्द्रमल ककस्य कान्ते । ननु किसलयभासि रागबन्धस्तव पदपद्मतले निसर्गसिद्धः ॥ ६ ॥ २१६ टुभृञ् धारणपोषणयों लिट् । उत्प्रेक्षा ( निदर्शना ) ||५|| ललितेति । मुग्धे सुन्दरि । 'मुग्ध. सुन्दर मूढयोः' इत्यभिधानात् । ललिततिलकमण्डनानि ललितानि मनोहराणि तिलकान्येव मण्डनानि यद्वा उपलक्षणात् तिलकप्रभृतिमण्डनानि तथोक्तानि । विरचयितुं [ रचयितुं ] कर्तुम् । तव ते । एषः अयम् । प्रयासः प्रयत्नः । वृथा व्यर्थः । यत् यस्मत् । पद्ममोहात् पद्मम् - इति मोहाद् भ्रान्तेः । पतदलिनी कुलमेव पतन्तीनामलिनीनां भृङ्गीणां कुलमेव समूह एव । ते तव । मुखकमलं वदनपङ्कजम् । अलंकरोति मण्डयति । डुकृञ् करणे लट् । रूपकम् ||६|| विरचयसीति । कमलमुखि कमलमिव पद्ममिव मुखं यस्याः तस्याः संबोधनम् । यं हारं हारयष्टिम् । आदरेण प्रीत्या । विरचयसि संधारयसि । रच प्रतियत्ने लट् । तमपि हारमपि । अहम्, व्रजन्त्याः गच्छन्त्याः । श्रम जलबिन्दुभूषिते श्रमजलस्य स्वेदसलिलस्य बिन्दुभिर्विप्रुभिर्भूषिते मण्डिते । पयोधरान्तराले पयोधरयोः स्तनयोरन्तराले मध्ये | तव ते । शुद्धभारं* तूष्णीं भारमिति । अवैमि जानामि । ६ण् गतौ लट् । उत्प्रेक्षा । ७।। श्रवणेति । वरतनु वरा मनोहरा तनुरङ्ग यस्याः तस्याः संबोधनम् भो मनोहराङ्गि । विफलक्रियं विफलानिष्फला क्रिया यस्मिन् कर्मणि तत् । यत्, असितं कृष्णम् उत्पलं नीलोत्पलम् - इति यावत् । कर्णे श्रोत्रे । विधातु कर्तुम् । उद्यता उद्युक्ता । असि भवसि । अस भुवि लट् । एतदीयशोभाम् एतदीयस्य नीलोत्पलसंबन्धस्य शोभां विलासम् । श्रवणतटविलम्बि श्रवणयोः कर्णयोस्तटं मूलं विलम्बि आश्रयशीलम् । नयनयुगं नयनयोर्ने त्रयोर्युगं युग्मम् । न संविधत्ते किं न संघरति कि, किन्तु संविधत्ते एव । सामान्यम् ||८|| चिरयसीति । कान्ते भो ललने । अलक्तकस्य यावकस्य । अतिसान्द्रम् अतिधनम् । रसं द्रवम् । निक्षिपन्ती स्थापयन्ती । परमेव अत्यन्तमुत्कृष्टमेव । चिरयसि चिरं करोषि आलस्यं करोषि — इत्यर्थः । किसलयभासि किसलयमिव भासि कान्तियुक्ते । ते तव । पदपद्मतले पदमेवपद्मलं रक्तसरोरुहं तस्मिन् । रागबन्ध: हो ॥ ५ ॥ हे सुन्दरी ! सुन्दर तिलक आदि लगाकर शृंगार करनेका तेरा यह प्रयास व्यर्थ है; क्योंकि कमलके भ्रमसे आया हुआ भौरियों का झुण्ड ही तेरे मुख कमलको अलंकृत कर रहा है ॥ ६ ॥ हे कमलमुखो, जिस हारको तू बड़े शौकसे पहन रही है, मैं उसे केवल, तेरा बोझ ही समझता हूँ, जबकि चलनेसे तेरे स्तनोंके बीच का भाग पसीने के बिन्दुओंसे भूषित, भूषित नहीं, विभूषित है - हार से भी कहीं अधिक सुन्दर प्रतीत हो रहा है || ७ || हे सुन्दर शरीरवाली ! कानों तक फैले हुए नेत्रोंसे क्या तेरे इन ( कानों ) की शोभा नहीं है, जो तू नीलकमलोंको व्यर्थ ही कानोंके ऊपर धारण करनेके लिए उद्यत हो रही है || ८ || हे प्रिये ! खूब गाढ़ा महावर लगाकर तू केवल विलम्ब ही कर रही है ( न कि पैरों का शृंगार ), क्योंकि नयी कोपलों सरीखी कान्तिको धारण करने वाले तेरे चरण-कमलोंके तलवों में निश्चय ही [ ९, ६ १. आइ विपुलक्रि । २. आ टु डुभृञ् भरणे लिट् श टु डु भृञ् धारणपोषणयोलिट् । ३. = तत्संबुद्धी । ४. = केवलभारमिति । 'शुद्धः केवलपूतयोः' इत्यनेकार्थसंग्रहः । ५. = विलम्बते समाश्रयतीत्येवं शीलम् । ६. आ युगलं । ७ = विदधाति । ८. आ युवकस्य । ९. = किसलयवद् भाः कान्तिर्यस्य तस्मिन् । १०. श पदावेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy