________________
२१३
-८, ६२]
अष्टमः सर्गः क्षणमिति मधुराभिर्भूपतिर्भारतीभिः स रहसि रमयित्वा वल्लभां बद्धभावाम् । निजनगरनिवेशे' लोकमानन्दयन्तीं वनविहरणयात्राघोषणामादिदेश ॥६१।। दिङ्नागान्प्रतिदन्तिशङ्किमनसः श्च्योतत्कटान्कोपयनम्भःपूर्णपयोदरेकिहृदयानुत्कण्ठयन्केकिनः। नागानुत्फणयंश्चमत्कृतिभृतो भूभृत्तटांश्चालयव्योम व्यापमृदङ्गभूरुदयवान्प्रस्थानशंसी ध्वनिः ॥६२॥
॥ इति श्रीवारनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्येऽष्टमः सर्गः ॥८॥
॥६०॥ क्षणमिति । सः भूपतिः अजितसेनचक्रवर्ती। इति उक्तप्रकारेण । क्षणम् अल्पकालपर्यन्तम् । मधराभिः मनोहराभिः । भारतीभिः वचनैः । बद्धभावां बद्धो रचितो भावश्चित्तविकारो यस्याः, ताम् । वल्लभां प्राणकान्ताम्, शशिप्रभाम इति यावत। रहसि एकान्ते । रमयित्वा क्रीडयित्वा । निजनगरनिवेशे निजनगरस्य स्वपुरस्य निवेशे मध्ये। लोकं जनम् । आनन्दयन्ती संतोषयन्तीम् । वनविहरणयात्राघोषणां वनस्य विहरणस्य क्रीडायाः [यात्रायाः] निर्याणस्य घोषणाम् । आदिदेश आजज्ञे । दिशि अतिसर्जने लिट ॥६१।। दिनागानिति । [श-] च्योतत्कटान [२] च्योतन्तः कटा येषां तान् स्रवत्कपोलान् । प्रतिदन्तिशङ्किमनसः प्रतिदन्तिन इति प्रतिकूलगजा इति शङ्कि सन्देहयुक्तं मनो येषां तान् । दिङ्नागान् दिग्गजान् । कोपयन् क्रोधयन् । अम्भःपूर्णपयोदरेकि हृदयान् अंभसा सलिलेन पूर्णः पयोदो मेघ इति शङ्कि हृदयं चित्तं येषां तान् । केकिन: मयूरान् । उत्कण्ठयन् संतोषयन् । चमत्कृतिभृतः चमत्कृतिं चमत्कारं भृतो घरत: (बिभ्रतीति भृतः धरन्तः तान्)। नागान् सन् ि । उत्फणयन् उद्गतफणान् कुर्वन् । भूभृत्तटान् भूभृतां पर्वतानां तटान् सानून् । स्फालयन् पादेन प्रहरन् । प्रस्थानशंसी प्रस्थानस्य प्रयाणस्य शंसी सूची। ध्वनिः ध्वानः । मृदङ्गभूः पटहोद्भवः । उदयवान् प्रादुर्भावयुक्तः । व्योम गगनम् । व्याप व्याप्नोति स्म । आप्लू व्याप्ती लिट् । अतिशयः ॥६२॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रमचरिते महाकाव्ये तद्वयाख्याने च
विद्वन्मनोवल्लभाख्येऽष्टमः सर्गः ॥८॥
सखियाँ पैर दबा देंगी ॥ ६० ॥ स्थिर विचारवाली रानी शशिप्रभाको इस प्रकारके मधुर वचनोंसे थोड़ी देर एकान्त स्थानमें आनन्द देकर चक्रवर्ती अजितसेनने अपने नगरके अन्दर सभी लोगोंको आनन्द देनेवाली वनविहारको यात्राकी सूचना देनेके निमित्तसे घोषणाका आदेश दिया ॥ ६१ ॥ प्रस्थानसूचक मृदंग-शब्द बहुत तेज था। वह पूरे आकाशमें गूंज उठा। उसे सुनकर मदजल बहानेवाले दिग्गजोंको दूसरे हाथियोंके शब्दका भ्रम हो गया, जिससे वे क्रुद्ध हो उठे; मयूरोंको सजल मेघोंके गर्जनको आशंका उत्पन्न हो गयो, फलतः वे ग्रीवा उठाकर ऊपरको ओर देखने लगे; नाग आश्चर्य में पड़ गये और फन उठाकर इधरउधर ताकने लगे तथा पहाड़ोंके शिखर हिलने लगे ।। ६२ ॥
इस तरह श्रीवीरनन्दिविरचित उदयांक चन्दप्रभचरित महाकाव्यमें अष्टम सर्ग समाप्त हुआ ॥ ८ ॥
१. अ निवेशं । २. अ व्योमध्मायिमृदङ्गभू । ३. = विहारस्य । ४. = वर्धमानः । ५. आ श चैत्रवर्णनो नामाष्टमः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org