________________
चन्द्रप्रभचरितम्
हस्तेन सुन्दरि मुहुर्विनिवारितोऽपि भृङ्गस्तवाधरदले नवविद्रमाभे । araन्नशोकनवपल्लवशङ्कि चेताः स्मेरं करिष्यति न कस्य मुखं वनान्ते ॥ ५८|| पर्यन्तजाततरुजालनिरुध्यमानभास्वत्करेष्वपि वनान्तलतागृहेषु । त्वद्वत्रचन्द्ररुचिभिः प्रतिहन्यमानो मुग्धाक्षि नः परिभविष्यति नान्धकारः ॥ ५९ ॥ दृष्टयोर्मदालिषु लतासु शरीरयष्टेरूवौर्विचित्रकदलीष्वधरस्य बिम्बे | संवाहितावियुगला स्वसखीजनेन सादृश्यमिन्दुवदने विहरेक्षमाणा ॥ ६०॥
२१२
3
*
५
मन्ये जाने । मनि ज्ञाने लट् । उत्प्रेक्षा ॥५७॥ हस्तेनेति । सुन्दरि रमणि । नवविद्रुमाभे नवस्य विद्रुमस्य प्रवालस्याभे समाने । तव ते । अवरदले अधर एव दलं पल्लवः, तस्मिन् । रूपकम् | अशोकनवपल्लवशङ्कचेताः अशोकस्य कङ्केलिवृक्षस्य नवः प्रत्यप्रः पल्लव इति शङ्कि शङ्का युवतं चेतो यस्य सः । भृङ्गः षट्पदः । हस्तेन पाणिना । मुहुः पुनः । निवारितोऽपि निराकृतोऽपि घावन् वगेन गच्छन् सन् । 'सर्ते वेगे' इति सृ गतौ इति धातोः वेगर्थे धात्रादेशः । वनान्ते वनमध्ये । कस्य पुरुषस्य । मुखं वदनम् । स्मेरं स्मितम् (सस्मितम्) । न करिष्यति न विधास्यति । डुकृञ् करणे लृट् ||१८|| पर्यन्तेति । मुग्धाक्षि मुग्वे मनोहरे, क्षिणी यस्याः तस्याः " संबोधनम् भो मनोह / नयने । पर्यन्त जाततरु जालनिरुध्यमान भास्वत्करेषु पर्यन्ते समीपे जातानामुत्पन्नानां तरूणां वृक्षाणां जालेन समूहेन निरुध्यमाना आब्रियमाणा * भास्वतः सूर्यस्य कराः किरणा येषु तेषु । वनान्तलतागृहेषु वनस्पान्ते मध्ये विद्यमानाभिताभिर्वल्लरीभिर्निर्मितानि गृहाणि तेष्वपि । त्वद्वक्त्रचन्द्ररुचिभिः तव ते वक्त्रं मुखं तदेव चन्द्रः सोमः तस्य मरीचिभिः कान्तिभिः । रूपम् म् । परिहन्यमानः निराक्रियमाणः । अन्धकारः ध्वान्तम् | नो परिभविष्यति न पराजयिष्यते इति न, किन्तु परिभविष्यत्येव । नः अस्मान् । परिभविष्यति अवधोरयिष्यति, इति न । त्वन्मुखचन्द्रे सति तत्रान्धकारस्य मनागपि संभावना नास्ति, इति भावः ॥५९॥ दृष्टयोरिति । इन्दुवदने इन्दुरिव वदनं मुखं यस्याः तस्याः संबोधनम्, भो चन्द्रमुखि । उपमा | मदालिषु मदेन युक्तेषु अलिषु भृङ्गेषु । दृष्टयोः नयनयोः । शरीरयष्टेः, लतासु वल्लरीपु । विचित्रकदलीषु विचित्रासु आश्चर्यभूतासु कदलीषु रंभासु, ऊर्वोः । बिम्बे बिम्बफले । अधरस्य रदनच्छदस्य । सादृश्यं साम्यम् । ईक्षमाणा आलोकमाना । स्वसखोजनेन निजालिजनेन । संवाहिताङ्घ्रियुगला संवाहितं मर्दितमयोः पादयोर्युगलं यस्याः सा ( त्वम् ) । विहर विहारं कुरु । हृञ् हरणे लेट् ( लोट् ) । उपमा
[ ८, ५८ -
तुम्हारी शिष्यता स्वीकार करनेके लिए लालायित हो उठेगा ॥ ५७ ॥ हे सुन्दरि ! हाथसे बार-बार हटाया गया भी भौंरा नवीन कोंपलकी आभा वाले तुम्हारे होंठपर अशोककी कोंपलके भ्रमसे दौड़कर उपवन में किसके मुखको हासयुक्त नहीं कर देगा ? ।। ५८ ।। हे सुन्दर आँखों वाली ! वहाँ लतामण्डप बने हुए हैं, उनके चारों ओर घनो वृक्षावली लगी हुई है, जिससे सूर्य की किरणें बाहर ही रोक दी जाती हैं-अन्दर प्रवेश नहीं कर पातीं । अतः वहाँ अन्धकार छाया रहता है । फिर भी तुम्हारे मुखचन्द्रकी कान्तिसे वह नष्ट कर दिया जायगा । हम लोगोंको बाधा नहीं पहुँचा सकेगा ।। ५९ ।। हे चन्द्रवदने ! वहाँपर तुम अपनी आँखोंकी समानता मतवाले भौंरों में, शरीरकी समानता लताओं में, ऊरुओकी समानता विचित्र कदली वृक्षोंमें, होठ की समानता कुन्दरू में देखती हुई विहार करना । थकान होनेपर तुम्हारी
१. अयुगलासु । सखीजनेन । २. श हस्तेति । ३. = नवविक्रमवदाभा यस्य तस्मिन् विद्रुमवर्णेइत्यर्थः । ४ = तत्संबुद्धी । ५. भा आह्रियमाणाः । ६. एष टीकानुगः पाठः, प्रतिषु तु 'दृष्टेः' इत्येव समुपलभ्यते । ७. = तत्संबुद्धी । ८ श निजालिजनेन' इति नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org