________________
-८, ५७ ]
अष्टमः सर्गः माधुर्यमिच्छरतिशायि परिग्रहीतुं चूनाङ्कुरग्रसनजातकषायकण्ठः । मूकोभवन्धरभृतां निवहोऽपि नूनमाकर्णयिष्यति तवानतगात्रि वाणीम् ॥५५॥ तत्र त्वदीयचरणाम्बुजताउयमानो द्वौ यास्यतः सुवदने सदृशीमवस्थाम् । सद्यो वहन्मुकुलजालमशोकशाखी रोमाञ्चकञ्चुकित मूर्तिरहं द्वितीयः ।।६।। गत्या निसर्गपरिमन्थरया भ्रमन्तीं त्वां संनिरीक्ष्य निवसद्वनदीर्घिकासु। हंसीकुलं न हरिणाक्षि जनिष्यते न त्वच्छिष्यभावगमनस्पृहयालु मन्ये ।।५७||
कोशेयवस्त्रेण । पिहितः आच्छादितः । कार्य: विधेयः ।।५४।। माधुर्यमिति । आन तगात्रि विनताङ्गि । अतिशायि अतिशयशोलम् । माधुर्यं मधुरत्वम् । परिग्रहीतुं परिग्रहणाय । इच्छुः इच्छन् । 'सन्भिक्षा-' इत्यादिना
प्रत्ययः । चतारग्रसनजातकषायकण्ठः च्यतस्य माकन्दस्य अङ्करस्य कलिकायाः ग्रसनेन सेवनेन जातः संजातः कषायः शुद्धता वा यस्यासो च्यूताङ्करप्रसन जातकषायः स कण्ठो यस्यासाविति पुन: बंसः (?) । 'कषायो रसभेदे स्याद्गन्धरागे पिलेने । निर्यास च कषायोऽय सुरभी लोहितेऽन्यवत् ।।' 'कटुतिस्तकषायास्तु सुगन्धस्याभिधायकाः।' इत्यभिधानात् । परभृतां कोकिलानाम् । निवहोऽपि समूहः ( अपि )। मूकीभवन् प्रागमूक इदानी मूको भातीति तथोक्त: । तव ते। वाणों वचनम् । ननं निश्चयेन । आकर्णयिष्यति श्रावयिष्यति ( श्रोष्यति )। छिद्र कर्णभेदे लट् ॥५५॥ तत्रेति । सुवदने सु शोभनं बदनं यस्याः तस्याः संबोधनम समखि । तत्र वने। त्वदीयचरणाम्बजताड्यमानौ त्वदीयाभ्यां तव संबन्धिभ्यां चरणाम्बुजाभ्यां पादारविन्दाभ्यां ताड्यमानी आहन्यमानी। द्वो, सद्यः तदैव । सदृशों समानाम् । अवस्था परिणतिम् । यास्यतः गमिष्यतः । द्वो को, इत्युक्ते कथ्यते--मुकुलजातं मुकुलानां कुड्मलानां जातं समूहम् । वहन् धरन् । अशोकशाखी अशोकश्चासो शाखी च तथोक्तः, एकः । रोमाञ्चक चकितमतिः रोमाञ्चेन रोमहर्षण ककिता कवचिता मूर्ति यस्य सः । अहं, द्वितीयः । 'द्वित्रेस्तीयद्रेश्च ऋश्' इति तीयत्-प्रत्ययः । इत्यध्याहार्यम् ।।५६।। गत्येति । हरिणाक्षि हरिणस्य ( अक्षिणो) इव अक्षिणी यस्याः तस्याः संबोधनम् भो एणाक्षि । वनदीधिकासु वनस्य दीधिकासु सरोवरेषु निवसत् विद्यमानम् । हंसीकुलं हंसवधूनां कुलं यूथम् । निसर्गपरिमन्थरया निसर्गेण स्वभावेन मन्थरया मन्दया गत्या गमनेन । भ्रमन्तीं चलन्तीम् । त्वां भवतीम् । संनिरीक्ष्य संविलोक्य । त्वच्छिष्यभावगमनस्पृहयालु तव ते शिष्यभावं छात्रत्वं गमने प्रापणे स्पृहयालु वाञ्छायुक्तम्. अथवा तव शिष्य भावरूपगमनं वाञ्छत् । न जनिष्यते न भविष्यति ( इति ) न, किन्तु भविष्यत्येव ।
बालोंको चीनी रेशमी चादरसे ढक लेना ॥ ५४ ॥ हे नम्र शरीरवाली ! वहाँ आम्रमंजरी खानेसे कोकिलोका कण्ठ सुरोला हो गया है। फिर भी सर्वश्रेष्ठ मधुरताको प्राप्त करनेकी इच्छासे उनका झुण्ड निश्चय ही मौन रहकर तुम्हारे वचन सुनेगा ॥ ५५ ॥ हे सुन्दर मुखवाली प्रिये ! वहाँ तुम्हारे चरण कमलोंके आघातसे दो, एक सरीखी अवस्थाको प्राप्त करेंगेपहला अभी-अभी उत्पन्न हुई कलियोंको धारण करनेवाला अशोक वृक्ष और दूसरा मैं, जिसके सारे शरीर में रोमांच-ही-रोमांच दृष्टिगोचर होंगे ।। ५६ ॥ हे मृगलो वने ! मेरा खयाल है वहाँके सरोवरोंमें रहनेवाला हसियोंका झुण्ड तुम्हें स्वाभाविक मन्दगतिसे घूमती हुई देख कर
१. क ख ग घ म गमने स्पृहयालु । २. श शुद्धवाक् । ३. आ इति पुगर्भसः । ४. आ न्यदक् । ५. = तत्संबुद्धौ। ६. = तत्संबुद्धौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org