________________
२१०
चन्द्रप्रमचरितम्
[८, ५२पश्य प्रिये परभृतध्वनितच्छले न मामेष दर्शयितुमाह्वयतीव चैत्रः । प्रादुर्भवत्तिलकपत्रविशेषशोभा सीमन्तिनीमिव पुरोपवनस्य लक्ष्मोम् ॥५२।। संभावयामि तदहं तमनङ्गबन्धुं गत्वा वने मलयमारुतनृत्तशाखे । । तत्र त्वमप्यवनताङ्गितिरोहितानां नेत्रोत्सवं कुरु गता वनदेवतानाम् ॥५३।। ह्रीतो विहाय मम लोचनहारि नृत्तं गन्तुं शिखी सुमुखि तत्र यदि व्यवस्येत् । कार्यस्त्वया स्मरनिवासनितम्बचुम्बी चीनांशुकेन पिहितो निजकेशपाशः ।।५४।।
डुधाञ् घारणे च लिट् ।।५१।। पश्यति । प्रिये भोः कान्ते । प्रादुर्भवत्तिलकपत्रविशेष शोभा प्रादुर्भवतामुत्पद्यमानानां तिलकानां तिलकवृक्षाणां पत्रः छदै:3 विशेषा बही शोभा, पक्षे प्रादुर्भवता तिलकपत्रेण मकरिकापत्रेण विशेषा अधिका शोभा यस्याः, ताम् । सीमन्तिनीमिव कामिनीमिव । पुरोपवनस्य पुरोधानस्य । लक्ष्मी शोभाम् । दर्शयितुम् आलोकयितुम् । परभृतध्वनितच्छलेन परभृतस्य कोकिलस्य ध्वनितमिति ध्वनिरिति छ लेन ग्याजेन । एषः अयम् । चैत्रः । माम्, आह्वयतीव आकारयतीव । पश्य वीक्षस्व । दश वीक्षणे लोट-॥५२॥ संभावयामीति । अवनताडि अवनतम षन्नतमहं यस्याः तस्या भो नम्राङ्गि । तत् तस्मात्कारणात् । अहं, मलयमारुतनत्तशाखे मलयमारुतेन दक्षिणवायुना नत्ताः शाखा यस्मिन, तस्मिन् । वने उद्याने। गत्वा प्राप्य । तं वसन्तम् । अनङ्गबन्धुं मन्मथमित्रम् । [तं वसन्तम् ] । संभावयामि सत्करोमि । त्वमपि, तत्र वने। गता याता सती। तिरोहितानां व्यवहितानाम् । वनदेवतानां वनदेवोनाम् । नेत्रोत्सवं नयनोत्सवम् । कुरु विधेहि । डुकृञ् करणे लोट् ॥५३।। ह्रीत इति । सुमुखि भो मनोहरमुखि । तत्र वने । शिखी मयूरः। ह्रीतः लज्जितः। मम मे। लोचनहारि लोचनयोनयनयो हारि मनोहरम् । नृत्तं नर्तनम् । विहाय त्यक्त्वा । यदि, गन्तुं गमनाय । व्यवस् त् उद्योगं कुर्यात् । वि अवपूर्वः षो अन्तकर्मणि लिङ। (तत्) त्वया, स्मरनिवासनितम्बचम्बी स्मरस्य कामस्य निवासमाबासं नितम्बं चुम्बति स्पृशतीत्येवं शील: तथोक्तः । निजके शपाश: निजस्य स्वस्य केशपाशो धम्मिल्ल: । चीनांशकेन
प्रिये ! इस समय पुरके उपवन की शोभा सौभाग्यवती नायिका सरीखी हो गयी है। जिस प्रकार नायिका तिलक ( सुहागबिन्दु ) और पत्र-रचनासे सुशोभित होती है, उसी प्रकार उपवनकी शोभा तिलक वृक्षोंके अभी-अभो उत्पन्न हुए नये-नये पत्तोंसे है। इसी शोभाको दिखलानेके लिए मानो चैत्रमास कोकिलके शब्दके बहानेसे मुझे बुला रहा है ।। ५२ ॥ उपवन में मलयपवनके इशारेपर टहनियाँ नर्तकीकी भाँति नृत्य कर रही हैं-हिल रही हैं। मैं वहाँ जाकर कामदेवके मित्र ऋतुराज वसन्तका सत्कार करूं। नम्र शरोरवाली प्रिये ! तुम भी चलो और वहाँ ओटमें खड़ी हुई-अदृश्य वनदेवियोंकी आँखोंको उत्सव उत्पन्न कर दो ॥ ५३ ।। हे सुमुखि ! वहाँ मेरी दृष्टिको आकृष्ट करने वाले नृत्यको छोड़कर मयूर यदि लज्जित होकर भागनेका प्रयत्न करे तो तुम कामदेवके निवास स्थान स्वरूप नितम्ब तक लटकने वाले अपने
१. आ इ परभृतां ध्वनित । २. एप टोकाश्रयः पाठः प्रतिषु तु विशेषस्य स्थाने विचित्र' इत्यस्ति । ३. प्रादुर्भवद्भिः तिलकरत्र: तिलकवक्षच्छदैः । ४. = विचित्रा। ५. श प्रती 'मकरिकापत्रेण' इति नोपलभ्यते । ६.= ध्वनितं ध्वनिः, तस्य । ७. = चैत्रमासः । ८. आ लिट श लेट् । ९. = तत्संबुद्धौ । १०. = नृत्तयुताः। ११. आ लिङ्श लेट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.