________________
-, ४४]
अष्टमः सर्गः दारुणा विरचना भ्रुकुटीनां साम्यमावहति सुभ्र कुटीनाम् । बिभ्रति प्रियतमे तव दास्यं कोपनं किमिति जातवदास्यम् ॥४१॥ का धृतिस्तव रतेन विना मे नोद्यताञ्जलिरहं न विनामे । किं वृथैव मयि मानममाने संतनोति भवती नममाने ।।४।। कान्तिवारिणि नभोवदनन्ते मग्नमम्बुजनिभं वदनं ते । पातुमुत्सुक इव भ्रमरोऽहं जायमानबहुविभ्रमरोहम् ॥४३॥ मन्मनः सुतनु भीमदनेन बाध्यमानमनिशं मदनेन ।
वर्तते भज रुपस्तनिमानं मुञ्च पीवरतरस्तनि मानम् ॥४४|| उपकारवचनम् । जगदे ऊचे। गद व्यक्तायां वाचि कर्मणि लट् । पञ्चभिः कुल कम् ॥४०॥ दारुणेति । सुभ्र सु शोभने भ्रुवो यस्याः तस्याः संबोधनम्', भो मनोहरभ्र वनिते । भृकुटीनां भ्रूविकाराणाम् । दारुणा निष्ठुरा। विरचना करणम् । कुटोनां तृण कुटीराणाम् । साम्यं सादृश्यम् । आवहति घरति । तृणकुटीरवच्छ्रोत्रं नश्यत्-इत्यर्थः । तव ते। दास्यं दासत्वम् । बिभ्रति धरति । प्रियतमे प्राणनायके, मयि, इत्यध्याहारः । आस्यं मुखम् । किमिति किं कारणम् । को।नं कोपयुक्तम् । जातवत् जातम् । क्तवतुप्रत्ययः ॥४१॥ का तिरिति । तव ते। रतेन सुरतेन । विना ऋते। मे मम । का धृतिः कः संतोषः। अहं. विनामे प्रणामे। नोद्यताजलि: न विहिताञ्जलि न वि( हि )भवामि, इति न, अपि तु उद्यतालि . रेव-इत्यर्थः । भवती पूज्या त्वम् । अमाने गवरहिते । नममाने नमस्कारं कुर्वाणे । मयि नायके । वृथैव व्यर्थमेव । मानं गर्वम् । कि कारणम् । संतनोति करोषि(ति)। भवच्छब्दयोगे प्रथमपुरुषः ॥४२॥ कान्तीति । नभोवत् गगनवत । अनन्ते अन्त रहिते। कान्तिवारिणि कान्तिःलावण्यमेव वारि जलं तस्मिन । मग्नं निपतितम । अम्बजनिभम अम्बजस्य कमलस्य निभं समानम् । जायमानबहविभ्रमरोहं जायमान उत्पद्य मानो बहुबेहुलो विभ्रमस्य भ्रूविकारस्य रोहः स्थानम्, अथवा अङ्करप्रादुर्भावो यस्य तत् । तव, वदनं मुखम् । अहं, भ्रमरः भृङ्ग इव । पातुं पानं कर्तुम् । उत्सुकः उद्युक्तः ।।४३।। मन्मन इति । सुतनु सु शोभना तनुर्यस्याः तस्याः संबोधनम्, भो मनोहराङ्गि । पीवरतरस्तनि पीवरतरी अत्यन्तपीवरी स्तनौ कुची यस्याः तस्याः संबोधनम्, भोः पृथुतरस्तनि । अनेन एतेन । मदनेन मन्मथेन । अनिशम् अनवरतम । बाध्यमानं पीड्यमानम् । मन्मनः मम चित्तम् । भीमत् भी यमस्यास्तीति भीमद् भयसहितम्---इत्यर्थः । वर्तते विद्यते । रुषः कोपस्य । तनिमानं तनोः कृशस्य भावः तनिमा तं कृशत्वम्-इत्यर्थः । भज आश्रय ।
( ३६वें से ४०वें पद्य तक सम्बन्ध है) ॥४०॥ प्रिये ! तेरो भौहें सुन्दर हैं, पर इस समय कोपके कारण कुटिलता और कठोरता आ जानेसे ये दारुण हो गयो हैं और इसीलिए लकड़ीकी कुटियों जैसी हो गयी हैं। प्रियतमने ( मैंने ) तेरी दासता स्वीकार कर ली है तो फिर तेरा मुख कोपयुक्त क्यों है ? ।। ४१ ॥ तेरे सम्भोग बिना मुझे कौन-सा सन्तोष है ? तुझे प्रणाम करते समय में हाथ नहीं जोड़ता, यह बात भी नहीं है। मैं मान छोड़कर तेरे सामने नम गया हूँ, तो फिर तू व्यर्थ ही मान क्यों कर रही है ? ॥ ४२ ॥ आकाशकी तरह अनन्त कान्ति रूपी जलमें डूबे हुए, नाना प्रकारके शृंगारसे युक्त तुम्हारे कमलसरीखे मुखको मैं भौंरेके समान पीनेके लिए उत्सुक हूँ || ४३ ॥ हे सुन्दर शरीर वाली ! और हे पुष्ट स्तनों वाली ! इस कामदेवके द्वारा निरन्तर सताया गया मेरा मन भयभीत हो रहा है । अतः क्रोधको कम कर, और
१. = तत्संबुद्धो । २. आ श का इति । ३. = यत्र । ४. = तत्संबुद्धौ । ५. = तत्संबुद्धी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org