________________
-८, ३७]
अष्टमः सर्गः कन्तुना भवदशोकबलेन मृत्युनेव सकलोऽकवलेन । अस्यते स्म विरहो प्रमदायाः संस्मरन्मुहुरकम्प्रमदायाः ॥ ३४ ॥ प्रागतीव मनसा समुदा यस्तस्थिवान्विरहिणीसमुदायः। सोऽतिदुःसहमनोभवदूनो माधवे सुखितयाभवदूनः ॥३५॥ कामशोकजलधेरुदितानि संहरालि सततं रुदितानि । मेरुभूधरसदृक्षममुक्तं धैर्यमापदसनक्षममुक्तम् ॥३६॥ यत्र भान्ति कुसुमैरमलाभः शाखिनो जनमनोरमलाभः ।
यस्तवावधिरकारि वसन्तःप्रेयसा निजगुणैरिव सन्तः ॥३७॥ वधूनां वनितानां निकरेषु निवहेपु। गायनेषु गायत्सु । जातवत्सु जातेषु सत्सु । पुष्परेणुकृतपांसुलतानां पुष्परेणुना कुसुमरसेन (रजसा) कृता विहिता पांसुलता मलिनत्वं यासा तासाम् । सुलतानां शोभनव्रततीनाम् । मरुत् वायुः । नर्तकः नटः । अभूत् अभवत् । परिणामः ( रूपकम् ) ॥३३॥ कन्तुनेति । अकवलेन ग्रासरहितेन । मृत्यु नेव यमेव । भवदशो बलेन भवद् अशोक एव कङ्केलिवृक्ष एव बलं सहायो यस्य तेन । कन्तुना मन्मथेन । अकम्प्रम दायाः अकम्प्रः स्थिरो मदो गर्यो यस्याः, तस्याः। प्रमदायाः कान्तायाः । स्मरणार्थत्वाद् वनितामित्यर्थः । 'स्मृत्यर्थ-' इत्यादिना कर्मणि षष्ठी। मुहुः पुनः । संस्मरन् संध्यायन् । सकल: सर्वः । विरही वियोगवान् जनः । अस्यते स्म गिल्यते स्म । प्रसूङ् अदने कर्मणि लट् । उत्प्रेक्षा ॥३४॥ प्रागिति । यः विरहिणीसमुदायः विरहिणीनां वियोगिनीनां समुदायः समवायः । प्राक पूर्वम् । अतीव अत्यन्तमिव । इव शब्दो वाक्यालङ्कारे । समुदा मुदा संतोषेण सह वर्तते इति समुत् तेन । मनसा चित्तेन । तस्थिवान् तस्थौ इति तस्थिवान् स्थितवान् । सः विरहिणीसमुदाय: । माधवे मधुरेव माधवः (प्रज्ञादित्वादण् ) तस्मिन् बसन्ते । अतिदुःसहमनोभवदूनः अतिदुःसहेन सोढुमशक्येन मनोभवेन मन्मथेन दूनः संतापितः सन् । सुखितया सुखयुक्तत्वेन । ऊनः रहितः । अभवत् अभूत् । भू सत्तायां लङ् ॥३५॥ कामेति । आलि सखि । कामशोकजलधेः कामेन जातः शोकः स एव जलधिः तस्मात् । सततं संततम् । उदितानि जातानि । रुदितानि रोदनानि । संहर त्यज । मेरुभूधरसदृक्षं मेरुणा मन्दरेण भूधरेण पर्वतेन सदृक्षं समानम् । धैर्य धोरत्वम् । अमुक्तम् अत्यक्तं सत् । आपदसनक्षमम् आपदो विपत्तरसने नाशने क्षमं समर्थम् । उक्तं भाषितम् ॥३६॥ यत्रेति । [यत्र यस्मिन् वसन्ते ]। अमलाभैः अमला आभा कान्तिर्येषां तैः। जनमनोरमलाभः सुनकर साधुओंका शमगुण नष्ट होने लगा, तब मलयानिल भी परागसे धूसरित लताओंको नचानेके लिए उद्यत हो गया। फूल खिल उठे, भौंरे उनपर गुंजार करने लगे, दक्षिण पवन बहने लगा। लतायें हिलने लगीं और साधुओंके मन में विकार शुरू होने लगा ॥ ३३ ॥ अशोकका बल पानेवाले कामदेवने समस्त विरहियोंको-जो स्थिर गर्व रखनेवाली अपनी प्रियाओंकी बार-बार याद कर रहे थे-यमराजकी तरह एक ही साथ निगलना शुरू कर दिया ॥ ३४ ॥ विरहिणियोंका जो वर्ग पहले शिशिर ऋतुमें खूब प्रसन्नचित्त रहा, वही वसन्तके आते ही असह्य कामसे सन्तप्त होकर सुखी न रह सका || ३५ ॥ सखि ! कामसन्तापके कारण तेरे शोकसागरसे ये लगातार आँसू बरसाने वाले रुदनरूपी मेघ उठ रहे हैं। इनका संहार कर-लगातार रो मत । अनुभवी लोगोंने कहा है-'धीरज न छोड़ा जाय तो वह मेरु पर्वतके समान अटल होकर विपदाओंको दूर करने में समर्थ होता है' ॥ ३६ ॥ जिस वसन्त ऋतुको तेरे पतिने परदेश जाते समय आनेकी अवधि कहा था, और जिसमें वृक्ष निर्मल
१. म यस्तवावधिरकारि वसन्तःप्रेयसा निजगणरिव सन्तः । यत्र भान्ति कुसुमैरमलाभैः शाखिनो जन मनोरमलाभै ॥ २. = गायकेषु। ३. श प्रतो 'यमेनेव' इति नोपलभ्यते । ४. आ प्रती 'गिल्यते स्म' इति नास्ति । ५. आ श असू । ६. शसमवायः । ७. श कामिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org