SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् दूतिकोक्तमिति कोऽपि निकामं शुश्रूवान्मनसि कोपिनि कामम् । तत्क्षणादुपययौ परमेण दीर्घमानकलुषोपरमेण ॥ ३० ॥ ( पञ्चभिः कुलकम् ) . कर्णिकारमधवाजनितान्तं चारुगन्धगुणतोऽजनि तान्तम् । सर्जने हि विधिरप्रतिमोहस्तस्य युक्तघटनां प्रति मोहः ।। ३१ ॥ वृक्षपङ्क्तियुवतेरधरेण चारुतापरमपारधरेण । किंशुकेन शुशुभे समयोऽसौ बिन्दुनेव सविलासमयोऽसौ ।। ३२ ।। गायनेष्वलिवधूनिकरेषु जातवत्सु शमहानिकरेषु। पुष्परेणुकृतपांसुलतानां नर्तको मरुदभूत्सुलतानाम् ।। ३३ ॥ दूतिकेति । दूतिकोवतं दूतिकया संचारिकया उक्तं भाषितम् । इति एवम् । कोपिनि क्रोधयुक्ते । मनसि मानसे । निकामम् अत्यन्तम् । शश्रवान् शश्राव इति शुश्रुवान् आकणितः । कोऽपि कश्चिन्नायकः । परमेण महता। दीर्घमानक लषोपरमेण दो| बहलो मानो गर्वः स एव कलुष दोषः तस्योपरमो विनाशः, तेन । तत्क्षणात् क्षणमात्र त् । कामं कामविलासम् । उपययो जगाम । या प्रापणे लिट् । रूपकम् । पञ्चभिः कुलकम् ।।३०।। कणिकारमिति । अधवाजनितान्तं न विद्यते धो यासां ता अधवास्तासां नायकवियुक्तानां जनितो जातो अन्तो नाशो येन तत् । कणिकारं गिरिपद्मम् । चारुगन्धगुणतः चारोर्गन्धस्य गुणतो विशिष्टपरिमलात् । तान्तं शून्यम् । अजनि अभूत्, स्ययं दृप्रम्यमपि सुगन्धिहीनमभूत्-इति भावः । तथा हि--विधिः ब्रह्मा । सर्जने सृष्टौ । अप्रतिमोहः अप्रतिम उपमातीत ऊहो विचारो यस्य सः, स तथोक्तः । तथापि । तस्य ब्रह्मणः । युक्तघटनां प्रति परिमलसंबन्धव्यापार प्रति । मोहो हि अज्ञानं हि ॥३१।। वृक्षेति । चारुतापरमपारधरेण रुताया मनोहरत्वस्य परममुत्कृष्टं पारमवसानं धरतीति चारुतापरमपारधरः, तेन । वृक्षपतियुवतेः वृक्षाणां तरूणां पङ्क्तिः समाः ( राजिः ) सा एव युवतिस्तरुणी तस्याः। रूपकम् । अधरेण रदनच्छदनिभेन । किशुकेन पलाशेन । असो समयः। अयं वसन्तकालः । असो खड्गे। अयः लोहम् । बिन्दुनेव जलकणेनेव । सविलासं विलाससहितं यया तया। शुशुभे बभौ । शुभि दोप्तौ लिट् । उपमा ॥३२॥ गायनेविति । शमहानिकरेषु शमस्य उपशमपरिणामस्य हानिकरेषु नाशकारिषु । अलिवधूनिकरेषु अलीनां मधुकराणां प्रिया अब विरह सहने योग्य नहीं है ॥२६।। किसी नायकके मन में यों तो अत्यधिक क्रोध भरा हुआ था, किन्तु दूतीको उक्त बातों को सुनते ही उसके मनकी, गर्वसे उत्पन्न हुई कलुषता बिलकुल ही विलीन हो गई। फलतः बह शीघ्र ही अपनी प्रियाके पास चला गया। (२६वें से ३०वें श्लोक तक सम्बन्ध है ) ॥३०॥ कनेरका फूल अत्यन्त सुन्दर होता है, कामोद्दीपक होता है और होता है विधवाओं या विरहिणियोंके जीवनका अन्त करनेवाला। किन्तु उसमें अच्छी गन्ध नहीं होती। सच तो यह जान पड़ता है कि सृष्टिके बारे में विधाता अनुपम विचारोंका धनी होता है, किन्तु किस वस्तुका किस वस्तुके साथ ठोक मेल बैठेगा, इस योजनाके विषयमें उसे मोह हो जाता है। इसीलिए तो उसने कनेरके फूलको खूब सुन्दर बनाया पर उसे अच्छी गन्धसे वञ्चित रखा ॥३१॥ सुन्दरताके नये कीर्तिमान ( रिकार्ड ) को स्थापित करनेवाले, टेसूके फूलरूपी, वृक्षवीथीरूपी युवतीके होठसे वसन्तके इस सुहावने समयको शोभा है। जैसे कलापूर्ण विधिसे चढ़ाये गये आबसे तलवारके लोहेकी शोभा होती है ॥३२॥ भौंरोंकी अंगनाएं गाना गानेके लिए जब सम्मिलित रूप में उद्यत हो गयीं, और उनका गान १. अ क ख ग घ 'पञ्चभिः कुलकम्' इति नास्ति। २. अनितान्तां । ३. अतान्ताम्। ४. अवलिजने निकरेषु । ५. = पाणितवान् । ६. = उत्पादितः । ७. = दुमोत्तलम् । ८. = योग्यसंयोगं प्रति । ९. मा समूहः । १०. श नाश करेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy