SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ - ८, २९ ] अष्टमः सर्गः शीतदग्धनलिनी समदेहां वल्लभां च्युतविलासमदेहाम् | पासि तां यदि गुणो भवतोऽयं देहि वा जितमनोभव' तोयम् ॥ २७ ॥ यः प्रविश्य हृदये रजनीषु स्थैर्यवान्रतिपतेरजनीषुः । सुभ्रुवः स तब संगमनंन नोद्धृतो व्रजति संगमनेन ॥ २८ ॥ गच्छ तत्सुभग सारमयत्वं संप्रहाय दायितां रमय त्वम् । मन्मथ व्यसनाविरहस्य न क्षमेन्दुवदना विरहस्य ॥ २६ ॥ तिपन्ति । मन्मथश्च मारोऽपि । हन्ति हिनस्ति । हन् हिंसागत्योः लट् ||२६|| शीतेति । जितमनोभव जितः पराजितो मनोभवः कामो येन तस्य संबोधनम् 3 भो जितमार । शीतदग्धनलिनीसमदेहां शीतेन हिमेन दग्धायाः संतप्ताया नलिन्याः पद्मिन्याः समः समानो देहः शरीरं यस्याः, ताम् । च्युतविलासमदेहां च्युता विनष्टा विलासस्य शृङ्गारस्य मदस्य ईहा चेष्टा यस्याः, ताम् । तां वल्लभां प्राणकान्ताम् । यदि पासि रक्षसि । पारक्षणे लट् । व्ययम् एषः । भवतः तव । गुण: । वा अथवा तोयं जलम् । देहि यच्छ ॥ २७॥ य इति । यः, रतिपतेः कामस्य । ६षुः बाणः । रजनीषु रात्रिषु । सुभ्रवः सुशोभने भ्रुवौ यस्याः तस्याः, स्त्रियाः - इत्यर्थः । हृदये अन्तरङ्गे । प्रविश्य गत्वा । स्थैर्यवान् स्थिरतरः । अजनि अजायत । तव ते । संगमनेन संसर्गेण । उद्धृतः उत्पाटितश्चेत् । सः बाणः । अनेन हृदयेन । संगं संसर्गम् । न व्रजति न प्राप्नोति । व्रज गतौ लट् ||२८|| गच्छेति । तत् तस्मात् कारणात् । सुभग भो मनोहराङ्ग । मन्मयव्यसनला विरहस्य मन्मथेन कामेन जातं व्यसनं मन्मयव्यसनं तत्लुनातीत्येवं शीलं तथोक्तं मन्मथव्यसनलावि रहस्यं भोगो यस्य तस्य संबोधनं हे कामव्यसनच्छेदिभोगयुक्त - इत्यर्थः । सारमयत्वं लोहमयत्वं कठिनत्वं मूर्खत्वं वाइत्यर्थः । 'जलजबलन्याय्य स्थिरांशवरधनेषु सारः' इति नानार्थकोशे । संप्रहाय त्यक्त्वा । गच्छ याहि । गम्लु गती लोट् । 'यम्गमिषोश्शिच्छः' इति च्छादेशः । त्वं भवान् । दयितां वनिताम् । रमय क्रोडय । इन्दुवदना इन्दुरिव वदनं मुखं यस्याः सा । विरहस्य वियोगस्य । क्षमा सहमाना। न न भवति । उपमा ||२९|| और कामदेव मारे डालता है ||२६|| सुन्दर ! तुमने तो सुन्दरतामें कामदेवको भी मात कर दिया है । तुम्हारी प्रियाकी अवस्था इस समय अत्यन्त दयनीय हो गयी है— उसकी काया शीतलहरी (पाला) से झुलसी हुई कमलिनीके समान हो गई है, और उसे अपने जिस श्रृङ्गारपर गर्व था, उस ओर अब उसका ध्यान ही नहीं जाता, न उसकी चेष्टा ही करती है । यदि तुम उसे बचा लेते हो ( उसके निकट जाकर ) तो तुम्हारा दयागुण व्यक्त होगा - तुम्हारी दया होगी। यदि ऐसा नहीं कर सकते हो तो उसे जलाञ्जलि दे दो ||२७|| रात्रिके समय कामदेवका जो बाण तुम्हारी प्रिया के — जिसकी भौं अत्यन्त सुन्दर है— कलेजे में घुसकर वहीं जम गया है, जरा भी नहीं हिलता, उसे तुम अपने मधुर संसर्गसे निकाल दो तो वह उस ( कलेजे ) के साथ नहीं जायगा ||२८|| हे सुभग ! कामपीडाको दूर करनेका रहस्य तुम जानते हो । अतः तुम अपनी फौलादी कठोरताको छोड़ो, जाओ और अपनी प्रियाको रमाओ । तुम्हारी चन्द्रमुखी १. अ जनमनो । २. अ मोदितो । ३. = तत्संबुद्धो । ४. ५. = तत्संबुद्धी । ३. भा लिट् श लेट् । ७. = योग्या । २०३ Jain Education International For Private & Personal Use Only = लाभ उपकारो वा । www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy