________________
२०३ चन्द्रप्रभचरितम्
[८, २३का क्षता' हृदयभूशबरस्य सायकैन विननाश बरस्य । संस्मरन्त्यनुपमासहितस्य प्रोषितस्य मधुमासहितस्य ॥ २३ ॥ प्रीणिताहिनरदेवकुलानि प्रोल्लसन्ति नितरां बकुलानि ।। नीररिक्तजलवाहसितानां साम्यमापुरबलाहसितानाम् ।। २४ ॥ काञ्चनारकुसुमे द्युतिमत्तापितामलिनविद्युति मत्ता । कुर्वती ध्वनिमतारमतारं कालिनी न सरसारमतारम् ।। २५ ॥ तां शशाङ्ककिरणा विदहन्ति मन्मथश्च नयकोविद हन्ति ।
पीडितां निजमनःकमलेन त्वद्वियोगभवशोकमलेन ॥२६॥ केति२ । अनुपमासहितस्य उपमया सादृश्येन सहितः संयुक्तः तथोक्तः, न उपमया सहितोऽनुपमासहितः तस्य, उपमाराहित्ययुक्तस्य–इत्यर्थः । प्रोषितस्य परदेशस्थस्य । मधुमासहितस्य मधुमासाय वसन्तमासाय हितस्य हितभूतस्य । 'शक्तार्थ-' इत्यादिना हितशब्दयोगे चतुर्थी वा ( ? )। बरस्य वरस्य-नायकस्य । वबयोरभेदः । संस्मरन्ती ध्यायन्ती। 'स्मृत्यर्थ-' इत्यादिना कर्मणि षष्ठी। हृदयभूशबरस्य हृदयभूरेव मन्मथ एव शबरो व्याधस्तस्य । सायकैः बाणः । क्षता विद्धा सती। का न विननाश का न नश्यति स्म, अपितु ननाश एव । रूपकम् ।.२३॥ प्रीणितेति । प्रोणिताहिनरदेवकूलानि अहीनां भवनवासिनां नराणां मनुष्याणां देवानां कल्पवासिना' कुलानि समूहाः तथोक्तानि, प्रीणितानि तृप्तानि तानि च तानि अहिनरदेवकुलानि च तयोक्तानि । नितराम अत्यन्तम् । प्रोल्लसन्ति विलसन्ति । बकुलानि बकुलपुष्पाणि । नीररिक्तजलवाहसितानां नीरेण जलेन रिक्तो रहितो जलवाहवत् शरत्कालमेघवत् ( जलवाहः शरन्मेषः तद्वत् ) सितानां शुभ्राणाम् । अबलाहसितानाम् अबलानां वनितानां हसितानां मन्दस्मितानाम् । साम्यं सादृश्यम् । आपुः ययुः । आप्ल व्याप्ती लिट् । उपमा ॥२४ । काञ्चनारेति । द्युतिमत्तापितामलिनविद्यति द्युतिमत्तया कान्तियुक्तत्वेन ह्रपिता लज्जिता अमलिना निर्मला विद्युद् यस्य तस्मिन् । काञ्चनारकुसुमे काञ्चनारस्य कोविदारस्य कुसुमे पुष्पे । मत्ता प्रोता। अतारमतारं मन्दं मन्दम् । 'व.प्सायाम्' इति द्विः। ध्वनि स्वरम् । कुर्वती विदधती। सरसा सरागा। का अलिनी भ्रमरी । अरम् अत्यन्तम् । नारमत नाक्रीडत, अपि त्वरमत एव ॥२५॥ तामिति । नयकोविद भो नौतिचतुर । त्वद्वियोगभवशोकमलेन तव वियोगेन विरहेण भवो जातः शोको विषादः स एव मलं दोषो यस्य तेन । निजमनःकमलेन नि जस्य स्वस्य मन एव चित्तमेव कमलं तेन । रूपकम् । पीडितां बाधिताम् । तां स्त्रीम् । शशाङ्ककिरणाः शशाङ्कस्य चन्द्रस्य किरणा मयूखाः । विदहन्ति दूतीसे कह रही थी । ( यहाँ १८ वें से २२ वें श्लोक तक सम्बन्ध है ) ॥२२।। ऐसी कौन सी युवती थी, जो सौन्दर्यमें अनुपम एवं वसन्त मासमें हितकर अपने प्रवासी पतिको याद करतीकरती काम-व्याधके बाणोंसे घायल होकर कामदेवकी दसवीं अवस्थामें नहीं पहुँचो ? ॥२३।। भवनवासी, मनुष्य और कल्पवासी देवों ( तीनों लोकोंके निवासियों ) को प्रसन्न करनेवाले बकुल ( मौलसिरी) के फूल खूब ही खिल रहे हैं और वे शरत्कालीन मेघकी भांति श्वेत, नायिकाओंके हासकी (धवल होनेसे ) बराबरी कर रहे हैं ।।२४॥ इन दिनोंमें ऐसी कौन सी रसीली भौंरी थी, जो अपनी कान्तिसे उज्ज्वल बिजलीको लजानेवाले कचनारके फूलपर उसके रससे मतवाली होकर, मन्द-मन्द ध्वनि करती हुई क्रीड़ा नहीं कर रही थी ? ॥२५॥ हे नीतिनिपुण ! तुम्हारे विरह जन्य शोकके मलसे उस ( तुम्हारी प्रिया ) का हृदयकमल भीतर-हीभीतर दवा-सा जा रहा है, अतः वह योंहो दुःखी है, ऊपरसे चन्द्रमाकी किरणें उसे जला रही हैं
१. इक्षितां । २. आ श का इति। ३. = अनुपमस्य-इति यावत। ४. आवासिकानां शवासितानां। ५. शवासितानां। ६.-तृप्ति प्रापितानि। ७. आ श कामिति। ८. = येन। ९. = यत्र। १०. = संधुक्षयन्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.