________________
२०१
-८, २२]
अष्टमः सर्गः किंकरी तव भवामि सदाहं मन्मनः सुरतकामि सदाहम् । ह्लादय प्रियतमानयनेन त्वं क्षमात्र न मृगोनयने न ॥२०॥ तापयन्ति मम मानिनि तान्तं मानसं मधुदिनानि नितान्तम् । तद्विधेहि दयितं दयमानं सामभिर्मम महोदयमानम् ।। २१ ।। काचिदुत्पलतुलासहनेत्रा रन्तुमुत्सुकमनाः सह नेत्रा। दूतिकामिति जगौ विनयेन दुःखमुद्भवति भावि न येन ॥ २२ ॥
( पञ्चभिः' कुलकम् )
रुचिताभिः इष्टाभिः। उचिताभिः प्रस्तुताभिः । वाग्भिः वचनैः । निगदेः त्वं ब्रहि। गद व्यक्तायां वाचि लिङ्। प्रियकवचसा प्रियं प्रीतमेकं मुख्यं वचो येषां तेषाम् । यत वस्तु । जायते संपद्यते। असामपरस्य मसाम्नि अप्रियवचने परस्य तत्सरस्य । अपरस्य अन्यस्य । तत् वस्तु । न जायते ॥१९॥ किंकरीति । मृगोनयने मृग्याः (नयने) इव नयने नेत्रे यस्यास्तस्याः संबोधने भो एणलोचने । अहं, सदा अनवरतम् । तव ते । किंकरी सेविका । भवामि अस्मि । भू सत्तायां लट् । सुरतकामि (सुरतं) संभोगम् (कामयते) इच्छतो. (ति सुरतकामि) । सदाहं संतापसहितम् । मन्मन: मम मे मनः चित्तं मन्मनः । प्रियतमानयनेन प्रियतमस्य प्रकृष्टप्राणकान्तस्यानयनेन । त्वं भवती। ल दय तृप्ति नय । अत्र प्रियतमानयने । त्वं न क्षमा न समर्या (इति) न, न भवसि, अपि तु क्षमैव । द्वो नो प्रस्तुतार्थ गमयतः ॥२०॥ तापेति । मानिनि भोः सखि । तान्तं दुःखसहितम् । मम मे । मानसं चित्तम् । मधुदिनानि भघोर्वसन्तस्य दिनानि दिवसाः । नितान्तं तीव्रम् । तापयन्ति संतापयन्ति । तत् तस्मात् कारणात् । महोदयमानम् उदय ऐश्वर्य, मानोऽभिमानः, उदयश्च मानश्च तथोक्ती, महान्तौ उदयमानो यस्य तम् । मम मे। दयितं कान्तम् । सामभिः प्रियवचनैः। दयमानं पालयन्तम् । विधेहि कुरु । डुधाञ् धारणे च लोट् ॥२१॥ काचिदिति । उत्पलतुलासहनेत्रा उत्पलस्य कुवलयस्य तुले समाने असहे नेत्रे यस्याः सा, उत्पलोपमाननेत्रा-इत्यर्थः । काचित् अन्या स्त्री । नेत्रा प्राणनायकेन । सह साकम् । रन्तुं क्रीडितुम । उत्सुकमनाः उद्यक्तमनाः सती। येन केन (?)| भावि भविष्यत् । दु.खं कृच्छम् । नोद्भवति न जायते । विनयेन प्रश्रयेण । दूतिका सखीम (दूतीम)। इति प्रोक्तप्रकारेण । जगी जगाद । गै शब्दे लिट् । 'एवोऽश्याः' इति आकारादेशः । उपमा । पञ्चभिः कुलकम् ॥२२॥
तुम उचित वचन बोलना; क्योंकि जो वस्तु प्रियावादोको मिल जाती है, वह अप्रियवादीको नहीं मिल सकती ॥१६॥ हे मृगनयनी ! मैं सदा तेरी दासी बनी रहूंगी। मेरा सन्तप्त मन सम्भोगके लिए लालायित है । अतः उन ( पतिदेव ) को यहाँ लाकर मुझे तृप्त कर दे। तू इस काममें समर्थ नहीं है, सो यह बात तो है नहीं ॥२०॥ हे सखि ! ये वसन्तके दिन मेरे दुखी मनको खूब हो सन्ताप दे रहे हैं । अतएव तू अपनी प्रिय बातोंसे उन ( पतिदेव ) को मेरे ऊपर दयालु बना दे । वे महान ऐश्वर्यके स्वामी हैं और हैं मानके धनी । तू भी तो मानकी धनी है । अतएव वे तेरी बातको टालेंगे नहीं ॥२१॥ इस तरह कोई नवयुवती, जिसके नेत्रोंको तुलनामें नीलकमल भी अत्यन्त तुच्छ थे और जिसके मन में अपने पतिके साथ क्रोड़ा करनेकी उमंग भरी हुई थी, यह सोचकर कि उसे आगे विरहका दुःख न उठाना पड़े, बड़ी विनयसे ये बातें अपनी
सरा ४८४.3Dपिल
= उत्पलं
१. आ इ 'पञ्चभिः' इति नोपल म्यते । २. = तत्संबुद्धौ। ३. आ हिट श कुवलयं तस्य तुलां साम्यं न सहेते नेत्रे यस्यः सा । ५. = उत्पलाभिभाविलोचना-इत्यर्थः । Jain Education Internal Shal
For Private & Personal Use Only
www.jainelibrary.org