________________
चन्द्रप्रमचरितम्
तापहारि वपुषो विधुरस्य चन्दनाम्बु न न वा विधुरस्य । गन्तुमप्रियकृतौ नियतेहं न प्रियं तदपि धाम्नि यतेऽहम् ।। १६ ।। यान्यदास्त वचनानि वदन्ती दूतिकामिति महानिव दन्ती । माधवोऽकृत वशे मधुरस्य तां प्रियस्य धृतकामधुरस्य ॥ १७ ॥
(पञ्चभिः कुलकम् ) त्वादशी पटुरकारि वयस्या मच्छुभैर्ग्रहपतेरिव यस्याः । मर्तिरुत्सवकरी सकलस्य सजनस्य सविकासकलस्य ॥ १८ ।। तत्प्रगम्य दयितं रुचिताभिर्वाग्भिरालि निगदेरुचिताभिः ।
यत्प्रियैकवचसामपरस्य जायते न तदसामपरस्य ।। १९ ॥ कः, न कोऽपीत्यर्थः । तत् तस्मात् कारणात् । परम् उत्कृष्टम् । महिमानं महत्त्वम् । विदधतं कुर्वन्तम् । युक्तम् उचितम् । मानसमेव गर्वमेव । विदधीमहि कुर्यामहि । डुषाञ् धारणे च लिङ॥१५॥ तापेति । विधुरस्य (विरह-)दुःखितस्य । [अस्य]वपुषः शरीरस्य । चन्दनाम्बु गन्धोदकम् । तापहारि संतापहारि । न भवति । विधुर्वा चन्द्रोऽपि । अस्य [वपुषः] शरीरस्य । तापहारि न भवति । तदपि तथापि । अप्रियकृती अप्रियस्य अहितकार्यस्य कृती करणे। नियतेहं नियता नियमिता ईहा-चेष्टा यस्य तम् । प्रियं वल्लभम् । गन्तुं गमनाय । धाम्नि गृहे। अहं न यते यत्नं न करोमि । यतंङ् प्रयत्ते लट् ॥१६॥ येति । या नायिका। अन्यदा शेषर्तुषु । मव्ययम् । दुतिका संचारिकाम् । इति उक्तप्रकारेण । वचनानि वचांसि । वदन्ती ब्रुवाणा । आस्त अतिष्ठत् । माधवः वसन्तः । धृतकामधुरस्य धृता कामस्य मदनस्य धूर्भारो यस्य तस्य । मधुरस्य मनोहररूपातिशययुक्तस्य । प्रियस्य वल्लभस्य । वशे अधीने । तां स्त्रीम् । महान् दन्तीव गज इव । अकृत अकरोत् । डुकृञ् करणे लुङ । पञ्चभिः कुलकम् ॥१७॥ त्वादशीति । यस्याः वनिताया:६ । मूर्तिः शरीरम् । सविकासकलस्य सविकासाः प्राकट यसहिताः कलाश्चतुःषष्टिकछा यस्य तस्य, पक्षे प्रकाशयुक्तषोडशभागसहितस्य । ग्रहपतेः चन्द्रस्य इव । सकलस्य सर्वस्य । सज्जनस्य सत्पुरुषजनस्य, पक्षे सतां नक्षत्राणां जनस्य लोकस्य च । उत्सवकरी संतोषकरी। पटुः समर्था । त्वादृशी त्वत्सदृशी। वयस्या सखी। मच्छुभैः मम शुभ पुण्यः । अकारि अक्रियत। डुकृञ् करणे कर्मणि लुङ् । श्लेषोपमा ॥१८॥ तदिति । तत् तस्मात् कारणात । इति काचिन्नायिका सखों स्तोति-इत्यर्थः। आलि भोः सखि । दयितं प्राणकान्तम् । प्रगम्य प्राप्य । महाखल है, उस खलनायकसे क्या लेशमात्र भी सुख हो सकता है ? अतएव मैं श्रेष्ठ बड़प्पन दिलानेवाले मानको करूं, यही उचित है ॥१५॥ मेरे इस दुःखी शरीरके सन्तापको न तो चन्दनका जल या गन्धोदक हर सकता है और न चन्द्रमा । तो भी वे जान बूझकर अप्रिय कार्यों में लगे रहते हैं; अतः उनके पास जानेके लिए मैं अपने घर में कोई प्रयत्न नहीं कर रही हूँ ॥१६॥ इस तरह जो नायिका ग्रीष्म आदि अन्य ऋतुओंमें अपनी दूतीसे कहा करती थी, उसी (नायिका) को, बहुत बड़े हाथोके समान प्रभावशाली वसन्तऋतुने उसके अत्यन्त सुन्दर और इसोलिए कामदेवके कार्यभारको धारण करनेवाले पतिके वशमें कर दिया ॥१७॥ तुझ सरीखी समर्थ सखी मुझे बड़े भाग्यसे मिली है। जिस प्रकार सोलह कलावाले पूर्णचन्द्रमाकी मूर्ति नक्षत्र लोकके उत्सवकी पूर्ति करनेवाली होती है इसी प्रकार तेरी मूर्ति सब कलाओं में निष्णात समस्त सज्जनोंको सन्तोष देनेवाली है ॥१८॥ अतः हे सखि ! मेरे पतिदेवके निकट जाकर
१. अ यान्यदा तव च तानि बदन्ती हन्ति मामिति महानिव दन्तो। साधवोऽकृत वशे मघरस्य नाप्रियस्य वृतकामधुरस्य ॥ २. अ क ख ग घ 'पञ्चभिः कुलकम् इति नोपलभ्यते । ३. अ सज्जनाशयविकामकलस्य। ४. आ इ 'युग्मम्' इत्यधिकः पाठः समुपलभ्यते । ५. = येन । ६. तव-इत्यर्थः । ७. = सत्पुरुषस्य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.