________________
-८, १५] अष्टमः सर्गः
१९९ मन्दधूतबकुलोपवनेन स्पृश्यमानवपुषां पवनेन । सुभ्रवामवधिना विकलेन पञ्चमेन समभावि कलेन ।। १२ ।। माग्रहं सखि भजस्व स माया यत्करोति दयितः स्वसमायाः। गोप्यते तव कथं तनु तेन पुष्टिमङ्गकमिदं तनुते न ।। १३ ।। नास्ति तस्य मयि यन्ममतापि तेन मानसमिदं मम तापि । तन्ममास्तु सखि तन्नमनेन नासुखप्रतिविधानमनेन ॥ १४ ॥ योऽपराधरचनासु स्खलेशस्तेन कः प्रणयिना सुखलेशः।
तद्वरं विदधतं महिमानं युक्तमेव विदधीमहि मानम् ।। १५ ॥ नियतोनाम् अनारतमनवरतं तपसो नियतिनियमो येषां तेषाम् । यतीनां यमिनामपि । मानसं चित्तम् । तानि दिनानि तद्दिवसपर्यन्तम् । 'काल.ध्वनोाप्तौ' इति द्वितोया । प्रविकसत्कुसुमेषु प्रविकसन् प्रादुर्भवन् कुसुमेषुः कामविकारो यस्य तत् । अजायत अभवत् । जनैङ् प्रादुर्भावे लङ् ।।११।। मन्देति । मन्दधूतबकुलोपवनेन मन्दम् ईषद् धूतं कम्पितं बकुलोपवनं बकुलवृक्षोद्यानं येन तेन । पवनेन मारुतेन । स्पृश्यमानवपुषां स्पृश्यमानं वपुः शरीरं यासां तासाम् । सुध्रुवां सु शोभने भ्रुवो यासां तासाम्, वनितानाम्--इत्यर्थः । अवधिना मर्यादया। विकलेन रहितेन । कलेन मनोहरेण । पञ्चमेन पञ्चमरागेण । समभावि संभूतम् । भू सत्तायां कर्मणि लुङ् । 'हन् दशि--' इत्यादिना ञिः । 'जः' इति त-लुक । १२॥ मेति । सखि भो वयस्ये। यत् कारणात् । सः दयितः प्राणनायकः । मायाः बञ्चनानि । करोति विदधाति । स्वसमायाः स्वस्य प्राणानां समायाः सदृशायाः । तव ते। इदम् एतत् । तनु कृशम् । अङ्गकं शरीरम् । पुष्टि तुष्टिम् । न तनुते न विस्तारयति । तन विस्तारे लट् । तेन प्राणनायकेन । कथं केन प्रकारेण । गोप्यते आच्छाद्यते । गुपो रक्षणे कर्मणि ल्ट । आग्रहं तात्पर्यम् । मा भजस्व मा कृयाः ।।१३॥ नास्तीति । सखि भो वयस्ये। तस्य प्राणनायकस्य । मयि, यत् कारणात् । ममतापि ममत्वमपि । नास्ति न विद्यते। तेन दयितेन । मम मे। इदम एतत । मानसं चित्तम । तापि तापोऽस्यास्तीति तापि संतापयुक्तम् । तत् तस्मात् कारणात् । अनेन एतेन । तन्नमनेन तस्य प्राणनायकस्य नमनेन नमस्करणेन । मम मे। असुखप्रतिविधानम् असुखस्य विरह जनितदुःखस्य प्रतिविधानं प्रतीकारः। नास्तु न भवतु ॥१४॥ य इति । यः पुरुषः । अपराघरचनासु मानसस्यानुकूल(ता)रहितवर्तनाक्रियासु। खलेशः खलानां दुर्जनामीशः श्रेष्ठः । तेन प्रणयिना प्राणकान्तेन । सुखलेशः सुखस्य संतोषस्य लेश एकदेशः । को देखकर निरन्तर तप करनेवाले यतियोंके मनमें भी कामविकार उत्पन्न हो गया, जो वसन्तके अन्तिम दिनों तक बराबर बना ही रहा ॥११॥ धीरे-धीरे बकौलीके वृक्षोंको हिलानेवाले ( मन्द सुगन्ध ) पवनने ज्यों ही सुन्दर नायिकाओंके शरीरका स्पर्श किया, त्यों ही उनका अस्पष्ट किन्तु मधुर पंचम स्वर, जिसमें किसी प्रकारको मर्यादाका कोई नियन्त्रण नहीं थाशुरू हो गया । इधर वसन्ती हवा बही उधर मधुर स्वरमें नायिकाओंका गान शुरू हुआ ॥१२।। हे सखि ! वह पतिदेवजी चूंकि मुझसे माया चारी करते हैं, इसीलिए तो मेरा यह शरीर पुष्ट नहीं हो रहा है । तुझे मैं अपने समान मानती हूँ। अतः तुझसे ये बातें कैसे छिपाऊँ ? अब तू मुझसे, उनसे मिलनेका आग्रह न कर ।।१३।। सखि ! मेरे ऊपर उनकी ममता भी तो नहीं है। इसी कारणसे मेरा यह मन सन्तप्त रहा करता है । अब उनके चरणों में नमन करनेसे मेरे विरहजन्य दःखोंका प्रतीकार-जो पहले कभी सम्भव रहा-न हो तो न सही, पर अब तो उनसे मेरा दिल बिलकूल ही निकल गया है ॥१४॥ अपराधोंकी झड़ी लगानेके लिए जो खल, खल नहीं,
१. अ वपुषोपवनेन । २. = यस्मिन् । ३. = पुष्टत्वम् । ४. = हठम् । ५. = कारणेन । ६. = मनःप्रतिकूलव्यवहार विधानेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org