________________
चन्द्रप्रमचरितम्
[८, - तापकृत्कुरबकः स्तबकेन हेतुना न नमितस्तव केन । प्रावसो य इति नो किल नादः पान्थमभ्यधित कोकिलनादः॥८॥ योऽभवत्प्रियतमैः सह मानस्तं पुरंधिनिवहोऽसहमानः । वायुनाम्ररजसा शबलेन प्रत्यबाध्यत रतोशबलेन ॥ ९॥ याः प्रसूनविगलन्मधुरागास्तेनिरे "मधुलिहो मधुरा गाः । प्रोषितस्य सकलं विषमाभिर्हद्यवस्तु विदधे विषमाभिः ।। १० ॥ अप्यनारततपोनियतीनां तान्यजायत दिनानि यतीनाम् । मानसं प्रविकसत्कुसुमेषु वीक्षितेषु सुरभेः कुसुमेषु ।। ११ ।। ॥७॥ तापेति । यः त्वम् । प्रावस: परदेशस्थितोऽभवः । वस निवासे लङि मध्यमपुरुषः। स्तबकेन पुष्पसमूहेन । नमितः नम्रोभूतः, प्रह्वोभूत-त्यर्थः । कुरबकः कुरबकवृक्षः । तव 'यमकश्लेषचित्रेषु बवयो. डलयो' न भित् ।' इति वचनात् तव-इत्यर्थः । केन हेतुना कारणेन । तापकृत् संतापकृत् । न इति न भवतीति । अदः इत्येतत्, वार्ताम् ( वचनम् ) इत्यर्थः । कोकिलनादः कोकिलस्य नादः स्वरः । पान्थं पथिकम् । 'नित्यं णः पन्थश्च' इति पन्थादेशः । नो न अभ्यधित नावोचदिति नो, अपि त्ववोचदेव । द्वौ नजी प्रकृतमर्थं द्योतयत: ।।८।। य इति । प्रियतमैः प्राणवल्लभैः । सह साकम् । यः मानः गर्वः। अभवत् अभूत् । भू सत्तायां लङ् । तं मानम् । असहमानः अक्षममाणः। पुरन्ध्रोनिवहः पुरन्ध्रीणां सुचरितस्त्रोणां निवहः । आम्ररजसा आम्रस्य माकन्दस्य रजसा पांसुना। शबलेन मिश्रेण । रतोशबलेन रतोशस्य बलेन सहायन । वायुना मन्दमारुतेन । प्रत्यबाध्यत प्रापीड्यत । बाधृङ् रोधने कर्मणि लङ्। मन्दमाहतेन कामिनीनां बाधा जाता-इत्यर्थः ।।९।। या इति । प्रसूनविगलन्मधुरागाः प्रसूनाद् विगलत् स्रवत् तच्च तन् मधु च तत्र रागः प्रोतिर्येषां ते। मधुलिहः भृङ्गाः । याः मधुरा: मनोहराः । गाः झङ्कार रवान् 'स्वर्गेषुपशुवाग्वज्रदिनेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गोः ।' इत्यमरः । तेनिरे विस्तारयन्ति' स्म । विषमाभिः तीव्राभिः । आभिः गोभिः । झङ्काररवैः-इत्यर्थः । प्रोषितस्य देशान्तरगतस्य । सकलं समस्तम् । हृद्यवस्तु मनोज्ञस्रक्चन्दनादिवस्तु । विष विषरूपम् । अनिष्टम्-इत्यर्थः । विदधे क्रियते स्म । डुवाञ् धारणे च कर्मणि लिट् ॥१०॥ अपीति । सुरभेः वसन्तस्य, वृक्षविशेषस्य वा । 'चम्पकस्वर्णसुगन्धवसन्तपशुमनोज्ञेषु सुरभिः' इति नानार्थकोशे । कुसुमेषु पुष्पेषु । वीक्षितेषु विलोकितेषु सत्सु । अनारततपो. तो और नये-नये पत्तोंको भी नृत्यसे मुक्त नहीं रहने दिया-वे हिलने लगे ॥७॥ कोकिल अपने शब्दोंमें पथिकसे कहीं यह बात तो नहीं कह रहा था कि गुच्छोंसे झुका हुआ यह कुरबक वृक्ष किस कारण तुम्हें सन्तापकारी नहीं हुआ जो तुम अपनी प्रियाको छोड़कर अकेले ही प्रवासमें निकल पड़े हो ।।९।। जो मानवती कुलीन नायिकाएँ पहले अपने प्रियतमके गर्वको नहीं सहा करतो थीं, उनको आमकी बौरके परागसे मिश्रित, कामदेवकी सहायक वायुने वाधा देना शुरू कर दिया। फलतः इन वसन्तके दिनोंमें उन्हें बाध्य होकर पतिका मान सहना पड़ा ॥२॥ फूलोंसे बहते हुए रसमें राग रखनेवाले भौंरे अपने जिस झंकारके मधुर स्वरको खूब जोर-जोरसे सुना रहे थे, वह प्रवासियोंको बड़ा ही दुःखदायी सिद्ध हुआ। उसने प्रवासियोंके लिए माला और चन्दन आदि जो चीजें बहुत प्रिय थीं; उन सभीमें विष घोल दिया ॥१०॥ वसन्तके फूलों
१. क ख ग घ रबक ! । २. अ प्रावसोऽयि । ३. आ इ मभ्यहित । ४. अ पुसूनमगलन्म । ५. भ प्रस्फुटत्सुरभेः। ६. आ रलयोः। ७. आ श योरभेदः। ८. मा लोटने । ९. आ भेङ्कार। १०. आ दृष्टयाः श अक्ष्यदृष्टयोः । ११. श प्रस्तारयन्ति । १२. श धारणपोषणयोः । १३. श प्रतौ 'कर्मणि लिट्' इति नोपलभ्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.