________________
१७
-८,.]
अष्टमः सर्गः बिभ्रती मधुकरं कलिकालं नागकेसरतरोः कलिकालम् । मन्मथार्तिमकरोद्वनितानां चित्तनाथवसतावनितानाम् ॥ ४ ॥ पुष्पमम्बरुहनाम धुनाना भृङ्गपङ्क्तिरदती मधु नाना। कामिनीजनमनोऽभिनदन्तः कोकिलाश्च परितोऽभिनदन्तः॥५॥ वीक्ष्य जातमुकुलं सहकारं कामिनी प्रणयिना सह कारम् । पञ्चसायकशरैर्वितता न प्रीतिकारि सुरतं विततान ॥६॥ शीतलो वनभुवामनिलोऽलं स्त्रीजनं दयितधामनि लोलम् ।
उत्कयन्प्रविकसत्कमलास्यं पल्लवं प्रविदधे कमलास्यम् ॥ ७॥ लङ ॥३॥ बिभ्रतीति । कलिकालं कलिरिव कलिकाल इव काल: कृष्णवर्णस्तम् । मधुकरं भ्रमरम् । बिभ्रतो घरन्तो। नागकेसरतरोः पन्नागवक्षस्य । कलिका कोरकः । चित्तनाथवसतो चित्तनाथस्य प्राणकान्तस्य वसतौ सदने । 'वसती रात्रिवेश्मनोः' इत्यमरः। अनितानां यन्ति स्म इताः (न इता: ) अनिताः तासाम् । अयातानाम् । वनितानां स्त्रोणाम् । मन्मथाति मन्मयस्य मदनस्याति पीडाम् । अलं नितान्तम् । अकरोत् अकार्षीत । डुकृञ करणे। उपमा ॥४॥ पुष्पमिति । अन्त: बनमध्ये। अम्बरुहनाम अम्बरुहमिति कमलमिति नाम यस्य तत् । पुष्पं कुसुमम् । धुनाना धुनीते इति धुनाना कम्पयन्ती। नाना बहुप्रकारम् । 'नानानेकोभयार्थयोः' इत्यमरः । मधु पुष्परसम् । 'मधु मद्ये पुष्परसे क्षौद्रेऽपि' इत्यमरः । अदती पिबती। भृङ्गपंक्तिः भृक्षाणां मधुकराणां पङ्क्तिः संदोहः । कामिनी जनमनः कामिन्येवजन: तस्य मनश्चित्तम् । रूपकम् (?) । अभिनत् भेदयति स्म । भिदृञ् विदारणे ल। परितः समन्तात् । अभिनदन्तः ध्वनन्तः । कोकिलाश्च परभृताश्च । च-शब्दबलेन कामिनीजनमनोऽनिन्दन इत्यन्वीयते ॥५॥ वीक्ष्येति । जातमुकुलं जातं मुकुलं यस्य' तम् । सहकारं चततरुम् । वोक्ष्य दृष्ट्वा । पञ्चसायकशरैः पञ्चसायकस्य मन्मथस्य शरैणिः । अरं नितान्तम् । वितता व्याप्ता। [का] कामिनी [का] रमणी। प्रीतिकारि प्रियविधायि । सुरतं निधुवनम् । प्रणयिना प्राणनायकेन । सह साकम् । न विततान न चकार । अपि तु विततान-इत्यर्थः ।।६।। शीतल इति । प्रविकसत्कमलास्यं प्रविकसत्कमलमिवास्यं मुखं यस्य तम् । दयितधामनि दयितस्य पुरुषस्य धामनि सदने । लोलं लम्पटम् । 'लोलश्चलसतृष्णयोः' इत्यमरः । स्त्रीजनं वनिताजनम् । अलं नितान्तम् । उत्कण्ठयन् उत्सुकं कुर्वन् । वनभुवां बने भवन्ति स्म वनभुवस्तेषाम्, वृक्षाणां संबन्धी इति शेषः। शोतल: शैत्यगुणयुतः। अनिल: मारुतः । कं पल्लवं, विटं च । 'पल्लवः किसलये षिड्गे विटपे विस्तरे जवे । शृङ्गारेऽलक्तरागेऽपि' इति विश्वः । अलास्यं नृत्यरहितम् । अपि तु सलास्यं प्रविदधे एव । उपमा
याद आने लगी ॥३॥ कलिकालके समान काले भौंरेको धारण करनेवाली नागकेसरको कलीने उन युवतियोंके मनमें काम पीड़ा उत्पन्न कर दी, जो अपने प्राणनाथके घर नहीं पहुँच सकी ॥४|| बाग-बगीचोंके अन्दर कमलोंको हिलानेवाली और उनके नाना प्रकारके रसको पीनेवाली भ्रमरपंक्तिने एवं चारों ओर 'कुह-कुह' शब्द करनेवालो कोकिलाओंने नायिकाओंके हृदयको कुरेदना या विदीर्ण करना शुरू कर दिया ॥५॥ एक आमके पेड़को-जिसपर चारों ओरसे बौर लगी हुई थी-देखते ही कामदेवके बाणोंके प्रहारसे पीड़ित हुई किस नायिकाने अपने पतिके साथ अतिमात्रामें सुखद सम्भोग नहीं किया ? ॥६॥ जिनका चेहरा खिले हुए कमलके समान था और जो पतिके यहाँ जाने के लिए लालायित थीं; उन युवतियोंको वनको ठंडी हवाने और भो अधिक उत्सुक कर दिया, तथा उस ( हवा ) ने किस कामी पुरुषको नृत्यसे अछूता छोड़ा, और
१. = इत्यर्थः । २. = कामिनीनां जनो वर्गः। ३. = भिन्नत्ति स्म । ४. आ श लुङ । ५. = यस्मिन् । ६. श प्रतो 'अनिल: मारुतः' इति नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org