________________
१९३
[८. अष्टमः सर्गः]
तत्र शासति महों जनतायास्त्रातरि क्रमसरोजनतायाः । मोदयन्मधुरभून्मधुपानां संततिं कृतगलन्मधुपानाम् ॥१ संहति नवनवाङ्करलीनां नेक्षितुं तरुषु शेकुरलीनाम् । साश्रुभिर्विरहिणो रमणीयर्लोचनैरपहृता रमणी यैः॥२॥ अस्मरत्पतति चम्पकरणौ वल्लभां कुसुमचापकरेणौ । अध्वगो विधुरधीरमराणां कामिनीमिव मनोरमराणाम् ॥३॥
सदष्टिबोधचरितात्मकधर्मनाथः श्रीधर्मनाथजिनपो जगदेकनाथः ।
धर्मामृतं त्रिजगतां सुखदं प्रवर्षन् यो धर्मशीलमखिलं सुजनं करोतु ॥ तनेति । क्रमसरोजनतायाः क्रमो पादौ तावेव सरोजे कमले तयोर्नता प्रणता तस्याः । जनतायाः जनसमूहस्य । 'ग्रामजनबन्धुगजसहायात्तल' इति समूहे तल्-प्रत्ययः । त्रातरि रक्षितरि । 'कृत्कामुक स्य-' इत्यादिना कर्मणि षष्ठो। तत्र तस्मिन् चक्रिणि । महीं भूमिम् । शासति पालयति सति । कृतगलन्मधूपानां गलच्च तन्मधु च गलन्मधु स्रवत्पुष्परसः तस्य पानं गलन्मधुपानं कृतं गलन्मधुपानं यया सा कृतगलन्मधुपाना ताम् । मधुपानां भ्रमराणाम् । संहति निवहम् । मोदयन संतोषयन् । मधुः वसन्तकालः । अभूत् लब्धावसरोऽभवत् । रूपकं यमकं (च) ॥१॥ संहतिमिति । साश्रुभिः नेत्रोदासहितः । रमण.यैः मनोहरैः । यैः कश्चित् । लोचनैः: नयनैः । रमणी नारी। अपहृता रञ्जिता। तैः इत्यध्याहारः। तरुषु वृक्षेषु । नवनवाङ्करलीनां नवेषु नवेषु नूतनेषु नूतनेषु, 'वीप्सायाम्' इति द्विः, अङ्करेषु मुकुलेषु लीनां स्थगिताम् । बलीनां मधुकराणाम् । संहति समूहम् । ईक्षितुम् आलोक्तुिम् । विरहिणः वियोगिनः । न शेकुः समर्था न भवन्ति स्म । शक्ल शक्ती लिट् ।।२।। अस्मरदिति । कुसुमचापकरे कुसुममेव चापं यस्य तस्य कामस्य करे हस्ते । अणो सूक्ष्मे । चम्पकरेणी चम्पकस्य हेमपुष्पस्य रेणो धूल्याम् । पतति गलति सति। विधुरधीः विधुरा सदुःखा धोर्बुद्धिर्यस्य ( सः)। अध्वगः पथिकः । अमराणां देवानाम् । कामिनीमिव रमणीमिव । मनोरमराणां मनोरमो राणो ध्वनिर्यस्यास्ताम् । वल्लभां वनिताम् । अस्मात् स्मरति स्म । स्म चिन्तायां
चक्रवर्ती अजितसेनके शासन करनेपर सारी जनता उनके चरणोंमें झुक गयी, और वह भी बड़ी तत्परतासे उसकी रक्षा करने लगा। मानो उसके शासनसे प्रभावित होकर ऋतुराज वसन्त भी भौंरोंको सन्तुष्ट करता हुआ प्रकट हुआ। ऋतुराजने सभी प्रकारके फूलोंको विकसित कर दिया। खिले हुए फूलोंसे रस बहने लगा, और भौंरोंने उसे पीना शुरू कर दिया ।।१।। युवकोंने अपने जिन सजल सुन्दर नेत्रोंसे पहले युवतियोंका आवर्जन और मनोरंजन किया था, वे युवक विरही होकर आज वसन्तके इन दिनोंमें उन्हीं नेत्रोंसे, वृक्षोंके ऊपर नयी-नयी कलियोंमें छिपकर बैठी हुई भ्रमर-पंक्तिको न देख सके ॥२॥ चम्पक वृक्षको कामोद्दीपक सूक्ष्म परागको झड़ते देख, एक पथिकका मन बेचैन हो उठा, और उसे अपनी देवांगना-सी मधुरभाषिणी प्रियाको
१. अ 'कृत' इति नोपलभ्यते । २. भा प्रती पद्यमिदं नास्ति । ३. = कामोत्पादके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.