SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ - ७, ९४ ] सप्तमः सर्गः कृतचरण नमस्क्रियास्तदाज्ञां सह मुकुटेन शिरोभिरुद्वहन्तः । नृपखचरगणा यथायथं ते ययुरपरेऽह्नि स्थाङ्गिना विसृष्टाः ।। ६३ ।। दिव्यादिव्याकारकान्तासहायो भोगान्भोगी निर्विशन्निर्विशङ्कः । राज्यं राज्यभ्रंशितारातिलोकश्चक्रे चक्री पूर्वपुण्योदयेन ॥ ६४ ॥ इति श्रीवीरनन्दिकृतावुद्याङ्क चन्द्रप्रभचरिते महाकाव्ये सप्तमः सर्गः ॥ ७ ॥ चरणयोः । नमन्नपि नमस्यन्नपि । भृशम् अत्यन्तम् । उन्नतः उत्तुङ्गः । बभूव भवति स्म । यदिदम् इदं कार्यम्' । अद्भुतात् आश्चर्यात् । अद्भुतम् आश्चर्यम् । विरोषः । ९२।। कृतेति । कृतचरणनमस्क्रियाः कृता विहिताश्चरणयोः पादयो नमस्क्रिया यैस्ते । तदाज्ञां तस्य चक्रिण आज्ञाम् । मुकुटेन मोलिना । सह साकम् । शिरोभिः मस्तकैः । उद्वहन्तः घरन्तः । ते नृपखचरगणाः नृणां भूवानां खचराणां गणाः समूहाः । यथायथं स्वस्त्रस्थानम् । परेह्नि परेद्युः । रथाङ्गिना चक्रिणा । विसृष्टाः सन्तः विसर्जिताः सन्तः । ययुः प्रापुः । या प्रापणे लिट् ।। ९३ ।। दिव्यानीति | दिव्याकारकान्तासहायः दिव्यो मनोहर आकाशे यासां ताः, ताश्च ताः कान्ताश्च ता एव सहायो यस्य सः ( तासां सहायः ) । भोगी दशाङ्गभोगी । दिव्यान् मनोहरान् भोगान् । निविशन् अनुभवन् । निर्विषादः संक्लेशरहित: [ निर्विशङ्कः निःशङ्कः ] । राज्यभ्रंशितारा तिलोक: राज्याद् भ्रंशितो निराकृत बरातयः शत्रवः त एव लोको यस्य सः ( निराकृतोऽरातीनां शत्रूणां लोको वर्गों येन सः ) । चक्री सार्वभौमः । पूर्वपुण्य दयेन पूर्वस्य जन्मान्तरसंपादितस्य पुण्यस्योदयेन । राज्यं साम्राज्यम् । चक्रे विदधे । डुकृञ् करणे लिट् । रूपकम् (?) ।।९४।। इति वीरनन्दिकृत दयाङ्के चन्द्रप्रमचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लभाख्ये सप्तमः सर्गः ॥७॥ अवनत होता हुआ भी वह उस समय बहुत अधिक उन्नत हो रहा था, यह अत्यन्त ही आश्चर्यजनक बात हुई || ९२|| इस शुभ अवसरपर जो राजे-महाराजे और विद्याधर लोग सामूहिक रूप में अजित सेन के यहाँ पधारे थे, वे एक दिन ठहरकर दूसरे दिन अजितसेनके चरणों में प्रणाम करके और उनकी आज्ञाको अपने-अपने सिरपर मुकुटके साथ धारण करके उससे बिदाई लेकर अपने-अपने घर चले गये || ३ || पूर्वोपार्जित पुण्यकर्मके उदयसे अत्यन्त सुन्दर छियानबे हजार सुन्दर स्त्रियाँ अजितसेनको संगिनी बनीं, भोगनेको दिव्य भोग प्राप्त हुए, और प्रजाको सतानेवाले उद्दण्ड शत्रुओं को राज्यसे च्युत या निर्वासित कर देनेसे वह शंकाओंसे मुक्त हुआ । इस तरह भीतरी और बाहरी परिस्थितिको अनुकूलता में वह राज्यका संचालन करने लगा || ९४ ॥ Jain Education International इस तरह श्री वीरनन्दीकृत उदयाङ्क चन्द्रप्रभचरित महाकाव्य में सातवाँ सर्ग समाप्त हुआ ॥७॥ १. श शौर्यम् । २ = विद्याधराणां । १३५ For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy