SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ -७,३] सप्तमः सर्गः तस्यां वणिक्पथकृताधिकसत्क्रियायां' द्वारप्रदेशविनिवेशिततोरणायाम् । तं कामकल्पवपुपं प्रविशन्तमुच्चैश्चुक्षोभ वीक्ष्य निवहः पुरसुन्दरीणाम् ॥ ८१ ॥ प्रावेशिकानकनिनादविबोधितस्य भूपालमार्गमभिधावनतत्परस्य । योषिद्गणस्य गुणवानपि संबभूव श्रोण्या सहानभिमतः कुचकुम्भभारः ॥८२ ।। तद्रूपलोकनविलोभितलोचनायाः कस्याश्चिदुग्रथितनीवि नितम्बबिम्बे। संसक्तमिन्दुरुचिरं दधदन्तरीयं स्वेदाम्बु बुद्धिमदिव स्खलितं ररक्ष ।। ८३ ॥ सावयित्वा । उत्कण्ठमाननिजबन्धुजनां निजस्य स्वस्य बन्धव एव जनाः, उत्कण्ठमाना द्रष्टुमोहमाना निबन्धुजना यस्याः२ ताम् । अयोध्यां विनीतापुरीम् । प्रत्याजगाम प्रत्याययो । गम्ल गती लिट । रूपकम् (१) ॥८॥ तस्यामिति । वणिक्पथकृताधिकस क्रियायां (संक्रिया यां) वणिक्पथे विपण्यां कृता विहिता अधिका बह्वी सक्रिया ( संस्क्रिया) यस्यां तस्याम् । द्वार प्रदेशविनिवेशिततोरणायां द्वार प्रदेशे विनिवेशिताः स्थापितास्तोरणा यस्याः तस्याम् । तस्याम् अयोध्यायाम् । प्रविशन्तं गच्छन्तम् (प्रवेशं कुर्वन्तम् )। कामकल्पवपुष कामस्य मन्मथस्य कल्पं समानं वपुः शरीरं यस्य तम् । तं चक्रिणम् । पुरसुन्दरीणां पुरे पुर्यां विद्यमानसुन्दरीणां स्त्रीणाम् । निवहः समूहः । वीक्ष्य दृष्ट्वा । उच्चैः अधिकम् । चुक्षोम संचलित स्म । क्षुभि संचलने लिट् । उपमा ।।८१।। प्रावेशिकेति । प्रावेशिकानकनिनादविबोधितस्य प्रावेशिके प्रवेशकाले ताडितानामानकानां भेरीणां निनादैर्ध्वनिभिविबोधितस्य ज्ञापितस्य । भूपालमार्ग भूपालस्य राज्ञो मार्ग वोथीम् । अभिधावनतत्परस्य अभिधावनेऽभिमुखं धावने तत्परस्य प्रीतस्य । योषिद्गणस्य योषितां स्त्रीणां गणस्य समूहस्य । कुचकुम्भभारः कुचावेव कुम्भो तयोर्भारः । गुणवानपि कठिनस्पर्शनादिगुणयुक्तोऽपि । श्रोण्या नितम्बन । सह साकम् । अनभिमत: अनिष्टः । संबभूव संभवति स्म । भू सत्तायां लिट्। रूपकम् (?) ||८२।। तद्पेति । तद्रपलोकन बिलो भतलोचनाया: तस्य चक्रिणो रूपस्य विलोकने दर्शने विलोभिते मोहिते लोचने यस्यास्तस्याः । कस्याश्चित् वनितायाः । नितम्ब विम्बे नितम्बप्रदेशे । उद्ग्रथितनीवि उद्ग्रथिता शिथिलता नीवी यस्य तत् । इन्दुरुचिरम् इन्दुरिव चन्द्र इव रुचिरं मनोहरम । उपमा। अन्तरीयम् उपसंव्यानवस्त्रम् । संसक्तं संबद्धम् । दधत् धरत् । स्वेदाम्बु स्वेदस्य धर्मस्याम्बु बुद्धिमदिव बुद्धियुक्तमिव । स्वलितं प्रमादम् । ररक्ष पालयति स्म। रक्ष पालने लिट् । उत्प्रेक्षा बीका तिलक था-उससे पथ्वीकी शोभा थी। वह छः खण्डवाले भरत क्षेत्रको जोतकर अयोध्या लौट आया, जहाँ बन्धुजन उससे मिलने के लिए उत्सुक थे ।। ८० ॥ उस नगरीके बाजारोंमें खूब सजावट की गई और दरवाजोंके ऊपर तोरण (राजस्थान में अभी भी इस शब्दका प्रयोग होता है ) स्थापित किये गये। कामदेव सरीखे सुन्दर अजितसेनको नगरीमें प्रवेश करते देख वहाँका स्त्रीवर्ग उतावला हो उठा ॥ ८१ ।। प्रवेशके शुभ अवसरपर बजनेवाले नगाड़ोंके शब्दसे चक्रवर्तीको सड़कपर आया हुआ जानकर स्त्रीवर्ग उसी ओर दौड़ने को तत्पर हो गया। इस अवसरपर उसे अपने स्तन और नितम्ब अप्रिय हो गये, यद्यपि दोनों गुणवान् थेस्तनोंमें कठोरता और नितम्बों में गुरुता थी । ८२ ।। किसी सुन्दरीके नेत्र अजितसेनके रूपको देखकर उसी में लुभा गये । गांठ ढीली पड़ जानेसे उसका अधोवस्त्र-जो चन्द्रमाकी आकृतिकी बूटियोंसे सुन्दर था - कमरसे नीचेको ओर खिसकने लगा, पर पसीनेके जलने उसे नितम्बपर १. अ आ इ धिकसंस्क्रियायां । २. = यस्यां । ३. = यस्यां। ४. प्रवेशं कुर्वन्तम् । ५. आ प्रावैति शप्रेति । ६. = प्रवणस्य । ७. सद्गुणसमेतोऽपीति ध्वनिः । ८. = अधोवस्त्रम् । ९. = तत्पतनं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy