________________
चन्द्रप्रमचरितम् सैन्यनाट्यनिधिरत्नभोजनान्यासनं शयनभाजने पुरम् । वाहनेन सममित्यभीप्सितं भोगमाप स दशाङ्गमीश्वरः ।। ७७ ।। सोऽधिगम्य वसुधाविशेषकः षोडशामरसहस्रसेव्यताम् । नाकनायक इव स्वतेजसा दुःसहेन विततान रोदसीम् ।।७।। संकुलं नरनभश्चरामरैराकरैश्च बहुरत्नयोनिभिः । म्लेच्छखण्डसहितं स संमितैरार्यखण्डमनयद्वशं दिनः॥ ७९ ॥ षटखण्डमण्डितमखण्डमिति प्रचण्डकोदण्डखण्डितरिपुभरतं प्रसाध्य ।
प्रत्याजगाम जगतोतिलकः स सम्राडुत्कण्ठमाननिजबन्धुजनामयोध्याम् ।। ८० ॥ वाञ्छिता समोहिताम् । सस्यसम्पदं सस्पसंपत्तिम् । असूत उदपादयत् । षङ प्राणिगर्भविमोचने लङ् ।।७६।। सैन्येति । ईश्वरः प्रभुः । सः चक्री। सैन्धनाटय निधिरत्नभोजनानि सैन्यं सेना तच्च नाट्यं नर्तनं तच्च निधिश्च रत्नानि जीवाजीवभेदानि तानि च भोजनं जेमनं तच्च तयोक्तानि। आसनं सिंहासनम् । शयनभाजने शयनं च भाजने च तथोक्ते । वाहनेन समं यानेन साकम् । पुरमिति पुरोति । अभीप्सितं वाञ्छितम् । दशाङ्गं दश अङ्गा. न्यवयवा यस्येति दशाङ्गस्तम् । भोगम्, आप ययौ । आप्ल व्याप्तौ लिट् । ७७।। स इति । वसुधाविशेषकः वसूधाया वसुन्धराया विशेषकस्तिलकः । स: चक्री। षोडशामरसहस्रसेव्यतां षोडश्यः [ षोडश ] अमराणा गणबद्ध देवानां सहस्रग' से व्यतामाराध्यताम् । अधिगम्य लना। दु सहेन सोढमशक्येन । स्वेतजसा स्वस्य तेजसा प्रतापेन । नाकनायक इव नाकस्य स्वर्गस्य नायक इव देवेन्द्र इव । रोदसी भूम्याकाशे। 'एकयोक्त्या द्यावाभमो रोदस्यो रोदसी तथा" इत्यभिधानात् । विततान विस्तारयति स्म। तन्त्र विस्तारे लिट् । उपमा ।।७८॥ संकुल मिति । सः चक्री। नरनभश्वराम रैः नरैर्मनुष्यन भइरै विघाधरैरमरै देवश्च । बहुरत्नयोनिभिः बहूनां बहुलानां रत्नानां योनिभिरुत्पत्तिकारणः। आकरैश्च खनिस्यानैश्च । संकुलं संकीर्णम् । म्लेच्छखण्डसहितं म्लेच्छानां खण्डैर्भागः । सहितं युक्तम् । आर्यखण्डम् आर्याणां पूज्यपुरुषाणां खण्डम् । संमितैः अल्पैरित्यर्थः । दिनैः दिवसैः । वशं स्वाधीनम् अनयत् प्रापयत । णी प्रापणे लङ् । सहोक्तिः (?) ॥७९।। षटखण्डेति। प्रचण्डकोदण्डखण्डितरिपुः प्रचण्डेन समर्थेन कोदण्डेन चापेन खण्डिता निरस्ता रिपवः शत्रवो यस्य सः। जगतीतिलकः जगत्या लोकस्य तिलकः श्रेष्ठः । सः सम्राट अजितसेनचक्रो। षट्खण्डमण्डितं षट्खण्डैः पड्भागै मण्डितमलंकृतम् । अखण्डं संपूर्णम् । भरतं भरतक्षेत्रम् । इति उक्तप्रकारेण । प्रसाध्य जो एक करोड़ हलोंसे जोती जाती थी, इच्छित खाद्य सम्पत्ति उत्पन्न करती थी ।। ७६ ॥ सारी प्रजा उसे अपना ईश्वर समझती थी। उसके पास सेना, नाट्य, निधि, रत्न, भोजन, आसन, सेज, पात्र, पुर और वाहन ये दस प्रकारके इच्छित भोग थे ॥ ७७ ॥ वह पृथ्वोका तिलक था । सोलह हजार देव उसको सेवामें उपस्थित रहा करते थे। उसने इन्द्रके समान अपने असंख्य तेजसे पृथ्वो और आकाशको व्याप्त कर दिया था ॥ ७८ ॥ उसने थोड़े ही दिनोंमें आर्यखण्डको-जो मनुष्य, विद्याधर.देव और नाना प्रकारके रत्नोंको उत्पन्न करनेवाली खानोंसे व्याप्त था-लेच्छखण्ड सहित जीत लिया-पाँच म्लेच्छखण्ड और एक आर्यखण्ड-इस तरह छः खण्डवाले भरतक्षेत्रको अजितसेन चक्रवर्तीने अपने अधीन कर लिया ॥ ७९ ॥ सम्राट्का पराक्रम अप्रतिहत था। उसने अपने भयङ्कर धनुष से शत्रुओंके छक्के छुड़ा दिये थे।
१. अ आ इ रत्नभा जना । २. अ आ इ शयनभोजने । ३. क ख ग घ म रोदसी । ४. भ क ख ग घम मखण्डबलः। ५. भरिपुनितगं। ६. आ इ "डुत्कण्ट । ७. अ°बन्धरता। ८. श षडो। ९. = 'भोजनं जेमनादने' इति हैमः । १०. श षोडशैरमराणां । ११. श प्रतो 'सहस्रेण इति नोपलभ्यते । १२. आ रोधस्यौ रोधसी तया। १३. = षट्पण्डमण्डितामखिलां भरतक्षेत्रमहीमल्पीयसा कालेन जिगायेत्यर्थः । १४. = येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org