SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ -.,७६] सप्तमः सगः १८९ तस्य मन्थरचतुष्टयाधिकाशीतिलक्षकरिदानकर्दमैः। मन्दिराङ्गणमभूदनारतं दुष्प्रलङ्घ यमघनागमेष्वपि ।। ७३ ॥ तस्य मारुतविलोलमूर्तिभिद्विनवोत्तमतुरङ्गकोटिभिः । तुभ्यति स्म परितश्चमचयो वीचिपङ्क्तिभिरिवापगापतिः ।।७४ ।। शुद्धकुन्ददलरोचिषां गवामाचितास्तिसृभिरस्य कोटिभिः । रेजिरे गहनभूमयो दिशः शारदीभिरिव मेघपङ्क्तिभिः ।। ७५ ॥ तस्य वारिनिधिवारिमेखला मेदिनी मदनसंनिभाकृतेः।। सस्यसंपदमसूत वाञ्छितामेकसंख्यहलकोटिवाहिता ॥ ७६ ॥ रूपकम् । अजनिष्ट अजायत । जनैङः प्रादुर्भावे लुङः ॥७२॥ तस्येति । तस्य चक्रिणः। मन्दिराङ्गणं मन्दिरस्य गृहस्याङ्गणम् । मन्थर चतुष्टयाधिकाशोतिलक्षकरिदानकर्दमैः चतुष्टयेनाधिकाशीतिः, चतुष्टया धिकाशीतिवारान् लक्षाणि येषां ते च ते करिणश्व तथोक्ताः, मन्थरा मन्दगमनाः ते च ते चतुष्टयाधिकाशीतिलक्षकरिणश्च तथोक्ताः तेषां दानं मदजलं तस्माजनात (तैः) कर्दमैः पङ्कः । अधनागमेष्वपि ग्रीष्मकालेष्वपि । अनारतम् अनवरतम् । दुष्प्रलयं लडितमशक्यम् । अभूत् अभवत् । ७३॥ तस्यति । तस्य चक्रिणः । चमूचयः चम्बा: सेनायाश्चयः समूहः । मारुतविलोलमूर्तिभिः मारुत इव वायुरिव विलोला चञ्चला मूर्तिः शरीरं यासां ताभिः। द्विनवोत्तमतुरङ्गकोटिभिः द्वौ वारी नव द्विर्नव उत्तमाश्च ते तुरङ्गाश्च योक्ताः, उत्तमतुरङ्गाणां कोट यस्तथोक्ता: द्विर्नव च ता उत्तमतुरङ्गकोटयश्च ताभिः । वीचिपक्तिभिः वो चीनां तरङ्गाणां पङक्तिभिः सम है । आपगापतिः समद्रः । स इव । सर्वतः परितः । क्षुभ्यति स्म चुक्षोभ । क्षुभि संचलने लट् । उत्प्रेक्षा ।।७४।। शुद्धेति। शुद्धकुन्ददलरोचिषां शुद्धानां निर्मलानां कुन्ददलानां' कुन्दपुष्पाणां रोचिरिव रोचिः कान्तिर्यासा तासाम् । गवां धेनूनाम् । तिसृभिः कोटिभिः, आचिताः व्याप्ताः । अस्य चक्रिणः। गहनभूमयः गहनस्य काननस्य भूमयः प्रदेशाः। शारदीभिः शरत्कालसंबन्धि नीभिः । मेघपक्तिभिः मेघानां जलदानां पतिभिः समुहैः । दिशः ककुभ इव । रेजिरे राजन्ति स्म । राजञ् दीप्तो लिट् ।।७५॥ तस्यति । मदनसंनिभाकृतेः मदनस्य मन्मथस्य संनिभा आकृतिराकारो यस्य तस्य । उपमा। तस्य चक्रिणः । एकसंख्यहलकोटिवाहिता एका संख्या येषां ते तथोक्ताः, एकसंख्यानां हलानां लाङ्गलानां कोटया वाहिता कृषिता, एककोटिप्रमित हला-इत्यर्थः । वारिनिधिवारिमेखला वारिनिधेः समुद्रस्य वार्येव जलमेव मेखला काञ्चिः यस्याः सा समुद्रमर्यादा-इत्यर्थः । रूपकम् । मेदिनी भूभिः । उज्ज्वल, सुन्दर स्त्रियोंके मुखकमलोंका रस लेनेके लिए साक्षात् भ्रमर बन गया । ७२ ॥ अजितसेनके यहाँ मन्द गतिसे चलने वाले चौरासी लाख हाथी थे। उनके मदजलसे राजप्रासादके आँगनमें वर्षा ऋतुके बिना भी सदा इतनी अधिक कोच मची रहती थी कि लोगोंको वहाँ से निकलना ही कठिन हो गया ॥ ७३ ।। चक्रवर्तीके यहाँ वायुको गतिसे चलनेवाले और वायुके समान चञ्चल अठारह करोड़ घोड़े थे। उनके रहनेसे उसकी विशाल सेना चारों लहराते हुए क्षुब्ध समुद्रोंकी भांति दृष्टिगोचर होती थी। सेना समुद्रकी तरह अपार थी और घोड़े उत्ताल तरङ्गों सरीखे - सदा उछल-कूद मचाने वाले ॥ ७४ ॥ उसके यहाँ तीन करोड़ गायें थीं। वे निर्मल कुन्दपुष्पके समान धौले रंग की थी। उनसे व्याप्त चरागाहोंकी भूमियाँ, शरत्कालीन मेघोंसे घिरी हुई दिशाओंको भांति सुशोभित होती थीं ॥ ७५ ॥ वह कामदेवके समान सुन्दर था - उसका आकार कामदेवसे बिल्कुल मिलता-जुलता था। उसके राज्य की सीमा समुद्र पर्यन्त थी-उसके राज्यको भूमि समुद्रसे घिरी हुई थी। उसकी उपजाऊ जमीन, १. श कुन्दानां । २. = समाना । ३. = काञ्ची । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy