________________
चन्द्रप्रभचरितम्
शक्तिभिस्तिसृभिरन्वितोऽभवद्यः समस्त विजयस्य भाजनम् । तस्य कः खलु जितांशुमद्द युतेर्विस्मयोऽत्र विजयार्धसाधने ॥ ६९ ॥ साधयन्विविधरत्नमण्डितां मेदिनीमधरितारिविक्रमः । वर्धमानविभवोऽनुवासरं सोऽभवत्सकललोकवत्सलः ॥ ७० ॥ प्रत्यहं द्विगुणषोडशावनीमुख्य पार्थिवसहस्रमूर्धसु । तस्य संसदि गतस्य चक्रिरे वासचूर्णरुचिमङिघरेणवः ॥ ७१ ॥ पूर्वजन्मकृतपुण्यकर्मणा सोऽजनिष्ट भुवनातिवर्तिना ।
षण्णवत्यचिरचिरुज्ज्वल स्त्री सहस्रमुखपद्मषट्पदः ॥ ७२ ॥
१८८
'जे लिट् सनि' इति द्विर्भावे पूर्वस्मात्तरस्य गी इत्यादेशः । अवसरः ( ? ) ||६८ || शक्तिभिरिति । यः चक्री | तिसृभि: त्रिसंख्याभिः । शक्तिभिः प्रभूत्साहमन्त्रशक्तिभिः । अन्वितः युक्तः । समस्तविजयस्य समस्तानां सर्वेषां विजयस्य । भाजनं स्वामिस्थानं च | अभवत् अभूत् । जितांशुमद्युतेः जिता अंशुमद्युतिर्यस्य' तस्य । तस्य चक्रिणः । अत्र अस्मिन् । विजयार्ध साधने समस्त देवाधिपतेः तस्य विजयार्धपर्वतस्थित विद्याधर ( स्य ) साधने देशार्धसाधने वा । को विस्मयः, विस्मयो नास्तीत्यर्थः । सर्वविजयभाजनस्य चक्रिणो विजयार्ध इत्युक्ते अर्धे विजयो यावत् ( तावत् ) तस्य साधने को विस्मयः, इति ध्वनिः ॥ ६९ ॥ साधयन्निति । अधरितारिविक्रमः अधरितो निराकृतोऽरीणां विक्रमो येन सः । सकललोकवत्सलः सकले लोके जने वत्सलः प्रीतियुक्तः । सः चक्री । विविधरत्नमण्डितां विविधैर्नानाविधै रत्न मण्डितामलंकृताम् । मेदिनीं भूमिम् | साधयन् निष्पादयन् । अनुवासरं प्रतिदिनम् । वर्धमानविभवः वर्धमान एधमानो विभवः संपद् यस्य सः । अभवत् अभूत् ||७० || प्रत्यहमिति । संसदि सभायाम् । गतस्य यातस्य । तस्य चक्रिणः । अङ्घ्रिरेणवः अङ्घ्रयो रेणवो रजांसि । द्विगुणषोडशावनी मुख्य पार्थिवसहस्रमूर्धसु द्वो गुणी येषां ते ( तेषां ) द्विगुणानां षोडशानामवन्या मुख्यानां श्रेष्ठानां पार्थिवानां भूपानां सहस्रस्य मूर्धसु मस्तकेषु - द्वात्रिंशत्सहस्रमकुटबद्धानां मस्तकेष्वित्यर्थः । प्रत्यहं प्रतिदिनम् । वासचूर्णरुवि वासचूर्णस्य पटवासचूर्णस्य रुचि शोभाम् । चक्रिरे विदधुः । डुकृञ् करणे लिट् । उत्प्रेक्षा ( ? ) 1. ७१ ॥ पूर्वेति । सः चक्री । भुवनातिवर्तिना । भुवनं लोकमतिवर्तिना अतिक्रम्य वर्तमानेन । पूर्वजन्मकृतपुण्यकर्मणा पूर्वस्मिन् जन्मनि प्राग्भवे कृतेन विहितेन पुण्यकर्मणा शुभकर्मणा षण्णवत्यचिररोचिरुज्ज्वलस्त्री सहस्रमुखपद्मषट्पदः अचिरं रोचि यस्याः सा अचिररोचिविद्युन्माला सेवोज्ज्वलाः स्त्रियो वनितास्तासां सहस्रं तथोक्तं षड्भिरधिका नवतिः तथोक्ता षण्णवतिवारान :- चिररोचिरुज्ज्वलस्त्रीसहस्रं तस्य मुखान्येव पद्मानि कमलानि तेषां षट्पदो भ्रमरः ।
[ ७, ६९ -
करनेवाले विजयार्द्ध पर्वतके वासियोंको परास्त किया ॥ ६८ ॥ चक्रवर्ती अजितसेन प्रभुशक्ति, मन्त्रशक्ति और उत्साहशक्ति, इन तीन शक्तियोंसे युक्त है, सूर्यसे कहीं अधिक तेजस्वी है और उसमें पूरे भरतक्षेत्र के — जिसके छः खण्ड हैं— विजयकी पूर्ण क्षमता है । अत: उसके विजयार्द्ध विजयसे क्या आश्चर्य ? || ६९ ॥ नाना प्रकार के रत्नोंसे विभूषित भूमि ( रत्नगर्भा वसुन्धरा ) को अपने वशमें करके चक्रवर्तीने शत्रुओंके पराक्रमको हेठा - नीचा कर दिया । उसका वैभव दिन-प्रतिदिन बढ़ रहा था और उसका वात्सल्य भी सभी लोगोंसे हो गया || ७० ॥ अजितसेन प्रतिदिन जब सभा मैं जाता था तब उसके चरणोंकी धूलि बत्तीस हजार प्रमुख राजाओं के मस्तकपर सुगन्धित चूर्णकी शीभाको प्राप्त कर रही थी ॥ ७१ ॥ चक्रवर्ती अजितसेन पूर्व संचित लोकातिशायी पुण्यकर्मके निमित्तसे छियानवे हजार बिजुली के समान
१. = येत । २. = वशीकुर्वन् । ३ = लोकमतिवर्तत इति लोकातिवर्ती, तेन । लोकातिशायिना इत्यर्थः । ४. आ प्रती स्वस्तिकान्तर्गतः पाठो नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org