________________
१८६ चन्द्रप्रमचरितम्
[७,६१तस्य वाजिखुरजै रजश्चयैरुत्थितै'स्तपनवमरोधिभिः । पूरिताः करभयादिव स्वयं भेजिरे भृशमदृश्यतां दिशः ॥ ६१ ॥ चित्रमेतदतिदूरवर्तिनाप्यस्य सैन्यरजसा प्रसर्पता। यन्निरन्तरमरातियोषितश्चक्रिरे विगलदश्रलोचनाः ॥ ६२ ॥ सिद्धरत्नमवगम्य संमुखीभूतमप्रतिमपौरुषाश्रयम् । मूर्धदेशनिहिताग्रपाणयः प्राभृतस्तमुपतस्थिरे नृपः ।। ६३ ।। नामयन्नतुलदैवपौरुषः सिद्धशक्त्युपचितान्स पार्थिवान् ।
प्राप वारिधितटं समुच्चलत्कीर्तिभासितसमस्तदिङ्मुखः ॥ ६४ ॥ अभूत् । भू सत्तायां लङ् । जातिः ॥६०॥ तस्येति । तस्य चक्रणः । वाजिखुरजः वाजिनामश्वानां खुरजैः शफजातः । तपनवत्मरोधिमिः तपनस्य सूर्यस्य वम आकाशं रोविभिराच्छतिभिः। उत्थितः ऊर्ध्वं गतः । रजश्चयै: रजसा रेणूनां चयनिवहैः । पूरिता: व्यापिताः। दिशः ककुभः। करभयादिव करस्य किरणस्य भयादिव भीतेरिव । स्वयं, भृशम् अत्यन्तम् । अदृश्यतां दृष्टिगोचरहितत्वम् । भेजिरे भजन्ति स्म । भज सेवायां लिट । उत्प्रेक्षा ॥६१ । चित्रमिति । अस्य चक्रिणः । प्रसपता निर्गच्छता। सैन्यर जसा ( सैन्यस्य सेनायाः ) रजसा रेणुता । अतिदूरवर्तिना अपि विप्रकृष्टं वर्तमानेनापि । निरन्तरम् निरवकाशम् । अरातियोपितः अरा. तीनां शवणां योषितः प्रमदाः । विगलदश्रुले चनाः विगलत् स्रबद् अश्रु नेत्रोदकं ययोः ते तथोक्ते विगलदश्रुणी लोचने यासां ताः । चक्रिरे विदधुः यत् एतत् । चित्रम् अश्चर्यम् । उत्प्रेक्षा (१) ॥६२ । सिद्धेति । सिद्धरत्नं सिद्धानि रत्नानि यस्य तम् । संमुखो भूतम् अभि मुखीभूतम् । अप्रतिमपौरुषाश्रयम् अप्रतिमस्योपमातीतस्य पौरुषस्याश्रयः तम् । तं चक्रिणम् । अधिगम्य ज्ञात्वा । मूर्ध देशनिहिताग्रमाणयः मूनों मस्तकस्य देशे प्रदेशे निहितोऽग्रपाणिर्येषां ते। नृपाः भूमिपाः। प्राभृतः उपायनै । उपतस्थिरे से वां चक्रिरे । ष्ठा गतिनिवृत्ती लिट । ६३।। नामयन्निति । अतूल देवीरुषः अतुले असमाने देवपीरुपे यस्य सः। समच्चल स्कोतिभासित समस्तदिङ्मुखः समुच्चलन्त्या कीर्त्या यशसा भासितानि समस्ताना सर्वासां दिशां मुग्वानि यस्य सः । सः चक्रो । सिद्धशक्त्युपचितान सिद्धाभिनिष्पन्नाभिः शक्तिभिरुत्साहप्रथमन्त्रशवितभिरुचितान राशी भूतान । प्रार्थिवान् भूमिगलान् । नामयन् नम्रोकुर्वन् । वारिधितटं वारिधेः समुद्रस्य तटं तीनम् । प्राप ययो । आप्ल चलते समय रत्नों में सबसे आगे चक्र था । ६० ॥ घोड़ों की टापोंके पड़नेसे धूलि उड़ने लगी। धीरे-धीरे उसने पूरे आकाशको घेरकर सूर्यका मार्ग छेक लिया। सारी दिशाएँ अदृश्य हो गईं, जिससे ऐसा प्रतीत होने लगा मानो चक्रवर्तीको लगान देनेके भयसे सब दिशा स्वयं कहीं जाकर छिप गई हों ।। ६ ।। उस समय यह एक आश्चर्यको बात हुई कि फैलनेवाली सेना की धूलिने स्वयं बहुत दूर रहकर भी ( केवल अपना दर्शन देकर, आँखों में घुसकर नहीं ) शत्रुस्त्रियोंको लगातार आँखोंसे आँसू गिरानेके लिए बाध्य कर दिया ।। ६२ ।। चक्रवर्ती को चौदह रत्न सिद्ध हैं । उसका पराक्रम अनुपम है - पराक्रम में उसकी कोई बराबरो नहीं कर सकता। वह यहाँ आ ही रहे हैं, यह जानकर राजे-महराजे नाना प्रकारका उपहार लेकर उसके सामने हाथ जोड़कर सिर नवाते हुए पहुँचे । ६३ ।। अनुपम देव और पुरुषार्थ वाले और परिपूर्ण प्रभुशक्ति, मन्त्रशक्ति तथा उत्साह शक्तिसे समृद्ध राजाओं को झुकाकर चक्रवर्तीने अपनी बढ़ती हुई कीतिसे समस्त दिशाओंको प्रकाशित कर दिया। फिर वह समुद्र तटपर पहुँचा ।। ६४ ॥
१. म रुच्छ्रित । २. आ इ क ख ग घ मदेव गौरुषान् । ३. = व्याप्ताः । ४. श विप्रकृष्टवर्त। ५. = याभ्यां । ६. = विदधिरे। ७. = निहिता अग्रगणयो यैः । ८. एष टोकाश्रयः पाठः प्रतिषु तु सर्वासु 'समच्छलत्' इत्येवोपलभ्यते । ९. = येन । १०. = संपन्नान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.