SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १८५ - ७, ६०] सप्तमः सर्गः अन्यदा नृपतिवृन्दवेष्टितः संनियुज्य स पुरः प्रयाणके। वाहिनीपतिमसह्यतेजसं निर्जगाम दशदिग्जिगीषया ।। ५७ ॥ छत्रमुल्लसितफेनपाण्डुरं निर्वभावुपरि तस्य गच्छतः । धर्मवारणमुखेन सेवितुं चन्द्रमण्डलमिवागतं स्वयम् ॥ ५८ ।। चित्ररत्नपरिपूर्णकुक्षयो मन्द्रगर्जितकृतोऽर्णवा इव । संचरिष्णुरथरूपधारिणं स्वं विकृत्य निधयः प्रतस्थिरे ।। ५६ ॥ स्वस्वकृत्यकरणोद्यताशयं व्यन्तरामरसहस्ररक्षितम् । सर्वमध्वनि रथाङ्गपूर्वकं तस्य रत्नमभवत्पुरःसरम् ।। ६० ।। पुरम् । प्राविशत् प्रविष्टवान् । विश प्रवेशने लङ ।।५६।। अन्यदेति । अन्यदा अन्यस्मिन् काले। नृपतिवृन्दवेष्टित: नृपतीनां भूपानां वृन्देन समूहेन वेष्टितः परिवृतः। सः अजितसेनचक्रो। असह्यतेजसं सोढुमशक्यप्रतापम् । वाहिनोपति सेनापतिम् । पुरःप्रयाण के अग्रप्रयाणनिमित्तम् । संनियुज्य विनियोग विधाय । दशदिग्जि. गीषया जेतुमिच्छा जिगीषा दशानां दिशां दिशानां जिगीषा तया । जि नि अभिभवे । 'कम्येककर्तृकात्' इत्यादिना सन् । 'जेलिट् सन्' इति द्विभार्वे पूर्वस्मात्परस्य गी -इत्यादेशः । निर्जगाम निर्ययो। गम्ल गतौ लिट् ।।५७।। छत्रमिति । उल्लसितफेनपाण्डुरम् उल्लसितो विभासित: फेन इव डिण्डोर इव पाण्डुरं शुभ्रम् । छत्रं छत्ररत्नम् । गच्छतः यातः । तस्य चक्रिण: । उपरि ऊर्ध्व भागे। धर्मवारणमुखेन (मिषेण) धर्मवारणमिति छत्रमिति मुखेन व्याजेन ( धर्मवारणं छवं तस्य मिषेण व्याजेन ) से वितुम् आराधि ( धयि-) तुम् । स्वयम् आगतम् आयातम् । चन्द्रमण्डलमिव चन्द्रबिम्बमिव । निर्बभौ भाति स्म । उत्प्रेक्षा ॥५८।। चिनेति । चित्ररत्नपरिपूर्णकुक्षयः चित्र नाविधै रत्नैः परिपूर्णः कुक्षिर्येषां ते। मन्द्रगजितकृतः मन्द्रं गभीरध्वनिः तच्च तद्गजितं च मन्द्रजितं ( तत् ) कुर्वन्तीति तथोक्ताः । अर्णवा इव समुद्रा इव । निधयः नवनिधयः । स्वं स्वरूपम । संचरिष्णरयरूपधारिणं संचरिष्णोर्गमनशीलस्य र यस्य स्यन्दनस्य रूपधारिणं स्वरूपधारिणम । विकृत्य निर्माय । प्रतस्थिरे निर्जग्मुः । उत्प्रेक्षा (?) ।।५९।। स्वेति । स्वस्वकृत्यकरणोद्यताशयं स्वेषां स्वेषां कृत्यस्य कार्यस्य व.रणे विधाने उद्यत उद्युक्त आशयो मानसं यस्य तत् । व्यन्तरामरसहस्ररक्षितं व्यन्तराणां व्यन्तरदेवानां सहस्रेण रक्षितं पालितम् । रथाङ्गपूर्वकं रथाङ्ग चक्रं तदेव पूर्व यस्य तत् । सवं सकलम् । रत्नं जीवाजीवभेदम् । तस्य चक्रिणः। अध्वनि मार्गे। पुर.सरं पुरः सरतोति पुरःसरमग्रगामि । अभवत तीन बार प्रणाम करके उसने अपने नगर में प्रवेश किया - जहाँ बड़े-बड़े द्वार थे ॥ ५६ ॥ कुछ दिनोंके बाद चक्रवर्ती अजितसेन-जिसके साथ सभी राजे-महाराजे थे-अपने तेजस्वी सेनापतिको आगे प्रयाण करनेका आदेश देकर दिग्विजयके लिए निकल पड़ा ॥५७।। चलते समय चक्रवर्तीके ऊपर, लहराते फेनकी भाँति सफेद छाता ऐसा जान पड़ता था मानो उस (सफेद छाते) के बहाने स्वयं चन्द्रमण्डल उसकी सेवामें उपस्थित हुआ हो । ५८ ॥ जिनका भीतरी भाग विचित्र रत्नोंसे भरा हुआ है और जिनका गर्जन गंभोर है, समुद्र सरीखी वे नौ निधियाँ चलते हुए रथका रूप धारण करके चल पड़ीं ॥ ५९ ॥ अपना-अपना कर्तव्य पालन करनेके लिए उद्यत और एक हजार व्यन्तर देवोंसे सुरक्षित चौदह रत्न मार्ग में चक्रवर्तीके आगे-आगे चलने लगे। १. अ संप्रयुज्य म संनियोज्य । २. अ क ख ग घ म वारणमिषेण । ३. म रूपधारिणः । ४.ध °शयव्यन्तर । ५. आ गिरित्यादेशः श गोरित्यादेशः। ६. = फेनो डिण्डीरः स इव । २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy