________________
चन्द्रप्रभचरितम्
ज्ञानमात्रमिह संसृतिक्षये कल्पितं यदबुधैर्न तत्तथा । भेषजावगममात्रतः शमं व्याधिरेति किमनुष्ठितैर्विना ॥ ५३ ॥ शुश्रुवानिति स बन्धमोक्षयोः कारणं जिनमुखारविन्दतः । तत्क्षणादुपययौ विरक्ततां श्रेयसि त्वरयते हि भव्यता ॥ ५४ ॥ स प्रहाय शमसक्तमानसः प्रेम बन्धुसुतदारगोचरम् । देहजार्पित परिच्छदः परं शिश्रिये श्रमणसेवितं पदम् ॥ ५५ ॥ चक्रवर्त्यपि गृहीतदर्शनः कायवाङ्मनसशुद्धिसंयुतः । त्रिः प्रणम्य जिनमर्चितं सतां प्राविशत्पुरमुदारगोपुरम् ॥ ५६ ॥
१८४
ज्ञानमात्रमिति । इह अस्मिन् । संसृतिक्षये संसृतेः संसारस्य क्षये । यत् ज्ञानमात्रं दर्शनमात्रं ( दर्शन - ) चारित्र - निरपेक्षं ज्ञानमात्रम् । अबुधैः अज्ञानिभिः । कल्पितं कृतं तत् तथा [ न ] तेन प्रकारेण न भवति । अनुष्ठितैः [ बिना ] आचरणविना । भेषजावगममात्रतः भेषजस्य औषघस्यावगममात्रतो ज्ञानमात्रतः । व्याधिः रोगः । शमम् उपशमम् । एति कि याति किम् ॥ ५३ ॥ शुश्रुवानिति । सः अजितंजयः । जिनमुखारविन्दतः जिनस्य तीर्थङ्करस्य मुखमेवारविन्दं कमलं तस्मात् । बन्धमोक्षयोः कर्मबन्धमोक्षयोः । इति एवं प्रकारेण । शुश्रुवान् शृणोति स्म । तत्क्षणात् विरक्ततां वैराग्यम् । उपययो उपजगाम । या प्रापणे लिट् । भव्यता भव्यत्वम् । श्रेयसे मोक्षनिमित्तम् । त्वरयते हि शीघ्र ( शोघ्रताम् ) करोति ॥ ५४ ॥ स इति । शमसक्तमानस: शमेन उपशमेन (शमे उपशमे ) सक्तं युक्तं ( आसक्तं ) मानसं यस्य सः । सः अजितंजयः । बन्धुसुतदार गोचरं बन्धवश्च सुताश्च दाराश्च तथोक्ता बन्धुसुतदारा एव गोचरा यस्य तत् । प्रेम प्रीतिम् । प्रहाय विहाय । देहजार्पितपरिच्छदः देहजेऽजितसेनेऽर्पितः स्थापितः परिच्छदो येन सः सन् । श्रमणसेवितं श्रमणैः सेवितमाराधितम् । परं प्रकृष्टम् । पदं मोक्षपदमित्यर्थः । शिश्रिये सिषेवे । श्रिञ् सेवायां लिट् ॥ ५५ ॥ चक्रेति । कायवाङ्मनसशुद्धिसंयुतः कायवाङ्मनसानां शुद्धधा युतः । चक्रवर्त्यपि सार्वभौमोऽपि । गृहीतं दर्शनं यस्य ( येन ) स: सन् । सतां सद्भिः । अचितं पूजितम् । 'वा नाकस्य -' इत्यादिना करणे षष्ठी । जिनं जिनेश्वरम् । त्रिः प्रणम्य त्रीन् वारान् प्रणम्य । उदारगोपुरम् उदाराण्युन्नतानि गोपुराणि पुरद्वाराणि यस्य तत् । पुरं विनीताइन दोनों (सम्यग्ज्ञान और सम्यक्चारित्र ) की पुष्टि करता है । इस तरह ये तीनों उपयोगी हैं और हैं एक दूसरेके उपकारी ॥ ५२ ॥ ' अकेला ज्ञान ही संसारका अन्त करके मुक्ति दिलानेमें समर्थ है' ऐसी कल्पना कुछ अज्ञानी लोगोंने कर रखी है, पर वह ठीक नहीं; क्योंकि अनुष्ठानके बिना दवाओं का खाली ज्ञान कर लेनेसे व्याधि शान्त नहीं हो सकती । दवाओंकी जानकारी के साथ जब विश्वास और परहेज होते हैं, तब रोग शान्त होता है । इसी प्रकार तत्त्वोंके ज्ञानके साथ जब श्रद्धा और आचरण होते हैं तब कहीं संसारकी समाप्ति - मुक्तिकी प्राप्ति होती है ।। ५३ ॥ जिनेन्द्र भगवान् - स्वयंप्रभके मुख कमलसे, इस तरह बन्ध और मोक्ष के कारण सुनकर अजितंजय तत्काल विरक्त हो गया । भव्यता निश्चय ही कल्याण के लिए शीघ्रता कराती है ॥ ५४ ॥ अजितंजयका मन अब केवल आत्मशान्ति पाने के लिए उत्सुक हो उठा। फलतः उसने अपने परिवार के बन्धु, पुत्र और पत्नीसे प्रेमका नाता तोड़ दिया, राज्यका भार पुत्रको सौंप दिया और फिर उत्कृष्ट पदका - जिसकी आराधना श्रमण करते चले आ रहे हैंआश्रय लिया ।। ५५ ।। चक्रवर्ती के मन, वचन और काय में पहलेसे पवित्रता थी ही, पर इस अवसरपर उसे सच्ची श्रद्धा भी उत्पन्न हो गई । सज्जनोंके द्वारा पूजित स्वयंप्रभ भगवान्को
[ ७, ५३ -
१. अज्ञानमाचरणहीनमत्र सज्ज्ञानहीनमपि तन्न सिद्धये । २. अ क ख ग घ म भेषजैश्च विदितैर्यतः शमं । ३. = कल्पनाविषयीकृतम् । ४. = मुखमरविन्दमिव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.