________________
-७, ५२] सप्तमः सर्गः
१८३ इत्यवेत्य भवदुःखभीरवः संगमं विदधते सुमेधसः। कर्मबन्धनविपक्षभूतया शानदर्शनचरित्रसंपदा ॥ ४६॥ शानमर्थपरिबोधलक्षणं दर्शनं जिनमताभिरोचनम् । पापकार्यविरतिस्वभावकं कीर्तितं चरितमात्मवेदिभिः ।। ५० ॥ संगतं त्रयमिदं प्रजायते कृत्स्नकर्मविनिवृत्तिकारणम् । पङ्गुलोचनविहीनवद्भवेदेककं न पुनरर्थसाधकम् ॥ ५१ ॥ शानमागमनिरोधि कर्मणो भाविनश्चरितमर्जितासनम् ।
दृष्टिराचरति पुष्टिमेतयोरित्थमेतदुपयोगवत्त्रयम् ॥ ५२ ।। सुमेधसः शोभना मेधा येषु ते । इति एवम् । अवेत्य ज्ञात्वा । भवदुःखभीरवः भवे संसारे संभवदुःखे भोरवो भीताः । कर्मबन्धनविपक्षभूतया कर्मणां बन्धनस्य विपक्षभूतया। ज्ञान दर्शनचरित्रसंपदा ज्ञानं सम्यग्ज्ञानं तच्च दर्शनं सम्यग्दर्शनं तच्च चरित्रं सम्यक्चारित्रं तच्च तथोक्तानि, ज्ञानदर्शनचरित्राणां संपदा संपत्त्या। संगम
विदधते कुर्वन्ति । डधान धारणे च लट ।।४९।। ज्ञानमिति । आत्मवेदिभिः आत्मज्ञानिभिः । अर्थपरिबोधलक्षणम् अर्थस्य परिबोधः परिज्ञानं स एव लक्षणं यस्य तत् । ज्ञानं सम्यग्ज्ञानम् । जिनमताभिरोचनं जिनमते आहतमतेऽभिरोचनं विश्वासः । दर्शनं सम्यग्दर्शनम् । पापकर्मविरतिस्वभावक' पापकर्मणां कर्मबन्धस्यकारणहिंसा दिव्यापाराणां विरतिनिर्वृत्तिरेव स्वभावो यस्य तत् । चरितं सम्यक्चारित्रमिति । कीर्तितं भाषितम् ।।५०॥ संगतमिति । संगतं संयुतम् । इदम् एतत् । अयं त्रयोऽवयवा अस्य त्रयम् । 'अवयवात्तयट्' इति तयट् । 'द्वित्रिभ्यां लुग्वा' इति तकारस्य लुक् । सम्यग्ज्ञानादित्रयम् । कृत्स्नकर्मविनिवृत्तिकारणं कृत्स्नानां साकल्यानां ( सकलानां ) कर्मणां द्रव्यभावकर्मणां विनिवृत्तेविमोक्षस्य कारणं निमित्तम् । प्रजायते प्रभवति । पङ्गुलोचनविहीनवत् पङ्गः खः ( खन् ) स च लोचनविहोनोऽन्धकः स च तथोक्तो पगुलोचनविहीनाविव तथोक्तम् । एककम् असहायम् । पुनः पश्चात् । अर्थसाधकं प्रयोजन साधकम् । न भवेत् न स्यात् । भू सत्तायां लिड्। सपमा ।.५१॥ ज्ञानमिति । ज्ञानं सम्यग्ज्ञानम् । भाविनः भविष्यतः। कर्मणः, आगमनिरोधिः (घि ) आगमस्यास्रवस्य निरोधिः (धि ) निवारकः ( कम् )। चरितं चारित्रम् । अजितासनम् अजितस्य पूर्वोपात्तस्य कर्मणोऽसनं नाशनम् । दृष्टिः सम्यग्दर्शनम् । एतयोः ज्ञानचारित्रयोः । पुष्टि" तुष्टिम् । आचरति इत्यम् अनेन प्रकारेण । एतत् इदं त्रयं सम्यग्ज्ञानादित्रयम् । उपयोगवत् परस्परोपकारवत् । भवति ॥५२॥ फिर खोटी-खोटी योनियों में चला जाता है ॥ ४८ ॥ यह जानकर संसारके दुःखोंसे डरनेवाले बुद्धिमान् पुरुष कर्मबन्धनकी विरोधिनी सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र की सम्पत्ति का समागम करते हैं ॥ ४६ ।। जीवादि पदार्थों का यथावत् जानना सम्यग्ज्ञान है; जिन मतकी अभिरुचि सम्यग्दर्शन है और हिंसा आदि पाप कार्योसे निवृत्त होना सम्यक् चारित्र है, ऐसा आत्मज्ञानियोंने कहा है ।। ५० ।। सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र ये तीनों मिलकर समस्त कर्मोकी निवृत्तिके कारण हैं। यदि वे पंगु और अन्धे पुरुष की भांति अलग-अलग रहें तो मानवके प्रयोजनको सिद्ध नहीं कर सकते । अन्धे और पंगु मिलकर अपने इष्ट स्थानमें पहुँच सकते हैं। इसी तरह सम्यग्दर्शन आदि तीनों गुणोंके सम्मिलित सहयोगको पाकर जीव अपने गन्तव्य मोक्ष-धाम तक पहुंच सकता है ॥ ५१ ॥ सम्यग्ज्ञान आनेवाले कर्मको रोकनेवाला है और सम्यक्चारित्र पहलेसे आये हुए-बद्ध कर्मोंको दूर करनेवाला है । तथा सम्यग्दर्शन
१. अ पद्यमिदं नोपलभ्यते । २. = येषां । ३. = भवः संसारः तस्य दुःखं तस्माद् भोरवो भीताः । ४. श कर्मणों । ५. = पापकर्मणामशुभकर्मणां हिंसादिव्यागराणां विरतिनिवृत्तिरेव स्वभावो यस्य तत् । ६. श एकम् । ७. = पुष्टताम् । ८. = विदधाति । ९. श सम्यग्ज्ञानचारित्रत्रयम् । For Private & Personal Use Only
www.jainelibrary.org
Jain Education International