________________
१८२
चन्द्रप्रमचरितम् तेन स स्ववशभावमाहृतः कर्मणाष्टविधभेदभागिना। संसरत्यशरणो भवाम्बुधौ लोहकान्तमणिकृष्टलोहवत् ।।४६ ।।। कर्मभिः परवशीकृतात्मनो भ्राम्यतो बहुविधासु योनिषु । खल्वबिल्वविधिना प्रमादतो जायते मनुजजन्मसंगमः ।। ४७ ॥ प्राप्तमानवभवोऽपि कृच्छतः पुत्रबान्धवकलत्रमोहितः। कर्म तत्किमपि संचिनोत्यसौ येन गच्छति पुनः कुयोनिषु ॥४८॥
ज्ञानावरणादीनां बन्धम् । उपयाति उपगच्छति । या प्रापणे लट ॥४५॥ तेनेति । अष्टविधभेदभागिना अष्टविधाः प्रकारा यस्य स तथोक्तः, अष्टविधश्चासौ भेदश्च तथोक्तः, अष्टविधमेदं भजतोत्येवंशीलं अष्टविधभेदभागि, तेन । तेन कर्मणा। स्ववशभावं स्वस्य वशभावमधीनत्वम् । आहृतः नीतः । अशरण: सन् न विद्यते शरणं यस्य सः, रक्षितृरहितः सन् । स: जोवः । भवाम्बुधो भव एवाम्बुधिस्तस्मिन् । रूपकम् । लोहकान्तमणिकृष्टलोहवत् लोहकान्तमणिना अयस्कान्तमणिना कृष्ट आहृतो लोहवत् । संसरति भ्रमति । सृ गतौ लट् । उपमा ॥४६॥ कर्मभिरिति । प्रमादतः प्रमादात् । कथंचित् (?) । बहुविधासु बह्वीषु विधासु भेदेषु । योनिषु जन्मसु । भ्राम्यतः पर्यटतः । कर्मभिः शुभाशुभरूरकर्मभिः । परवशोकृतात्मनः परवशोकृतस्य पराधीन (नी) कृतस्यात्मनो जीवस्य । खल्वबिल्वविधिना खल्वस्थ नष्टरोमशिरसः पुरुषस्य बिल्वविधिना बिल्वफलस्य न्यायेन । अबुद्धिपूर्वकं बिल्वफलं नष्टरोमशिरोयुक्तस्य मस्तके पतितं (पतति ) यथा तथा इत्यर्थः । मनुजजन्मसंगमः मनुजस्य मानुषस्य जन्मन उत्पत्तेः संगमः संपर्कः। जायते संभवति । जनैङ् प्रादुर्भावे लट् । उपमा ॥४७॥ प्राप्तेति । कृच्छत: कष्टात् । प्राप्तमानुषभवोऽपि प्राप्तो लब्धो मानुषस्य मनुष्यस्य भवो यस्य (येन) सः । पुत्रबान्धवकलत्रमोहितः पुत्राश्च बान्धवाश्च कलत्राणि च तथोक्तानि तेषु मोहित आसक्तः सन् । किमपि तत्कम शभाशभकर्म । संचिनोति संपादयति । पुनः पश्चात । येन कर्मणा संबन्धः, तेन कर्मणा । योनिषु गच्छतोत्यर्थः । असो जीवः । कुयोनिषु कुत्सितयोनिषु। गच्छति याति । गम्लु गतो लट् ॥४८॥ इतीति ।
विपरीत है उसके कर्मबन्ध होता है । मूल बात यह है कि मिथ्यादर्शन, अविरति, प्रमाद, कषाय और योग ये पाँच कर्मबन्धके कारण हैं ॥ ४५ ॥ ज्ञानावरण आदि आठ भेदोंवाले कर्मने जीवको अपने आधीन कर लिया है। अतः जैसे अयस्कान्त मणि या चुम्बक पत्थरसे आकृष्ट होकर लोहा अशरण हो जाता है, वैसे कर्माधीन जीव भी-अशरण हो जाता है । फलतः वह संसार सागरमें गोते खाता रहता है ॥ ४६ ॥ प्रमादके कारण यह जीव कर्मों द्वारा परवशकर दिया जाता है। फिर यह नाना ( चौरासी लाख ) योनियों में भटकता फिरता है । भटकनेवाले इस जोवको खल्वबिल्व न्यायसे मानव जन्म बड़ो कठिनाईसे मिलता है। खल्वाट जब-जब बेलके नीचे जाय तब-तब उसके सिरपर बेल गिरे, यह कभी सम्भव नहीं हो सकता। ऐसी घटना क्वचित् कदाचित् ही घटती है । इसी प्रकार यह जीव जब-जब पर्याय बदले तब-तब उसे मानव जन्म मिले, यह असम्भव है । वह तो बड़े भाग्यसे मिलता है ॥४७॥ बड़ी कठिनाईसे मानवभवको पाकर भी यह जीव पुत्र, मित्र और कलत्रके मोहमें फंसकर ऐसे कर्मोका सञ्चय कर लेता है, जिससे वह
१. अ 'ध' नोपलभ्यते । २. अ भवान्तरेष्वन्तजितमृतिर्नरः स्वयम् । ३. अ कर्मसङ्गविवशोकृतात्मनों । ४. आमावृतः। ५. = कृष्ट माहृतं यल्लोहं लोहधातुस्तद्वत् । ६. =बह्वो विधा यासा तासु नानाविधासु । ७. - उत्पत्तिस्थानेषु । ८. = खल्वाटस्य । ९. आ परीतं । १०. = अशुभकर्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org