________________
-७, ४५]
सप्तमः सर्गः तीर्थभूतमुरुभक्तिभावितस्तं प्रणम्य मुनिहंससेवितम् । मस्तकस्थकरकुड्मलोऽमलं प्रश्नमित्यकृत तत्त्वगोचरम् ॥ ४२ ॥ बध्यते कथय कर्मभिः कथं नाथ जन्तुरिह मुच्यतेऽथवा । देव संशयविपर्ययाकुलं तिष्ठते त्वयि जगद्यतोऽखिलम् ।। ४३ ।। वस्तुतत्त्वमधिगन्तुमिच्छतो भारतीमिति निशम्य भूभृतः । योजनप्रमितया गिराधरस्पन्दवर्जितमुवाच तीर्थकृत् ॥४४॥ सप्रमादहृदयः कषाययुग्योगवान्विरतिवर्जिताशयः ।
सम्यगीक्षणविर्पययस्थितः कर्मबन्धमुपयाति चेतनः ॥ ४५ ॥ प्रविवेश । गम्लु गती लिट् ॥४१॥ तीर्थेति । उरुभक्तिभावतः उा महत्या भक्त्या गुणानुरागेण भावितः संस्कृतः। मस्तकस्यकरकुड्मल: मप्तकस्थकरावेव कुड्मलो यस्य सः। अमलः निर्मलचित्तः सन् । तीर्थभूतं पवित्रीभूतम् । मुनिहंससेवितं मुनिहंसर्गणघरादिमुनिवरैः सेवितमाराधितम् । तं स्वयंप्रभाजनम् । प्रणम्य वन्दित्वा । तत्त्वगोचरं तत्त्वान्येव गोचरो विषयो यस्य तत् (तम् )। प्रश्नं पृच्छनम् । इति वक्ष्यमाणप्रकारेण । अकृत व्यधात । डुकृञ करणे लुङ् ॥४२।। बध्यत इति । भोः स्वामिन् । संशयविपर्ययाकुलं संशयविपर्ययाभ्यामाकुलं बाधितम् । अखिलं सकलम् । जगत् लोकः। यतः यस्मात् । त्वयि भवति । तिष्ठते प्रकाशते । ष्ठा गतिनिवत्ती लट । 'स्थेय प्रकाशने' इति तङ । नाथ जिन जन्तुः जीवः । इह संसारे। कर्मभिः शुभाशुभकर्मभिः । कथं केन प्रकारेण । बध्यते संबध्यते । अथवा, कथं मुच्यते त्यज्यते । कथय ब्रूहि । कथ वाक्यप्रबन्धे लट् ।।४३॥ वस्त्विति । वस्तुतत्त्वं वस्तुनः पदार्थस्य तत्त्वं स्वरूपम् । अधिगन्तुं ज्ञातुम् । इच्छतः वाञ्छतः। भूभृतः क्षितिपतेः । इति एवं (भूताम्)। भारती वचनम् । निशम्य श्रुत्वा । तीर्थकृत् स्वयंप्रभजिनपतिः । योजनप्रमितया योजनप्रमाणभूतया ( योजनव्यापिन्या इत्यर्थः) । गिरा दिव्यनिनादेन । अधरस्पन्दजितम् अधरयोरोष्ठयोः स्पन्देन चलनेन वजितं रहितं यथा भवति तथा। उवाच निरूपयतिस्म । ब्रा व्यक्तायां वाचि लिट। 'अस्ति ब्रवोभवचौ' इति वचादेशः । स्वभावोक्तिः ॥४४॥ सेति । सप्रमादहृदयः प्रमादैविषयादिपञ्चदशप्रमादैर्युक्तं हृदयं मानसं तेन सह वर्तते इति । [ कषाययुक् ] क्रोधादिचतुःकषायैर्युग' युक्तः क्रोधादिकषायवान् । योगवान् कायवाङ्मनःकर्म योगस्तज्ञान् । विरतिवजिताशयः विरत्या हिंसादिनिवृत्त्या वजित आशयो यस्य सः । सम्यगीक्षणविपर्ययस्थितः सम्यगीक्षणस्य सम्यग्दर्शनगुणस्य विपर्यये मिथ्यादर्शने स्थितः। चेतनः जीवः । कर्मबन्धं कर्मणां घरसे चल पड़े ।। ४१ ॥ वे तीर्थस्थान स्वरूप हैं । श्रेष्ठ मुनि या गणधर उनकी आराधना करते हैं। उनके दर्शन करते हो अत्यन्त भक्तिभावसे प्रणाम करके अजितंजयने हाथ जोड़ते हुए मस्तक नवाकर शुद्ध हृदयसे एक तात्त्विक प्रश्न किया - ॥ ४२ ॥ भगवन् ! सारा संसार संशय और विपर्ययसे व्याकुल हो रहा है। चूंकि वह आपके ज्ञानमें स्पष्ट ही झलक रहा है, अतः नाथ ! यह बताइये कि इस संसार में यह जीव शुभ और अशुभ कर्मोंसे कैसे बँध जाता है और फिर उनसे छुटकारा कैसे पा जाता है ? ॥ ४३ ॥ वस्तु स्वरूपके जिज्ञासु राजा अजितंजयके इन वचनोंको सुनकर तीर्थङ्कर स्वयंप्रभ यों बोले । बोलते समय उनका अधर ( नीचेका
ओठ ) स्पन्दन रहित था और उनकी वाणी एक योजन पर्यन्त सुनाई पड़ रही थी ॥ ४४ ॥ जिस जीवके हृदय में प्रमाद भरा हुआ है; जो कषायवान् है; जिसके मन, वचन और कायमें चञ्चलता भरी हुई है; जिसका हृदय हिंसा आदि पापोंसे विरत नहीं है और जिसको श्रद्धा
१. अभूतगुरु। २. अ क ख ग घ म बन्धगो। ३. अ तिष्ठति । ४. आ बध्यन्ते । ५. आ पतिपतिः । ६. -कषायैः क्रोधादिभिर्युज्यत इति कषाययुक। ७. श समस्तमिदं पदं नास्ति। ८. श इदमपि समस्तं पदं नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org