________________
चन्द्रप्रभचरितम्
[७, ३९
प्राप्य चक्रधरराज्यसंपदा संगमं गुरुकृताभिषेचनः । सोऽधिकं सहजदीधितिर्बभौ सूर्यकान्त इव सूर्यरोचिषा ।। ३९ ॥ अन्तरेऽत्र नम्वचन्द्रचन्द्रिकाचुम्बितत्रिदशराजमस्तकः।। भव्यलोकनिवहं प्रबोधयन्नाययौ जिनपतिः स्वयंप्रभः ॥४०॥ सिंहविष्टरनिविष्ट मच्युतं तं निशम्य निकटव्यवस्थितम् । निर्जगाम रभसेन वन्दितुं चक्रवर्तिसहितोऽजितंजयः ।। ४१ ।।
तेन चक्रिणा। मणिबन्धभासुरं मणे रत्नस्य बन्धेन कोलेन भासुरं देदीप्यमानम् । नृपासनं सिंहासनम् । केवलं परम् । अधः अधोभागे। न ( चक्रे ), किन्तु तन्मनोरथपयातिगश्रिया तेषां गुरुजनानां मनोरथस्याभिलाषस्य पथं-[ पन्थानं-] मतिगच्छतीति तन्मनोरथपथातिगा सा चासो श्रीश्च तया। गुरुजनाशिषोऽपि गुरुजनैर्गुणाढयसत्पुरुषः कृता आशिष इष्टाशंसनवचनानि च । अधः नीचैः। चक्रिरे विदधिरे । डुकृञ् करणे ( कर्मणि ) लिङ् । श्रीः आशीरदि- ( आशिषो-) पधिका-इति भावः ।। ३८ ॥ प्राप्येति । गुरुकृताभिषेचनः गुरुणा पित्रा कृतं विरचितमभिषेचनमभिषवणं यस्य सः । सहजदीधितिः सहजा निसर्गजा दोधितिः कान्तिर्यस्यसः। सः चक्री। चक्रधरराज्यसंपदा चक्रधरस्य चक्रेश्वरस्य राज्यस्य संपदा संपत्त्या । संगम संबन्धम् । प्राप्य लब्ध्या । सूर्यरोचिषा सूर्यस्य रोचिषा कान्त्या। सूर्यकान्त इव सूर्यकान्तशिलेव बभी भाति स्म। भा दीप्ती लिट् । अतिशय उत्प्रेक्षा वा ( उपमा) ॥३९।। अन्तरइति । अत्रान्तरे एतस्मिन् प्रस्तावे। नखचन्द्रचन्द्रिकाचुम्बितत्रिदशराजमस्तकः नखा एव चन्द्रास्तेषां चन्द्रिका ज्योत्स्ना तया चम्बिता व्याप्ता त्रिदशानां देवानां राज्ञां मस्तका यस्य सः । स्वयंप्रभः स्व जिनपतिः तीर्थङ्करः । भव्यलोकनिवहं रत्नत्रयाविर्भवनयोग्यभव्यलोकानां भव्यजनानां निवहं समूहम् । प्रबोधयन् प्रबोधयतीति तथोक्तः सन् । आययौ आजगाम । या प्रापणे लिट् । समाहितालङ्कारः (?) ॥४०॥ सिंहेति । सिंहविष्टरनिविष्टं'' सिंह मंगेन्द्रघृते विष्टरे पीठे निविष्टं स्थितम् । तं जिनपतिम् । निशम्य आकर्ण्य । चक्रवर्तिसहितः चक्रेश्वरेण सहितः । अजितंजयः । वन्दितुं वन्दनाय । रभसेन शीघ्रम् । निजंगाम
कहीं अधिक लक्ष्मी पाकर उन ( गुरुजनों ) के आशीर्वादोंकी भी नीचा कर दिया ॥ ३८ ॥ पिताने जब राज्याभिषेक कर दिया, तब राजकुमार अजितसेन चक्रवर्ती राज्यको सम्पत्तिके सङ्गम या अधिकारको पाकर पहलेसे कहीं अधिक शोभायमान हुआ । जैसे स्वाभाविक ज्योतिसे युक्त सूर्यकान्त मणि सूर्यकिरणोंका सम्पर्क पाकर अत्यधिक सुशोभित होने लगता है ॥ ३९ ॥ इसी बीचमें स्वयंप्रभ नामक तीर्थङ्कर - जिनके चन्द्रसरीखे चरणनखोंकी चन्द्रिका-सी प्रभा देवेन्द्रोंके मस्तकको ( भक्तिपूर्वक झुककर अष्टाङ्ग या पञ्चाङ्ग नमस्कार करते समय ) प्रकाशित करती थी-भव्यजीवोंके समाजको प्रबोध देते या मोह निद्रासे जगाते हुए वहाँ ( अजितसेन भी राजधानीमें) पधारे ॥ ४० ॥ 'तीर्थङ्कर स्वयंप्रभ बिलकुल निकट में ही पधारे हुए हैं, वे अपने शुद्ध आत्मस्वरूपसे कभी च्युत होनेवाले नहीं हैं, और वे सिंहासनपर विराजमान हैं।' यह सुनकर राजा अजितंजय अपने चक्रवर्ती पुत्र अजितसेनके साथ उनकी वन्दना करनेके लिए
१. एष टोकानुगतः पाठः प्रतिषु तु संपदां-इति दृश्यते । २. अ 'सोऽधिकं सहज धितिश्चिरं तारकापतिरिव व्यदीप्यत ।।' इति पाठो दृश्यते । ३. अ पद्यमिदं नोपलभ्यते । ४. = सिंहोपलक्षितं विष्टरं सिंह विष्टरं सिंहासनं तस्मिन् निविष्टमुपविष्टम् । ५. = मणीनां रत्नानां बन्धो रचनाविशेषः, तेन भासुरं देदीप्यमानम्। ६. शपदातिगा। ७. - सूर्यकान्तमणिरिव वा। ८. श स प्राप्ताः । ९. आ राजानाम् । १०. येन । ११. अ 'निविष्ट'-इति नास्ति । १२. श सुस्थितम् । १३. =निर्ययो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org