________________
१७८
चन्द्रप्रमचरितम्
[.,३१
केवलं तदभिषेकवारिभिर्दूरमुच्छ्वसदभून्न भूतलम् । हर्षसागरविवर्तवर्तिनां सर्वबन्धुसुहृदां च मानसम् ।। ३१ ॥ सप्रसादसविकासतारकं निर्मलाम्बरतया मनोहरम् । केवलं न पुरलोकयोषितां मण्डलं समभवदिशामपि ॥ ३२ ।। लब्धसौरभगुणैर्मधुवतवातचुम्बितविकासिकेसरैः। पर्यपूरि कुसुमोत्करैः परं भूमिजैन दिविजैरपि क्षितिः ।। ३३ ॥ संततोत्सवनिविष्टचेतसां संबभूव सुहृदां न केवलम् ।
विद्विषामपि भविष्यदापदां सर्वतोऽप्युदितकेतु मन्दिरम् ॥ ३४ ।। संनिघाय संनद्धो भूत्वा । निरवर्तयत् अकरोत् । वृतूङ् वर्तने लङ् ।।३०॥ केवलमिति । तदभिषेकवारिभिः तस्य पट्टाभिषेकस्य वारिभिः सलिलैः । केवलं मुख्यम् । भूतलं भूमितलम् । दूरं नितान्तम् । उच्छ्वसत् प्रवर्धमानम् । नाभूत् नामवत् । लुङ्। हर्षसागरविवर्तवर्तिनां हर्षः संतोषः स एव सागरस्तस्य समुद्रस्य ( स एव सागरः समुद्रस्तस्य ) विवर्ते जलभ्रमे वर्तिनां स्थितानाम् । सर्वबन्धुसुहृदां सर्वेषां बन्धूनां सुहृदां मित्राणाम् । मानसं च चित्तं च, उच्छ्वसदभूदित्यर्थः ।।३१।। सेति । दिशां ककुभाम् ( पुरलोकयोषितां पौराङ्गनानम् ) । मण्डलं समूहः । निर्मलाम्बरतया निर्मलं मलरहितमम्बरं वस्त्रं यस्य तस्य भावस्तथोक्ता तया मलरहितवस्त्रयुक्तया, पक्ष मेघरहितगगनयक्तया। सप्रसादसविकासतारकं प्रसादश्च विकासश्च तथोक्ती प्रसादविकासाभ्यां सह वर्तत इति तथोक्ता सप्रसादसविकासा तारका कनीनिका यस्य तत् , पक्षे तारका नक्षत्राणि यस्य तत् । मनोहरं मञ्जुलम् । केवलं मुख्यम् । न समभवत् नाभूत् । लङ । पुरलोकयोषितामपि पुरलोकानां पुरजनानां योषितामपि स्त्रीण मपि (दिशामपि वकभामपि ) समभवत ( इति ) शेषः ॥३२ लब्धेति । लब्धसौरभगुणैः सौरभ एक गुणस्तथोक्तः, लब्धः सौरभगुणो यस्तैः । मधुव्रतवातचुम्बितविकासि. केसरैः मधुव्रतानां भ्रमराणां बातेन समूहेन चुम्बिता आवृता विकासिन: केसराः विल्का येषां तैः । भूमिजै:, कुसुमोत्करै कुसुमानां पुष्पाणामुत्करैनिवहः क्षिति: भूमिः । परं केवलम् । न पर्यपूर' न आपत् । पृ पालनपूरणयोः कर्मणि लुङ् । ( किन्तु ) दिविजैरपि स्वर्गोत्पन्नैरपि । सुरपुष्पवृष्टिरपि जातेत्यर्थः ।। ३३॥ संतेति । संततोत्सवनिविष्टचेतसां संततमनवरतमुत्सवे निविष्टं न्यस्तं चेतश्चित्तं येषां तेषाम् । सुहृदां मित्राणाम् । मन्दिरं कूल उत्सवके साथ अपने चक्रवर्ती पुत्रका पट्टाभिषेक किया ॥३०॥ अजितसेनके अभिषेकके जलसे न केवल भूतल ही फूला, वरन् हर्षके समुद्रमें डुबकी लगानेवाले सभी बन्धुओं और मित्रोंके हृदय भी फूले नहीं समा रहे थे ॥३१॥ इस अवसरपर न केवल वहाँका महिलामण्डल ही बल्कि सारा दिमण्डल भी मनोहर हो गया। महिलाओंका मण्डल स्वच्छ वस्त्र पहने हुए था, उसके चेहरेपर प्रसन्नता झलक रही थी, जिससे उसके नेत्रों को कनीनिकाएं कमलकी भांति खिल उठी थीं। इसी प्रकार आकाशकी निर्मलताके कारण सभी ताराएं स्पष्ट ही प्रसन्नता
और विकाससे ओतप्रोत होकर दृष्टि गोचर हो रही थीं। इसीलिए सारा दिगमण्डल भी मनोहर हो गया ॥३२॥ उस समभ भूमि न केवल पार्थिव फूलोंकी राशिसे बल्कि दिव्य फलोंकी राशिसे भी व्याप्त हो गयी। दोनों ही प्रकारके फूल अत्यन्त सुगन्धित थे और इसीलिए उनकी विकसित परागके ऊपर बैठकर भौंरोंका झुण्ड उन्हें ढके हुए था । ३३ ।। निरन्तर उत्सव मनानेमें जिनका मन आसक्त था, उन मित्रोंके महलोंपर पताकाएँ · फहरा रहीं थीं और जिनके ऊपर आपदाएं आनेवाली थीं, उन शत्रुओंके महलोंपर केतु ग्रह उदित हो रहा था। इस अवसरपर
१. क ख ग घ कासितारकं । २. अ निर्मलं परतया। ३. = परम् । ४. = उच्छूनम् । ५. श स लडः । ६. आ वर्तेते इति तथोक्ते । ७. सप्रसादा सविकासाच। ८. % परम् । ९. = न व्याप्ता।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org