________________
१७७
सप्तमः सर्गः चित्ररत्नकिरणैः प्रवर्तयन्व्योमनीन्द्रधनुरुद्भवां श्रियम् । सर्वरत्ननिधिरस्य सर्वदा सर्ववाञ्छितफलप्रदोऽभवत् ॥ २७ ॥ नोदसिक्त स मदप्रवर्तिनी तादृशीमपि विलोक्य तां श्रियम् ।' धर्म एष हि सतां क्रमागतो यन्न यान्ति विभवेन विक्रियाम् ॥ २८॥ वोतरागचरणौ समर्थ्य सद्गन्धधूपकुसुमानुलेपनैः। संपदा परमया सबान्धवः स व्यधत्त निधिरत्नपूजनम् ।। २९ ॥ चक्रवर्तिविभवोचितोत्सवं तस्य पार्थिवसमूहसंगतः । पट्टबन्धविधिमन्यदा स्वयं संनिधाय निरवर्तयद्गुरुः ॥ ३० ॥
चक्रिणः । अजनिष्ट अभूत् । जनैङ् प्रादुर्भाव लिङ् । २६।। चित्रेति । चित्ररत्नकिरणैः चित्राणां नानाविधानां रत्नानां मणीनां किरणमयूखैः । व्योमनि गगने । इन्द्रधनुरुद्भवाम् इन्द्रधनुषि ( षः) उद्भवामुद्भूताम् । श्रियं शोभाम् । प्रवर्तयन् कुर्वन् । सर्वरत्ननिधिः सर्व रत्नानां निधिः ( सर्वरत्नाख्यनिधिः ) । अस्य चक्रिणः। सर्वदा सर्वस्मिन् काले । सर्ववाञ्छितफरप्रद: वाञ्छितं च तत्फलं च तथोक्तं सर्व च तद् वाञ्छितफलं च तथोक्तं सववाञ्छितफलं प्रददातीति तथोक्तः। अभवत् अभूत् । भू सत्तायां लङ् २७॥ नोदेति । सः चक्री । मदप्रतिनी मदं गर्व प्रवर्तत हत्येवं शोला मदप्रतिनी ताम । तादशीमपि, तां श्रियं संपत्तिम । विलोक्य विलोकनं पूर्व० वक्ष्य। नोदसिक्त गवितो नाभवत् । षिची क्षरणे इति धातोर्लङ । विभवेन संपदा । ( सन्तः ) विक्रियां विकार म् । न यान्ति न गच्छन्ति । या प्रापणे लिट् । यत् यस्मात् । एषः अयम् । सताम् । क्रमागतः क्रमात् परिपाटया आगतः । धर्मो हि स्वभावो हि । अर्थान्तरन्यासः ॥२८॥ वीतरागेति । सबान्धवः बान्धवैः सह वर्तते इति तथोक्तः, बन्धुसहित इत्यर्थः । सः चक्री। सद्गन्धधूपकुसुमानुलेपनैः गन्धश्च धूपश्च कुसुमं चानुलेपनं च तथोक्तानि, सन्ति च तानि गन्धधूपकुसुमानुलेपनानि च तैः । वीतरागचरणो वीतरागस्य सर्वज्ञस्य चरणो पादौ । समय॑ संपूज्य । संपदा संपत्त्या सह । निधिरत्नपूजनं निधीनां नवनिधीनां रत्नानां चतुर्दशरत्नानां च पूजनमर्चनम् । व्यधत्त चकार । डुधा धारणे च लङ् ॥२९||चक्रवर्तीति । पार्थिवसमूहसंगत: पार्थिवानां-पृथिव्या ईशाः पार्थिवाः 'ईशे' इत्य ब्-प्रत्ययः , तेषां समूहेन सन्दोहेन संगतः सहितः । गुरुः पिता । तस्य चक्रिणः । चक्रवर्तिविभवोचितोत्सवं चक्रवर्तिनः सार्वभौमस्य विभवस्य ऐश्वर्यस्योचितं योग्यमत्सवम ( निवर्तयत्, यत्र ) । पट्टबन्धविधि पट्ट बन्धस्य पट्टाभिषेकस्य विधिम् । अन्यदा अन्यरिमन् दिने । स्वयं
आदि सारी चीजें नैसर्प निधिके द्वारा दी हुई थीं ॥२६॥ चक्रवर्तीके यहाँ सदैव उसके सब प्रकारके मनचाहे फलको देनेवाली सर्वरत्न निधि नामकी निधि थी, जो नाना प्रकारके रत्नों और मणियोंकी किरणोंसे आकाशमें इन्द्र धनुषकी शोभा फैलाया करती थी ॥२७॥ गर्वको उत्पन्न करनेवाली ऐसी विभूतिको देखकर भी वह चक्रवर्ती कभी सगर्व नहीं हुआ। क्योंकि सच तो यह है कि सज्जनोंका कुल परम्परासे चला आया यह स्वभाव होता है, कि वे वैभवके निमित्तसे कभी इतराते नहीं ॥२८॥ चक्रवर्ती अजितसेनने अपने बन्धु-बान्धओंके साथ श्रेष्ठ चन्दन, धूप, पुष्प और लेपनसे वीतराग प्रभु-अरहन्तके चरणोंकी पूजा की और फिर उत्तम सम्पत्ति व्यय करके नौ निधियों और चौदह रत्नोंकी भी पूजा की ॥२६॥ इसके पश्चात् एक दिन चक्रवर्ती अजितसेनके पिता अजितंजयने स्वयं सभी राजा-महाराजाओंकी उपस्थिति में चक्रवर्तीकी शानके अनु
१. अ क ख ग घ याति । २. आ 'सर्वरत्नानां निधिः' इति नोपलभ्यते। ३. = सज्जनानाम् । ४. श स नवरत्ननिधीनाम् । ५. अ श स ईश इत्यण-प्रत्ययः।
२३ Jain Education International For Private & Personal Use Only
www.jainelibrary.org