________________
चन्द्रप्रभचरितम्
चित्रनेत्रपटचीन पट्टिकारत्न कम्बलपटी पटादिकम् ।
वस्त्र जातमखिलं महागुणं चित्तहारि विततार पद्मकः || २३ || कम्रताम्रतपनीयनिर्मितं त्रापुषं रजतलोहसंभवम् । मन्दिरोपकरणं ददौ महाकालेनामनिधिरेवमादिकम् ॥ २४ ॥ प्राससायकरथाङ्गमुद्गरं शक्तिशङ्कतरवारितोमरम् । शस्त्रजालमिदमादि माणवः शात्रवघ्नमददा दुरुप्रभम् ।। २५ ।। सोपधानशयनासनादि यद्देहनिर्वृतिविधायि मार्दवम् । तत्समस्तमजनिष्ट तस्य नैपूर्वसर्पनिधिसंप्रपादितम् || २६ ||
१७६.
२
४
प्लवनतरणयोः कर्मणि लङ् ॥ २२ ॥ चित्रेति । चित्तहारि मनोहारि । महागुणं महासुखकारित्वादिस्वभावयुक्तम् । चित्रनेत्रपटचीनपट्टिकारत्नकम्बलपटीपटादिकं चित्रश्चासौ नेत्रपटश्च चित्रनेत्रपटो विचित्रसूक्ष्मवसनं, 'नेत्रं मृदुगु णे वस्त्रे तरुमूले त्रिलोचने । नेत्रं रथे च नाड्यां ( नद्यां ) च नेत्रो नेतरि भेद्यवत् ।।' इति विश्वः चित्रनेत्रपट, चीनं कौशेयं तच्च, पट्टिका कटिवेष्टनं सा च, रत्नकम्बलो लोहितकम्बलः स च पटी द्विपटिका सा च, पटः सामान्यवस्त्रं स च तथोक्ताः ते आदि: ( आदी ) यस्य तत् । अखिलं निखिलम् । वस्त्रजालं ' वस्त्रसमूहम् । पद्मकः पद्मनिधिः । विततार ददौ । तू प्लवनतरणयोलिट् ।। २३ ।। कति । कम्रताम्रतपनीयनिर्मितं ताम्रं च तपनीयं च तथोक्ते कम्रे च ते ताम्रतपनीये च ताभ्यां निर्मितं रचितम्, ताम्रसुवर्णविहितमित्यर्थः । त्रापुषं पुषो विकारस्त्रापुषं त्रभाजनम् । रजतलोहसंभवं रजतं रूप्यं लोहं च ताभ्यां संभवम् । एवमादिकम् एवंप्रकारम् । मन्दिरोपकरणं मन्दिरस्य राजसदनस्योपकरणम् । महाकालनिधिः महाकालाख्यनिधिः । ददौ यच्छति स्म । डुदाञ् दाने लिट् । स्वभावोक्तिः ।। २४ ।। प्रासेति । प्राससायक रथाङ्गमुद्गरं प्रासः कुन्तायुधं सायको वाणो रथाङ्गं चक्रं मुद्गरं (र: ) लोहगदा - प्रासश्च सायकश्च रथाङ्गं च मुद्गरश्च तयोक्तम् | शक्तिशकुतरवारितोमरं शक्तिश्च शङ्ङ्कुश्च तरवारिश्च तोमरश्च तथोक्तम् । 'वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् । इत्युभयत्राप्यमरः । शात्रवतं शत्रूणां समूहः शात्रवं तद्धन्तीति तथोक्तम् । उरुप्रभम् उर्वी प्रभा यस्य तत् । इदम् एतत् । इदमादि इदंप्रभृति । शस्त्रजालं शस्त्राणामायुधानां जालं समूहम् । माणवः माणवाख्यनिधिः । अददात् अदात् । डुदाञ् दाने लङ् ।। २५ ।। सोपधानेति । यत्, देहनिवृतिविधायि देहस्य शरीरस्य निर्वृति सुखं विधत्ते इत्येवं शीलं तथोक्तम् । मार्दवं मृदुस्वभावम् । सोपधानशयनासनादिकं सोपधानम् उपधानेनोपबर्हेण सह वर्तते इति तथोक्तम्, सोपधानं च तच्छयनं च तच्च आसनं च सोपानशयनासने ते आदि: ( आदी ) यस्य तत् । तत्समस्तं तत्सकलम् । नैपूर्वसर्पनिधिसंपादितं नै एव पूर्वस्मिन् यस्य स नैपूर्वः स चासो सर्पनिश्चि तथोक्तस्तेन नैसर्पनिधिना संपादितं संप्रदत्तम् । तस्य
सुख देनेवाले उत्तमोत्तम वाद्य, चक्रवर्तीको देती थी ॥ २२ ॥ पद्म नामक निधि विचित्र सूक्ष्म वस्त्र, चाइना सिल्क, कमरबन्द, लालकम्बल, दुपट्टे एवं लाभकारी और सभी प्रकारके सुन्दर वस्त्र चक्रवर्तीको दिया करती थी ||२३|| महाकाल नामक निधि राजमहलके योग्य, सुन्दर तांबे, सोने, शीशे, चाँदी और लोहे आदिके बने पात्र ( लोटे, गिलास, थाली, घड़े आदि ) प्रदान करती थी ||२४|| माणव नामक निधि भाले, बाण, चक्र, मुद्गर, शक्ति, शंकु, खङ्ग और तोमर आदि नाना प्रकारके, वैरियोंको मारनेवाले चमकीले हथियार देती थी ||२५|| चक्रवर्ती अजितसेन के यहाँ उसके शरीरको सुख देनेवाली कोमल तकिया, सेज और आसन
१. म महाताल । २. आ 'वस्त्रजातम्' इत्येव समुपलभ्यते । ५.
[ ७, २३ -
Jain Education International
नेत्रमविगुणे | ३. आ नाध्यां । ४. एष टीकापाठः, मूलप्रतिषु तु एवं प्रकारकम् ।
For Private & Personal Use Only
www.jainelibrary.org