SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १७५ -७, २२] सप्तमः सर्गः तेषु माषचणकातसीतिलव्रीहिशालियवमुद्गकोद्रवान् । पाण्डुकः सततमेवमादिकान्चन्मयामयहरान्व्यशिश्रणत् ॥ १६ ॥ कान्तकुण्डलमनोशमुद्रिकातारहारमणिमेखलादिकम् । रत्नरश्मिरुचिरं विभूषणं चित्तवाञ्छितमदत्त पिङ्गलः ।। २० ।। वृक्षगुल्मलतिकासमुद्भवं चित्तहारि सकलर्तुगोचरम् । पुष्पपल्लवमथोत्तमं फलं तस्य कालनिधिरीप्सितं ददौ ।। २१ ॥ रन्ध्रनद्धनिबिडादिभेदतो भिद्यमानवपुरुत्तमोत्तमम् । वाद्यवस्तु सुखकारि कर्णयोस्तस्य शङ्खनिधिना व्यतीर्यत ।। २२ ।। तेविति । तेषु निधिषु । पाण्डुकः पाण्डुकाख्यनिधिः । क्षुन्मयामयहरान् क्षुन्मया एवामया व्याधयस्तान् हरन्तोति क्षुन्मयामयहरास्तान् । माषचण कातसोतिलवोहिशालियवमुद्गकोद्रवान् माषश्च, चणको हरिमन्यकः स च, अतसी उमा सा च, तिलश्च, व्रीहिश्व, शालिश्च, यवश्च, मुद्गश्च, कोद्रवश्च, तथोक्तास्तान् । एवमादिकान् एवंप्रमुखान् धान्यविशेषान् । सततम् अनवरतम् । व्यशिश्रणत् अददात् । श्रण दाने लङ् । ।।१९।। कान्तेति । पिङ्गलः पिङ्गलाख्यनिधिः । रत्नरश्मिरुचिरं रत्नानां रश्मिभिः कान्तिभी रुचिरं मनोहरम् । चित्तवाञ्छितं चित्तेन मनसा वाञ्छितमभिलषितम् । कान्तकुण्डलमनोज्ञमुद्रिकातारहारमणिमेखलादिक कान्ते च ते कुण्डले च तथोक्ते, मनोज्ञा चासो मद्रिका च तथोक्ता, तारो निर्मल: स चासो हारश्च तथोक्तः, मणिभिनिमिता मेखला काञ्चोदाम, सा च मणि मेखला च तथोक्ता-कान्तकुण्डले च मनोज्ञमुद्रिका च तारहारश्च मणिमेखला च तथोक्तास्ता आदयो यस्य तत् । विभूषणम् आभरणम् । अदत्त अददात् । डुदाञ् दाने लङ् । २०॥ वृक्षेति । अथ पुनः । कालनिधिः कालाख्यनिधिः । तस्य चक्रिणः। ईप्सितं वाञ्छितम् । वृक्षगुल्मलतिकासमुद्भवं वृक्षश्चूतादिगुल्मो वृन्ताकादिर्लतिका द्राक्षादिःवृक्षश्च गुल्मश्च लतिका च तथोक्ताः, तासु समुद्भवं निष्पन्नम् । चित्तहारि मनोहारि । सकलतुगोचरं सकला ऋतव एव गोचरो विषयो यस्य तत् । पुष्पपल्लवं पुष्पं च पल्लवश्च तथोक्तम् । 'फलं जातिः' इति द्वन्द्व एकवद्भावः । उत्तम श्रेष्ठम् । फलं फलजातिम् । ददो विशश्राण । हुदाञ् दाने लिट् ॥२१॥ रन्ध्रेति । रन्ध्रनद्धनिबिडादिभेदतः रन्ध्र वंशादि नई भेर्यादि निबिडं वीणादि रन्ध्र च नद्धं च निबिडं च तथोक्तानि तान्येवादिः (दो) येषां ते तथोक्तास्त एव भेदास्तेभ्यो रन्ध्रनद्धनिबिडादिभेदतः । भिद्यमानवपुः भिद्यमानं वपुः स्वरूपं यस्य तत् । उत्तमोत्तमम् अत्यन्तोत्तमम् । कर्णयोः श्रवणयोः । सुखकारि आह्लादनकारि । वाद्य वस्तु पञ्चमहावाद्यवस्तु । तस्य चक्रिणः । शङ्कनिधिना शङ्कास्यनिधिना। व्यतीर्यत दीयते स्म । त देवोंके द्वारा चक्रवर्तीको मनचाही विचित्र चीजें प्रदान करती थीं ॥१८॥ उन नौमें एक पाण्डुक नामको निधि थो। वह भूखको व्याधिको दूर करनेवाले उड़द, चने, अलसी, तिल, सामान्य धान्य-ब्रीहि, विशेष धान्य-शालि ( साठिया धान ), जौ, मूग और कोदों आदि खाद्यान्नोंको सदा प्रदान करती थी ॥१९॥ पिङ्गल नामको निधि रत्नोंकी किरणोंसे विभूषित सुन्दर कुण्डल, मनोज्ञ अंगूठियाँ, जगमगाते हार और मणिरचित करधनी आदि इच्छित आभूषण प्रदान करती थो ॥२०॥ काल नामकी निधि वृक्षों, झाड़ियों और लताओंमें उत्पन्न होनेवाले, मनोहर, छहों ऋतुओंके फूल, कोंपल और उत्तम फल चक्रवर्ती की इच्छानुसार प्रदान करती थी ॥२१॥ शंख नामकी निधि बांसुरी, मृदङ्ग और वीणा आदि नाना प्रकारके कानोंको १. श स पाण्डुरः । २. = यस्मिन् । ३. आ अदधात् । ४. आ 'कालनिधि: कालाख्यनिधिः' इति नोपलभ्यते । ५. आ द्वन्द्वकत्वम् , श स द्वन्द्वैकवद्भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy