SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [.,.५ तत्क्षणाभिलषितामराधिपावासकल्पसदनादिसाधकः। ब्रह्मणा सकलशिल्पकर्मणा संनिभः स्थपतिरप्यजायत ।। १५॥ 'चित्तपट्टलिखितव्ययागमो नित्यकृत्यगृहकार्यकोविदः। लोकवृत्तविदुदाधीरधीसंगतो गृहपतिः समुद्ययौ ॥ १६ ॥ प्रासदन्निति शशिप्रभान्विता रत्नशब्दगदिताश्चतुर्दश। . तस्य भाग्यभवनस्य भूपतेर्दुर्लभं किमथवा शुभोदये ॥ १७ ॥ नित्यसंनिहितदेहदेवतादत्तचिन्तितविचित्रवस्तवः । रत्नवच्च निधयः सुकर्मणस्तस्य समनि नवोपतस्थिरे ॥ १८ ॥ संबभूव संजायते स्म । भू सत्तायां लिट् । उपमा ।।१४। तत्क्षणेति । तत्क्षणाभिलषितामराधिपावासकल्पसदनादिसाधकः तत्क्षणेन क्षणमात्रेणाभिलषितानां वाञ्छितानाममराधिपस्य देवेन्द्रस्यावासस्य विमानस्य कल्पानां सदशानां सदनादीनां मन्दिरादीनां साधको निर्माणकः । शिल्पकर्मचणविश्वकर्मणा शिल्पकर्मणा नानाविधशिल्पक्रियया प्रतीतः शिल्पकर्मचणः, 'तेन वित्ते चञ्चुचणों' इति प्रतीताईं चण-प्रत्ययः, स चासो विश्वकर्मा ब्रह्मा तेन । संनिभः समानः । ब्रह्मणा देववधकिना वा समानः-इत्यर्थः । स्थपतिः तक्षकरत्नमपि । अजायत समभवत् । जनैङ प्रादुर्भावे लङ । उपमा। १५॥ चित्तेति । चित्तपट्टलिखितव्ययागमः चित्तमेव मन एव पट्टो लेखनपत्रं तत्र लिखितो व्ययागमो येन सः । रूपकम् । नित्यकृत्यगृहकार्यकोविदः नित्यमनवरतं कृत्ये विधातुं योग्ये कार्य क्रियायां कोविदो निपुणः । लोकवृत्तवित्' लोकस्य वृत्तं वार्ता वित् जानन् । उदारधोर. घीसंगतः उदारया गम्भीरया धोरया धोररूपया धिया संगत: संयुतः । गृहपतिः गृहपतिरत्नम् । समुद्ययो समुद्बभूव । या प्रापणे लिट् ॥१६॥ प्रासदन्निति । भाग्यभवनस्य भाग्यस्य भवनस्य स्थानस्य । तस्य भूपते: अजितसेनस्य। शशिप्रभान्विता: शशिप्रमया शशिप्रभादेव्या अन्विता युक्ताः । रत्नशब्दगदिताः रत्नशब्देन गदिताः प्रोक्ताः । चतुर्दश चतुर्दशप्रमिताः । प्रासदन् प्रसन्ना अभवन् । अथवा तथा हि। शुभोदये पुण्योदये। दुर्लभं प्राप्तुपशक्यं किम् । अर्थान्तरन्यासः ।।१७॥ नित्येति । नित्यनिहितदेह देवतादत्तचिन्तितविचित्रवस्तवः नित्यमनवरतं संनिहिताभिर्देहेन युक्ताभिर्देवताभिदत्तानि चिन्तितानि स्मत नि विचित्राणि नानाविधानि वस्तुनि येषां ते । नव नवसंख्याः । निधयः कालादिनिधयः। रत्नवत् रत्नानीव । सुकर्मणः पुण्यवतः । तस्य अजितसेनस्य । सद्मनि मन्दिरे । उपतस्थिरे प्रापुः । ष्ठा गतिनिवृत्ती लिट् । उपमा ॥१८॥ राशिकी मूर्ति हो ॥१४॥ उसके यहाँ शिल्पिरत्न उत्पन्न हुआ। वह शीघ्र ही इच्छित, इन्द्रके निवास मन्दिर सरीखे महलोंके निर्माणमें चतुर था, और इसीलिए वह सारी शिल्पकारोको जाननेवाले ब्रह्माके समान था । ॥१५॥ उसके यहाँ गृहपतिरत्न उत्पन्न हुआ। वह अपने चित्तरूपी लकड़ीके पटियेपर आय और व्ययका हिसाब लिखता रहता था-बही में लिखे बिना ही वह सारे आय और व्ययके हिसाबको याद रखता था। वह प्रतिदिन करने योग्य घरके कार्यों में प्रवीण था, लोकव्यवहारका जानकार था और उसको बुद्धि उदारता और धीरतासे युक्त थी ॥१६॥ इस प्रकार उस भाग्यशाली चक्रवर्तीको शशिप्रभा सहित चौदह रत्न प्राप्त हुए। शुभोदय होने पर क्या दुर्लभ है ? ||१७|| पुण्यात्मा चक्रवर्ती अजितसेनके घर चौदह रत्नोंको तरह नौ निधियाँ भी उपस्थित हुई। वे निधियाँ अपने पास रक्षाके निमित्तसे रहनेवाले सदेह १. म चित्रपट्ट । २. क ख ग घ म प्रासिन्निति । ३. = निर्माता । ४.सर्वासु मूलप्रतिषु 'ब्रह्मणा सकलशिल्पकर्म गा' इत्येव पाठ: समुपलभ्यते । ५. = लोकवृत्तं वेत्ति नानाताति लोकवृत्तवित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy