________________
- ७, १४ ]
सप्तमः सर्गः
स्खलद्गति बृहद्बलान्वितं वाजिरत्नमसद् न्मनोजवम् । तन्निभेन विदधे समीपगस्तस्य वायुरिव पर्युपासनम् ।। १२ ।। शक्रदुर्विषहशक्तिभीषणस्तेजसा विजिततारकाधिपः । शौर्यभूररिभियामभूरभूत्कार्तिकेय इव वाहिनीपतिः ।। १३ ।। देवमानवशुभेतरग्रहप्रापितापद पहस्तनक्षमः |
देहबद्ध इव पुण्यसंचयः संबभूव भवने पुरोहितः ॥ १४ ॥
१७३
सेवाम् । ययौ इयाय । या प्रापणे लिट् । उत्प्रेक्षा ॥ ११॥ अस्खलदिति । अस्खलद्गति स्खलनरहिता गतिगंमनं यस्य तत् । बृहद्बलान्वितं बृहता महता बलेन शक्त्यान्वितं युक्तम् । मनोजवं मन इव जवो वेगो यस्य तत् । वाजिरत्नम् अश्वरत्नम् । असदत् प्रसन्नमभवत् । षद्ले विशरणगत्यवसादनेषु लुङ् । सतिशास्ति इत्यादिना अङ्-प्रत्ययः । तन्निभेन तस्याश्वरत्नस्य निभेन व्याजेन । तस्य नृपस्य । समीपगः समोपं गच्छति स्म तथोक्तः, निकटमागत इत्यर्थः । वायुरिव वात इव । पर्युपासनं सेवाम् । विदधे चुकार | डुधाञ् धारणे च लिट् 3 | उत्प्रेक्षा ॥ १२ ॥ शक्रेति । शक्रदुविषहशक्तिभीषणः शक्रेण देवेन्द्रेण दुःसहया शक्त्या सामर्थ्येन भोषणो भयंकरः, पक्षे शक्तिमायुधविशेषस्तया भयंकरः । तेजसा कान्त्या, पक्षे प्रतापेन । विजिततारकाधिपः विजितो निर्जितस्तारकाधिपश्चन्द्रो यस्य (येन ) सः, पक्षे पराजिततारकासुरः । 'बाहुलेयस्तारकजित्' इत्यभिधानात् । शौर्यभूः शौर्यस्य प्रतापस्य भूः स्थानम् । अरिभियाम् अरिभिः कृतानां भियां भयानाम् । अभूः अस्थानम् । कार्तिकेय इव षण्मुख इव । वाहिनीपतिः सेनापतिरत्नम् । अभूत् अभवत् । भू सत्तायां लुङ् । उपमा ||१३|| देवेति । देवमानवशुभेतरग्रहप्रापितापद पहस्तनक्षम देवैः सुरैर्मानवैर्मनुष्यैः शुभस्य (शुभात् ) इतरेऽशुभास्त एव ग्रहाः शनैश्चराद्यशुभग्रहा इत्यर्थः अशुभग्रहैश्च प्रापिता कृता सा चासावापच्च तथोक्ता तस्या अपस्तने विनाशने क्षमः समर्थः । देहबद्धः शरीरसंबद्धः । पुण्यसंचय इव पुण्यानां शुभकर्मणां संचयः समूह इव ( समूहः, स इव) । पुरोहितः पुरोहितरत्नम् । भवने राजमन्दिरे ।
हों और जो चमरमृगों के बालोंसे अलंकृत हो ॥। ११ ॥ चक्रवर्तीको अश्वरत्नकी प्राप्ति हुई । उसकी गति अस्खलित थी; उमका वेग वायुके समान था और वह बड़ा बलवान् था । वह ऐसा जान पड़ता था मानो अजितसेनकी सेवामें उस ( अश्व ) के बहाने वायु उपस्थित हो गया हो ||१२|| अजितसेनका सेनापति कार्तिकेय के समान था । कार्तिकेय अपने पास शक्ति नामक आयुध रखते थे । वह आयुध शत्रुओंके लिए असह्य था । फलतः शत्रु लोगोंको कार्ति - केय भीषण थे । कार्तिकेयने अपने तेजसे तारक नामके असुरको जीत लिया था । कार्तिकेय पराक्रमके निवास स्थान थे, सर्वथा निर्भय थे और थे सेनापति । इसी तरह अजितसेनका सेनापति सामर्थ्य से सम्पन्न था, शत्रु उसके सामर्थ्यको असह्य जानकर उससे डरते थे । उसने अपनी कान्तिसे चन्द्रमाको जीत लिया था; वह पराक्रमी था ओर था निर्भय ॥ १३ ॥ चक्रवर्तीके यहाँ पुरोहितरत्न उत्पन्न हुआ । वह देव, मानव और अशुभ ग्रहोंके निमित्तसे होनेवाली विपदाओंको दूर करनेमे समर्थ था, और वह ऐसा जान पड़ता था मानो मूर्तिमान् पुण्यराशि हो - पुण्य
१. अ क ख ग घ म 'मसिधन्मनो । २ अ ' योजनानि य उदित्य गच्छति द्वादश क्षणत ईदृशो ययुः । शत्रुतारककृतक्षयः क्षमी कार्तिकेय इव वाहिनीपतिः । एष त्रयोदशः श्लोकः । ३. भा प्रतावेव स्वस्तिकान्तर्गतः पाठो दृश्यते । ४. एष पाठष्टीकाकृदभिमतः, प्रतिषु तु शत्रु इत्यवलोक्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org