________________
चन्द्रप्रमचरितम् यद्रराज निजभासुरप्रभाभासिताखिलनभोदिगन्तरम् । तद्भयाधिगतवेपथोश्च्युतं वासवस्य कुलिशं करादिव ॥८॥ भास्करादिरुगगोचरीभवद्वान्तपाटनविधौ पटीयसी। किंकरत्वमभजत्समुज्ज्वला तारकाधिपकलेव काकिणी ।।६।। प्रोद्धभूव नवमेघमेचकमान्तवर्तितिमिरक्षतिक्षमः । रत्नदर्पण इव श्रियः स्फुरदीपभासुरशिखः शिखामणिः ॥ १० ॥ स्यन्दमानमदनिर्भरश्चलच्चारुचामरविराजितो गजः।
तद्गुरुत्वगुणनिर्जितश्छलाच्छैलराडिव ययावुपानतिम् ॥ ११ ॥ , शुभनामकर्मणाभ्युदोरितं प्रेरितम् । दण्डरत्नम्, अभवत् अभूत् । भू सत्तायां लङ् ॥७।। यदिति । यत् दण्ड. रत्नम् । निजभासुरप्रभाभारभासितनभोदिगन्तरं निजस्य स्वस्य भासुराणां देदीप्यमानानां प्रमाणां कान्तीनां भारेण समूहेन भासितं प्रकाशितं नभसो गगनस्य दिशां ककूभामन्तरं मध्यं यस्य (येन) तत् । तद्भूयाधिगतवेपयोः तस्माद जितसेनाज्जातभयाद तेरधिगतः प्राप्तो वेपथः कम्पनं यस्य (येन) तस्य । वासवस्य देवेन्द्रस्य । करात् हस्तात् । च्युतं पतितम् । कुलिशमिव वज्रमिव । रराज राजति स्म। राजृञ् दीप्तौ लिट् । उत्प्रेक्षा ।।८।। भास्करेति । भास्कराधिरु गगोवरीभवध्वान्तपाटनविधी भास्करस्य सूर्यस्याधिरुचोऽधिककान्ते. रगोचरीभवस्याविषयभूतस्य ध्वान्तस्य तमसः पाटनस्य भेदनस्य विधी विधाने । पटीयसी प्रकृष्ट पटवी । तारकाधिपकलेव तारकाधिपस्य चन्द्रस्य कलेव षोडशभाग इव । समुज्ज्वला प्रज्वला । काकिणो काकिणी. नामरत्नम् । किकरत्वं भृत्यत्वम् । अभजत् आश्रयत् । उपमा ॥९।। प्रोद्ध भूवेति । नवमेधमेचकप्रान्तवतितिमिरक्षतिक्षमः नवमेघ इव वर्षाकालमेघ इव मेवकस्य नोलवर्णस्य प्रान्ते समीपे वतिनो विद्यमानस्य तिमिरस्य तमसः क्षतौ विनाशने क्षमः समर्थः । श्रिय: श्रीदेव्याः। रत्नदपण इव रत्नमुकुर इव । स्फुरद्दीप. भासूरशिख स्फुरतः प्रज्वलतो दोपस्य प्रदीपस्य (इव) भासुरा देदीप्यमाना शिखा ज्वाला यस्य सः । शिखामणिः चूडामणिः । प्रोद्वभूव उत्पद्यते स्म । भू सत्तायां लिट् ॥१०। स्यन्देति । स्यन्दमानमदनिर्झरः स्यन्दमानः स्रवन् मदस्य मदजलस्य निर्झर: प्रवाहो यस्य सः । चलच्चारुचामरविराजित: चलद्धिः कम्पमानैश्चारुभिर्मनो. हरैश्चामरैश्चमरीरुहः। विराजितो विभासितः । गजः गजरत्तम् । तद्गुरुत्वगुणनिजितः तस्याजितसेनस्य गुरुत्वमेव गुणस्तेन निजितो विजितः। शैलराट् महामेरुपर्वतः । छलात् (गजरत्न.) व्याजादिव । उपानति भेदन-जैसे बहुत-से कार्यों में अत्यन्त पटु था। ॥७॥ दण्ड रत्नने अपनी जगमगातो प्रभासे पूरे आकाश और सभी दिशाओंके अन्तरालको प्रकाशित कर दिया था। वह ऐसा जान पड़ता था मानों चक्रवर्तीके भयसे काँपनेवाले इन्द्रके हाथ से गिरा हुआ वज्र हो ॥८॥ सूर्य आदिको प्रभा जहाँ नहीं पहुँच सकतो वहाँ अन्धकारको हटानेमें समर्थ, उज्ज्वल और इसीलिए चन्द्रकला सरीखो काकणी ( काकणीरत्न ) चक्रवर्तीकी सेवा में उपस्थित हुई ॥९॥ चक्रवर्तीके यहां चूडामणिरत्न उत्पन्न हुआ, जो अपने आस-पासमें फैले हुए, वर्षाकालीन मेघकी भांति काले और गाढ़ अन्धकार को मिटाने में समर्थ था, जिसको आभा जलते हुए दीपकको लौ के समान थी और जो ऐसा जान पड़ता था मानो लक्ष्मीका रत्नदर्पण हो ॥१०॥ अजितसेनकी सेवामें एक गजरत्न उपस्थित हुआ। उसका मदजलका प्रवाह बह रहा था और वह चलते हुए चामरों ( चैवरों ) से सुशोभित था। ऐसा जान पड़ता था मानो चक्रवर्तीके गौरवसे पराजित हुआ पर्वतराज सुमेरु अथवा हिमालय उसको सेवामें उपस्थित हुआ हो, जिसके ऊपर झरने बह रहे
१. एष पाठष्टीकाश्रयः, प्रतिषु तु 'दिरुग' इत्येव दृश्यते । २ = प्रोज्ज्वला। ३. = बालव्य जनः । 'चामरं बालव्य जनं रोमगुच्छः प्रकीर्णकम् ।' इति हैमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org