SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १७, सप्तमः सर्गः वज्रपांसुजलघर्मवारणं जातमिन्दुरुचि धर्मवारणम् । व्यञ्जितुं कमलया स्वसेवनं पाणिपद्ममिव संप्रदर्शितम् ॥ ४ ॥ सिन्धुतोयतरणादिषु क्रियासूपयोगगमेन गर्वितम् । पुण्यवैभववशीकृतं विभोश्चर्मरत्नमगमद्विधेयताम् ।। ५ ।। ज्योतिरुज्ज्वलमनल्पमण्डलं' यद्वयराजदवनौ प्रसारितम् । चक्रभृन्महिमनिर्जितं नभः संप्रकुच्य तमियाश्रयं गतम् ।। ६॥ वृत्तिमद्रिकुलिशादिभेदनप्रायकर्मसु दधत्पटीयसीम् । दण्डरत्नमभवद्भवान्तरोपार्जितोर्जितशुभाभ्युदीरितम् ॥ ७॥ वज्रेति । वज्रांसुजलधर्मवारणं बज्रयाशने: पांसोधूल्या जलस्य सलिलस्य धर्मस्य चातपस्य च करणं निवारणम् । इन्दुरुचि इन्दोश्चन्द्रस्येव रुचिः कान्तिर्यस्य तत् । धर्मवारणं छत्ररत्नम् । कमलया लक्ष्मीदेव्या । स्वसेवनं निजसे वनम् । व्यजितुं प्रकाशितुम् । पाणिपद्म पाणिरेव पद्मम् । रूपकम् । सं [प्र] दर्शितमिव संविलोकितमिव । जातम् उत्पन्नम् । उत्प्रेक्षा ॥४ । सिध्विति । सिन्धुतीयतरणादिषु सिन्धोः समुद्रस्य तोयस्य जलस्य तरणादिषु प्लवनादिषु । क्रियासु कार्येषु । उपयोगगमनेन उपयोगस्य प्रयोजनस्य गमनेन प्राप्त्या । गवितम् अहंकारितम् । पुण्यवैभववश कृतं पुण्यस्य सुकृतस्य वैभवेन सामर्थ्येन वशीकृतमधीनकृतम् । चर्मरत्नं चर्माख्यरत्नम् । विभोः चक्रिणः । विधेयतां वशत्वम् । अगमत् अगच्छत् । गम्लु' गती लुङ । 'सतिशास्ति-' इत्यादिना अङ-प्रत्ययः ॥५।। ज्योतिरिति । ज्योतिरुज्ज्वलं ज्योतिषा कान्त्या उज्ज्वल प्रज्वलम् , पक्षे ज्योतिभिः पवविधज्योतिभिरुज्ज्वलम् । अनल्पमण्डलम् अनल्पं बहुलं मण्डलं प्रदेशो यस्य तत्, पक्षे अनल्पमण्डलं विस्तृतबिम्बम् । अवनी भूम्याम् । प्रसारितं मदुतारित (2) विस्तृतं वा यत्सूर्यमण्डलम् । चक्रभृमहिमनिजितं चक्रभृतश्चक्रवर्तिनो महिम्ना निजितं विजितम् । नभः गगनम् । सं. प्रकुच्य संकोचनं कृत्वा । तं चक्रिणम् । आश्रयम आधारम् । गतमित्र यातमिव । व्यराजत् व्यभासत । राजु दोप्तो लङ् । श्लेषोपमा ॥६॥ वृत्तिमिति । अद्रिकुलिशादिभेदनप्रायकर्मसु अद्रिकुलिशादीनां पर्वतवज्राद नां भेदनेषु प्रायकर्मसु बहुक्रियासु । 'प्रायो भूमन्यन्तगमने' इत्यमरपाठाददन्तत्वं प्रायशब्दस्य । पटीयसी प्रकृष्टपटुम् । वृत्ति वर्तनाम् । दधत् धरन् । भवान्त रोपाजितशुभाभ्युदीरितं भवान्तरे जन्मान्तरे उपाजितेन शुभेन यमराजको जीभ दृष्टिगोचर हो रही हो ॥३॥ उसके यहाँ छत्ररत्न उत्पन्न हुआ। वह वज्र, धूलि, जल और धूपको रोकनेवाला और चन्द्रमण्डलके समान सफेद था। उसे देखकर ऐसा जान पड़ता था मानो चक्रवर्ती अजितसेनको सेवामें उपस्थित होकर स्वयंकी सेवा व्यक्त करनेके लिए लक्ष्मोके द्वारा प्रदर्शित किया गया, उसका कर-कमल हो ॥४॥ उसके यहाँ चर्मरत्न उत्पन्न हुआ। यों वह समुद्रके जल में तैरने आदि अनेक कार्यों में उपयोगी होनेसे सगर्व-सा था किन्तु चक्रवर्तीके पुण्यके बैभव से प्रभावित होकर उसकी इच्छाके अनुसार प्रवृत्ति करनेवाला हो गया ॥५॥ वह चर्मरत्न ऐसा जान पड़ता था मानो चक्रवर्ती अजितसेनकी महिमासे पराजित होकर जगमगाती ज्योतिसे उज्ज्वल और विशाल मण्डलवाला आकाश संकुचित होकर उसको शरण पाकर, उसके घर, पृथ्वी में फैला हुआ पड़ा हो ॥६॥ चक्रवर्तीके जन्मान्तरोंमें संचित शुभ कामोंको प्रेरणासे उसके यहाँ दण्डरत्न उत्पन्न हुआ, जो पर्वत और वज्र आदि १. इमण्डनं। २. श संपांशु। ३. श स पांशो. । ४=तोये जले। ५. मधीनोकृतम् । ६. श स गम् गतो। ७. = विस्तारितम् । ८. श स 'प्रसारितं मदुतारितम्' इति नोपलभ्यते । ९. =प्रकर्षेण पट्वीम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy