________________
षष्ठः सर्गः
१६० तमसाध्यमवेत्य मानुषास्त्रैरवलोक्य स्वबलं विहन्यमानम् । मुमुचे धरणीध्वजेन कोपादरिमोहप्रवणेन तामसास्त्रम् ।। १०३ ।। तिमिरप्रविधायि धावमानं स तदुद्वीक्ष्य तिरोहिताखिलाशम् । सुरदत्तविसर्जितेन सद्यस्तपनास्त्रेण निवारयांबभूव ॥ १०४ ।। भुजगान्गरुडेन वह्निमब्दैः कुलिशेनाचलमुद्यमेन तन्द्राम् । पवनेन पयोधरान्स शत्रो रुरुधे विघ्नविनायकेन सिद्धिम् ।। १०५ ।। स ततो हतहेतिरुग्रकोपादसिमुद्यम्य समापतञ्जवेन ।
विगतासुरकार्यमोघशक्त्या हृदि निर्भिद्य शशिप्रभाप्रियेण ।। १०६॥ पृषक: बाणः । 'पृषत्कबाणविशिखाः' इत्यमरः । सरोजबन्धुः दिवाकरः । करैः किरणः । कुमुदानोव कुवल. यानीव । समकोचयत् संकोचमकरोत् । कुच संकोचने लङ् । उत्प्रेक्षा ( उपमा ) ॥ १०२ ॥ तमिति । मानुषास्त्रैः मानुषैर्मनुष्यसंबन्धैः सामान्यरित्यर्थः । अस्त्रैः बाणैः । तं कुमारम् । असाध्यं साधयितुमशक्यम् । अवेत्य ज्ञात्वा । हन्यमानं हिंस्यमानम् । स्वबलं च स्वसैन्यं च । अवलोक्य वीक्ष्य । अरिमोहप्रवणेन अरेः शत्रोर्मोहस्य करणे प्रवणेन समर्थेनेत्यर्थः। घरणीध्वजेन धरणीध्वजखचराधिपेन । कोपात् रोषात् । तामसास्त्रं तमोबाणः । ममुचे मुच्यते स्म । मुच्लन मोक्षणे कर्मणि लिट् ॥ १०३ ॥ तिमिरेति । सः कुमारः । तिमिरप्रविधायि तिमिरमन्धकार प्रविधत्ते तच्छीलं तमःप्रसारकमित्यर्थः । धावमानं गच्छत् । तिरोहिताखिलाशं तिरोहिता व्यवहिता अखिला निखिला आशा दिशो येन तत । तत् अस्त्रम् । उदीक्ष्य विलोक्य । सुरदत्तविसजितेन सुरेण हिरण्येन दत्तं तेन विसजितेन विमुक्तेन-पूर्व हिरण्याख्यदेवेन दत्तं पश्चादनेन कुमारेण विजितमित्यभिप्रायः । तपनास्त्रेण सूर्यप्रकाशबाणेन । सद्यः तदैव । निवारयांबभूव निवारयति स्म । वृञ् वरणे णिजन्ताल्लट् । जातिः ॥ १०४ ॥ भुजगानिति । सः कुमारः । भुजगान् भुजगबाणान् । गरुडेन गरुडबाणेन । वह्नि वह्निबाणम् । अन्दैः मेषबाणैः । अचलं पर्वतबाणम् । कुलिशेन वज्रबाणेन । तन्द्राम् आलस्यबाणम् । उद्यमेन उद्योगबाणेन । पयोधरान मेघवाणान् । पवनेन वायुबाणेन । सिद्धि कार्यसिद्धिबाणम् । विघ्नविनायके न विघ्नविनायकबाणेन । रुरुधे रुणद्धि स्म । रुधून आवरणे लिट् ।। १०५ ॥ स इति । ततः पश्चात् । हतहेतिः हता नष्टा हेतय आयुधानि यस्य सः । सः धरणीध्वजः । उग्रकोपात् तीक्ष्णरोषात् । असि चक्रायुधम् । उद्यम्य कोशादपनीय । जवेन शीघ्रम् । समापतन् समापद्यमानः। शशिप्रभाप्रियेण
कुमुदोंको संकुचित कर देता है, उसी प्रकार उसने अपने बाणोंसे प्रतिद्वन्द्वियोंको संकुचित कर दिया ॥१०२॥ राजा धरणीध्वजने मानवोंके मामूली हथियारोंसे अजितसेनको अजेय जानकर
और अपनी सेनाको बुरी तरह मरते देखकर विरोधीके ऊपर मोहका चादर डालनेके लिए क्रुद्ध होकर तामस ( अन्धकार फैलानेवाला ) अस्त्र छोड़ा ।।१०३॥ राजकुमारने यह देखकर कि अन्धकार फैलानेवाला और सभी दिशाओंको छिपा देनेवाला तामस अस्त्र सामने बड़े वेगसे चला आ रहा है, हिरण्यदेवके द्वारा समर्पित तपनास्त्र-सूर्यास्त्रका प्रयोग किया। उसके प्रयोगसे उसने शीघ्र ही तामसास्त्र ( तामस अस्त्र ) का निवारण कर दिया ॥१०४। इसके पश्चात् अजितसेनने धरणीध्वजके द्वारा प्रयुक्त भुजगास्त्रको अपने गरुडास्त्रसे, आग्नेय अस्त्रको मेघास्त्रसे, पर्वतास्त्रको वज्रास्त्रसे, तन्द्रास्त्रको उद्यमास्त्रसे, मेघास्त्रको वायव्य अस्त्रसे और सिद्धिअस्त्र को विघ्नविनायक अस्त्रसे रोका ॥१०५॥ इस तरह धरणीध्वजके सभी आयुध व्यर्थ कर दिये गये । तब उसे वड़ा क्रोध आया, अतः वह म्यानसे तलबार निकालकर अजितसेनके ऊपर १. म प्रबलेन । २. = संकोचयामास । ३. आ संकोचे । ४. = शीघ्रम् । ५. = समागच्छन् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org