SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [६, ९९ - इति चित्तममुष्य धीरयित्वा हृदि सस्मार दृढस्मृतिर्हिरण्यम् । स्मृत एव पुरोऽभवद्गृहीत्वा स रथं रोपितदिव्यशस्त्रजालम् ।। ६६ ॥ अधिरुह्य स तत्र विस्मितास्यैः पुरलोकैश्च परैश्च दृश्यमानः । सुरसारथिरुत्पपात शत्रोरभिसैन्यं शरसंहतीविमुञ्चन् ।। १०० ॥ तमुदीक्ष्य खरांशुवदुरीक्ष्यं प्रभुलज्जाविवशीकृताः प्रहर्तुम् । शरशक्तिरथाङ्गकुन्तहस्ताः सह संभूय डुढौकिरे नभोगाः ।। १०१ ।। निखिलानमितानलक्ष्यमोक्षः सममक्षत्रधियागतान्पृषत्कैः । समकोचयदप्रकम्पधैर्यः कुमुदानीव करैः सरोजबन्धुः ।। १०२ ॥ ॥ ९८ ।। इतीति । अमुष्य एतस्य । चित्तं मानसम् । इति अनेन प्रकारेण । धीरयित्वा धैर्यवत्कृत्वा। हृदि हृदये । दृढमतिः दृढा मतिर्बुद्धिर्यस्य सः। हिरण्यं हिराण्याख्यदेवम् । सस्मार स्मरति स्म । स्मृत एव स्मृतमात्रः । सः हिरण्यदेवः । रोपित दिव्यशास्त्रजालं रोपितं परितं दिव्यानां शस्त्राणामायुधानां जालं यस्मिन् तम् । रथं स्यन्दनम् । गृहीत्वा आनीय । पुरः अग्रे। अभवत् अभूत् । भू सत्तायां लुङ् ।। ९९ ॥ अधीति । सुरसारथिः सुर एव हिरण्य एव सारथिः सूतो यस्य सः । सः कुमारः। तत्र रथे। अधिरुह्य आरुह्य । विस्मितास्यः विस्मितमाश्चर्योपेतमास्यं मुखं येषां तैः । पुरलोकैश्च पौरजनैश्च । परैश्च शत्रुभिश्च दृश्यमानः प्रेक्ष्यमाणः । दृशृ प्रेक्षणे कर्मण्यानश्-प्रत्ययः । शरसंहति शराणां बाणानां संहति समूहम् । विमुञ्चन् विसृजन् । शत्रोः वैरिणः । अभिसैन्यं सेनाभिमुखं यथा तथा । उत्पपात उज्जगाम । पत्ल गती लिट् ।। १०० ॥ तमिति । खरांशुवदुरीक्ष्यं खरांशुः सूर्यस्तद्वदुरीक्ष्यं दुर्दर्शम् । तं कुमारम् । उदोक्ष्य विलोक्य । प्रभुलज्जावशीकृताः प्रम्वा महत्या लज्जया त्रपया वशीकृताः परवशीकृताः। शरशक्तिरथाङ्गकुन्तहस्ता: शराश्च शक्तयश्च रथाङ्गानि चक्राणि तानि च कुन्ताश्व प्रासाश्व तथोक्ताः, त एव हस्तेषु येषां ते तयोक्ताः । 'प्रहरणात् सप्तमी च' इति पूर्वनिपातः । नभोगाः विद्याधराः । सह युगपत् । संभूय मिलित्वा । प्रहर्तुं संग्रामं कर्तुम् । डुढौकिरे ययुः। कङ गती लिट । उपमा ॥ १०१।। निखिलानिति । अप्रकम्पधैर्यम अप्रकम्प निश्चलं धैर्य यस्य सः। अक्षत्रधिया अक्षत्र इति क्षत्रियो न भवतीति धिया बुद्धया। समं युगपत् । आगतान् आयातान् । निखिलानपि सकलानपि । तान् विद्याधरान् । अलक्ष्यमोक्षः अलक्ष्योऽदृश्यो मोक्षो मोक्षणं येषां तैः । इस तरह जयवर्माके मनमें धैर्य उत्पन्न कर अजितसेनने हिरण्य नामके देवका स्मरण किया । अजितसेनको स्मृति बड़ी प्रबल थी। यही कारण है जो ऐन मौकेपर, उसे संकटमें सहायताका वचन देनेवाले हिरण्यका स्मरण हो आया। स्मरण करते ही वह दिव्य शस्त्रोंसे भरे हुए रथको लेकर उसके सामने उपस्थित हआ ॥१९॥ वह उसपर सवार हो गया और उसके आगे वह देव, सारथी बनकर बैठ गया। पुरके निवासी और शत्रु, सभी उसे आश्चर्य से देख हे थे। फिर बाणोंको वर्षा करता हुआ वह शत्रु-सेनाका सामना करनेके लिए चल पड़ा ॥१०॥ राजकुमार प्रचण्ड मार्तण्डकी भाँति तेजस्वी था, नजर उठाकर उसकी ओर देखना कठिन था । उसे आते देखकर विरोधी विद्याधर बहुत भारी लज्जासे विवश हो उठे। फिर बाण, शक्ति, चक्र और भाले अपने-अपने हाथों में लेकर वे सब मिलकर राजकुमारके ऊपर प्रहार करनेके लिए आगे बढ़े ॥१०१॥ इस तरह क्षत्रियधर्मको ताकमें रखकर अगणित संख्या में आये हुए समस्त विद्याधरोंको देखकर राजकुमार तनिक भी नहीं घबराया। उसके बाणोंको-जिनका छोड़ना अदृश्य था—देखकर सभी विरोधी विद्याधर संकोच में पड़ गये। जैसे सूर्य की किरणोंके कारण कुमुद संकोचमें पड़ जाते हैं-संकुचित हो जाते हैं। जिस तरह सूर्य अपनो किरणोंसे १. क ख ग घ म लक्षमोक्षः । २. श स ढोकृञ् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy