________________
- ६,९८ ]
षष्टः सर्गः
इति तद्वचनैर्विरुद्धचित्तो' वचनं भूपतिरभ्यधात्समासात् । मतिमानपि दूत कोविदस्त्वं न मनागप्यसि लौकिकक्रियायाम् ॥ ६५ ॥ कुलजो कुलजोऽथवास्तु सोऽस्मै न हि दत्ता तनया भवत्यदत्ता | यदि कोऽपि बलाद्ग्रहीतुमीशस्त्वरितोऽभ्येतु विलम्बते किमर्थम् ॥ ६६ ॥ इति दूतमसौ विसृज्य राजाजित सेनाय तदाख्यदाशु कार्यम् । रचितभ्रुकुटिस्तदा स कोपादिदमूचे श्वशुरं विलोक्य बाहू ॥ ६७ ॥ तव तात न युक्तमाकुलत्वं मयि तिष्ठत्यरिमस्त कैकशूले । त्वमिमं प्रविलोकयाद्य मृत्योर्वदने दुष्टनभश्चरं विशन्तम् ॥ ६८॥
१६५
इतीति । इति एवंविधैः । तद्वचनैः तस्य दूतस्य वचनैः । विरुद्धचित्तः विरुद्धं कोपयुक्तं चित्तं मानसं यस्य सः । भूपतिः जयवर्मा । समासात् संक्षेपात् । वचनं वचः । अभ्यधात् अब्रवीत् । डुधाञ् धारणे च लुङ् । भो दूत भो चर । त्वं मतिमानपि बुद्धिमानपि । लौकिक क्रियायां लोकव्यवहारकायें । मानगपि ईषदपि । कोविदः प्रौढ़ः । नासि न भवसि । अस भुवि लट् ॥ ९५॥ कुलज इति । सः गृहागतो वरः । कुलजः वंशजातः । अथवाकुलजी वा दुष्कुलजो वा । अस्तु भवतु । अस भुवि लेट् । अस्मै एतस्मै । तनया कुमारी । दत्ता वितीर्णा । अदत्ता न वितीर्णा हि वा । न भवतु [ भवति ] । कोऽपि बलात् बलात्कारात् । गृहीतुं स्वीकर्तुम् । ईशः समर्थश्चेत् । त्वरितः शीघ्र ( ता ) युक्तः । अभ्येतु आगच्छतु । किमर्थं किन्निमित्तम् । विलम्बते कालयापनं करोति ।। ९६ ।। इतीति । इति अनेन प्रकारेण । बसौ राजा जयवर्मभूपः । दूतम् उद्धताख्यदूतम् । विसृज्य गन्तुमाज्ञाप्य । अजित सेनाय अजितसेनकुमाराय । तत्कार्यं धरणीध्वजसंबन्धीष्ट प्रयोजनम् । बाशु शीघ्रम् ॥ आख्यत् अब्रवीत् । रूपा प्रकथने लङ् । तदा तत्समये सः कुमारः । कोपात् रोषात् । रचितभ्रुकुटि : रचिता विहिता भ्रुकुटिर्यस्य ( येन ) स: । बाहू भुजो । विलोक्य वीक्ष्य । श्वसुरं मातुलं ( ? ) प्रति । इदं वक्ष्यमाणवचनम् । ऊचे जगाद । ब्रूञ व्यक्तायां वाचि लिट् । 'अस्ति ब्रुवोर्भूव चौ' इति वचादेशः । 'व्यादिस्वब्वचः किति' इति यञ इक् ।। ९७ ।। तवेति । तात भोः पूज्य । 'तातोऽनुकम्प्ये जनके' इति विश्वः । अरिमस्त कैक शूले अरीणां शत्रूणां मस्तकानामेकं केवलं शूलमिव अरिमस्तकैकशूलः तस्मिन् । मयि तिष्ठति विद्यमाने सति । तव भवतः । आकुलत्वं व्याकुलत्वम् । न युक्तं न योग्यम् । अद्य इदानीम् । मृत्योः यमस्य । वदने मुखे । विशन्तं गच्छन्तम् । इमम् एतम् । दुष्टनभश्वरं दुष्टविद्याधरम् । त्वं विलोकय पश्य । लोकृञ् दर्शने णिजन्ताल्लोट्
मेरे हठ करनेके पहले ही तुम अपनी कन्या मुझे दे दो ॥ ९४ ॥ दूतके इन वचनोंको सुनकर उसने संक्षेपमें दूतसे ये वचन कहे - दूत ! तुम बुद्धिमान् हो, फिर भी लोकव्यवहार में सर्वथा अनभिज्ञ हो - लौकिक व्यवहारको तुम तनिक भी नहीं जानते ॥ ९५|| जिसे में अपनी कन्या दे चुका हूँ, वह कुलीन हो या अकुलीन, पर अब कुछ नहीं हो सकता | दी गयी कन्या अब नहीं दी गयी, नहीं हो सकती । यदि कोई उसे बलात् ग्रहण करने में समर्थ है, तो तुरन्त चला आये, विलम्ब क्यों कर रहा है ? ॥ ९६ ॥ यह कहकर राजाने दूतको बिदा किया, और शीघ्र ही अजित सेनको वे सारी बातें सुना दीं, जो दूतके साथ हुईं। उन बातोंको सुनकर मारे क्रोध उसकी भृकुटि तन गयी । फिर वह अपने बाहुओं को देखकर अपने श्वसुरसे यों बोला॥९७॥ पिताजी, मैं शत्रुओंका सिरदर्द हैं । मेरे रहते हुए आपका व्याकुल होना योग्य नहींआप व्याकुल न हों । उस दुष्ट विद्याधरको आप आज ही मृत्युके मुख में घुसते देखना ||६|
१. क ख ग घ म ंरुद्धचेता ं । २. अ रितः सोऽस्तु । ३. अ आ इ विसर्ज्यं । ४. श स विसर्ज्य | ५. आ 'ध्वजः संदिष्ट । ६. आ लिट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org