SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 19 चन्द्रप्रमचरितम् [६, ९. - तव कापि शशिप्रभाभिधाना दुहितास्त्यर्थसमन्वितेन नाम्ना।। भवता किल सा विदेशकाय प्रवितीर्णेति मया श्रुतं जनेभ्यः ॥६१ ॥ तदिदं शरदभ्रशुभ्रकीर्तेस्तव युक्तं न कुलोन्नतस्य कर्तुम् । भवतो भवति यकीर्तिरेवं सति गुरू पृथ्वीतले समस्ते ॥ १२ ॥ विदधाति मतिं सुताविमोहाद्गृहजामातरि यद्यपीह कोऽपि । अभिजातिरवश्यमेव तेनाप्यभिमृग्या' ननु सा वरेषु मुख्या ।। ९३ ॥ भवतो ननु पुण्यमत्र हेतुर्यदविज्ञातकुलेन तेन नोढा। तदियं स्वकरण दीयतां मे हठकारः क्रियते मया न यावत् ।। ६४ ।। ब्रवीति । वद व्यक्तायां वाचि लट ॥९०॥ तवेति । तव ते । अर्थसमन्वितेन अर्थयुक्तेन-सार्थकेनेत्यर्थः । नाम्ना अभिधानेन । शशिप्रभाभिधाना शशिप्रभा-इत्यभिधानं यस्याः सा । कापि कानि अस्ति किल२ वर्तते किल। भवता त्वया। सा कन्या । विदेशकाय देशान्तरादागताय । प्रवितीर्णा इति दत्ता इति । मया, जनेभ्यः लोकेभ्यः । श्रुतम आकणितम् ।।९१।। तदिति । शरदनशुभ्रकीर्तेः शरदः शरत्कालस्याभ्र वन्मेघवत् शुभ्रा धवला कीतिर्यस्य तस्य । कुलोन्नतस्य कुलेनोवतस्य महतः । तव भवतः । तदिदं तदेतत्कार्यम् । युक्तं न योग्यं न भवति । एवं सति, समस्ते निखिले। पृथिवीतले पृथिव्या भूम्याः तले। भवतः तव । गुर्वी महती। अकोतिः अपकीर्तिः । भवति हि । उपमा ।।९२।। विदधातीति । इह अस्मिन् । कोऽपि; सुताविमोहात् सुतायां पुत्र्यां विमोहात् प्रीतेः । गृहजामातरि गृहस्थागते ( गृहमागते ) जामातरि दुहितृपती। मति बुद्धिम् । विदधाति करोति । तेनापि पुरुषेणापि । वरेषु परिणयनयोग्यपुरुषेषु । मुख्या प्रधाना । सा अभिजातिः कुलम् । अवश्यमेव निश्चयेनैव । अभिमृग्या ननु अन्वेषणीया ननु ।।९३॥ भवत इति । अविज्ञातकुलेन अविज्ञातमविदितं कुलं जातियस्य तेन । तेन वरेण । नोढा न परिणोता । यत, अत्र कार्ये । भवतः तव । पुण्यं सुकृतम् । हेतुः कारणं ननु । अज्ञातकुलपुरुषाय कन्यैतावत्पर्यन्तं न दत्ता तदेव तव पुण्यमित्यर्थः । मया, यावत्पर्यन्तम् । हठकारः बलात्कारः । न क्रियते न विधीयते । तत् तावत् । इयम् एषा । स्वकरेण स्वहस्तेन । मे मह्यम् । दोयतां वितोर्यताम् । डुदान दाने कर्मणि लेट् ॥९४|| जगह प्रसिद्धि है। उनका सन्देश यह है-॥९॥ आपकी कोई शशिप्रभा नामकी कन्या है। शशी-चन्द्रमाके समान प्रभा होनेसे वह यथानाम तथा गुण है । ऐसी सुन्दर कन्या आप किसी परदेशीको देना चाहते हैं। उसे आप विवाहका वचन भी दे बैठे हैं, ऐसा मैंने लोगोंसे सुना है ।।९१॥ आपकी कीर्ति शरत्कालीन चन्द्रमाकी भाँति शुभ्र है, और आपका कुल भी उन्नत है । अतः आपको ऐसा करना योग्य नहीं है। यदि आप ऐसा ही करेंगे, नहीं ही मानेंगे तो सारे संसार में आपका अपयश फैल जायेगा ॥६२॥ यदि कोई पुत्रीके मोहवश अपने घर आये व्यक्तिको वर ( जमाई ) बनाना चाहता है, तो उसे भी उसके कुलका विचार अवश्य ही करना चाहिए; क्योंकि बरमें कुलीनता ही मुख्य रूपसे विचारणीय होती है ॥१३॥ उसके साथ-जिसके कुलका भी कुछ पता नहीं-तुमने अपनी कन्याका विवाह नहीं कर दिया, चट मंगनी पट ब्याह नहीं कर डाला, इसमें तुम्हारा पुण्य ही कारण है । अतः तुम अपने हाथसे अपनी कन्या मुझे शीघ्र ही सौंप दो, जिससे मुझे हठ या बलका प्रयोग न करना पड़े। १. अत्यतिमृपा। २. श स किम् । ३. श स किम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy