________________
१६८ चन्द्रप्रमचरितम्
[६, १०७ - निहतप्रमुखे ततोऽरिसैन्ये नगमुड्डीय गते समं वयोभिः । प्रविसर्ग्य' हिरण्यमक्षताङ्गः स पुरं पौरकृतोत्सवं विवेश ।। १०७ ॥ अथ पुण्यदिने मुहूर्तमात्रान्मिलिताशेषपरिच्छदो महेच्छः । गुरुणा निरवर्तयद्विवाहं जयवर्मा दुहितुर्महोत्सवेन ॥ १०८ ॥ विधिना परिणीय राजपुत्रीं युवराजः कतिचिद्दिनान्युषित्वा । श्वशुरानुमतो जगाम शीघ्र स्वपुरीमुत्सुकसर्वबन्धुलोकाम् ॥ १०९ ।। अतिदूरतरोऽपि तेन सोऽध्वा जनकाश्वासनलोलमानसेन ।
दिवसैरतिसंमितैर्ललङ्घ जनयत्युत्सुकतां न कस्य बन्धुः ॥ ११० ।। प्रियेण कान्तेन । अमोघशक्त्या बमोघया सफलया शक्त्या शक्त्यायुधेन । हृदि वक्षसि । निभिद्य विदार्य । विगतासुः विगता अपगता असवः प्राणा यस्य सः। अकारि अक्रियत । डुकृञ् करणे कर्मणि लुङ्॥ १०६॥ निहतेति । ततः पश्चात् । निहतप्रमुखे निहितो हिंसितः प्रमुखो मुख्यनायको यस्य तस्मिन् । अरिसैन्ये अरेः शत्रोः सैन्येऽनोके । वयोभिः पक्षिभिः । साकं समम् । उड्डोय आकाशमुद्यम्य । नगं विजयार्धपर्वतम् । गते सति याते सति । हिरण्यं हिरण्याख्यदेवम् । प्रविसय प्रहित्य । अक्षताङ्गः अक्षतमबाधितमहं शरीरं यस्य सः। सः अजितसेनः । पौरकृतोत्सवं पोरैः पुरजन. कृत उत्सवो यस्य तत् । पुरं विपुलपुरम् । विवेश विशति स्म । विश प्रवेशने लिट् ॥ १०७ ॥ अथेति । अथ पुरप्रवेशानन्तरम् । पुण्यदिने शुभदिवसे । मुहूर्तमात्रात् अल्पकालमात्रात् । मिलिताशेषपरिच्छदः मिलितः संचितोऽशेषः समस्तः परिच्छदः परिकरो यस्य सः । महेच्छः गंभीरः जयवर्मा जयवर्मभूपतिः । गुरुणा महता। महोत्सवेन महोत्साहेन । दुहितुः पुत्र्याः । विवाहं पाणिग्रहम् । निरवर्तयत् अकरोत् ।। १०८ ॥ विधिनेति । युवराजः अजितसेनः । राजपुत्री राजसुतां शशिप्रभाम् । विधिना विधानेन । परिणीय' विवाहं कृत्वा । कतिचित् कियन्ति । दिनानि" दिवसपर्यन्तम् । उषित्वा स्थित्वा । श्वसुरानुमतः सन् श्वसुरस्य मातुलस्यानुमतः संमतः सन् । उत्सुकसर्वबन्धुलोकाम् उत्सुका: सर्वे विश्वे बन्धवएव लोका यस्यां ताम् । रूपकम् (?) । स्वपुरी साकेतपुरीम् (?)। शीघ्र त्वरितम् । जगाम ययौ । गम्लगती लिट् ॥ १०९ ।। अतीति । जनकाश्वासनलोलमानसेन जनकस्य पितुः आश्वासने विश्रम'-(विधम्म-) करणे लोलं'२ लम्पटं मानसं यस्य तेन अजितसेनकुमारेण । सोऽध्वा स मार्गः । अतिदूरतरोऽपि अत्यन्तं विप्रकृष्टतरोऽपि । अतिसंमितैः परिमितैः । दिवसः दिनैः । ललधे गम्यते स्म । बन्धुः बान्धवः । कस्य, उत्सुकताम् तीव्र वेगसे झपटा। पर शशिप्रभाके प्रिय ( अजितसेन ) ने सोनेपर अमोघ शक्तिका प्रहार करके उसको जीवनलीला समाप्त कर दी ॥१०६।। इसके पश्चात् स्वामीके दिवंगत होते ही उसकी सेना पक्षियोंके साथ उड़कर विजयाध पर्वतको ओर चली गयी और राजकुमार अजितसेनने हिरण्यको बिदाई देकर सकुशल विपुलपुरमें-जहाँ पुरवासी उत्सव मना रहे थे-प्रवेश किया ॥१०७॥ फिर उदार हृदय राजा जयवर्माने शीघ्र ही सब प्रकारकी समाग्री एकत्रित करके महान् उत्सव और उत्साह
सव और उत्साहके साथ शुभ दिन में अपनी कन्याका विवाह कर दिया ।।१०८॥ राजकुमारी शशिप्रभासे विधिपूर्वक विवाह करके युवराज अजितसेन कुछ दिन ससुराल में रहा । फिर श्वसुरसे अनुमति लेकर उसने शीघ्र ही अपनी नगरीको प्रस्थान कर दिया, जहाँपर सभी बन्धु-बान्धव उससे मिलने के लिए लालायित थे ॥१०९॥ अपने पिताको आश्वासन देने के लिए उसका मन उतावला हो रहा था, अतः बहुत लम्बे रास्तेको उसने बहुत ही थोड़े दिनोंमें
१. म प्रविसृज्य । २. अ जयधर्मा। ३. श स विहितेति । ४. = यस्मिन् । ५. =महाशयः । ‘महेच्छस्तु महाशयः' । ६. भा गम्भीरबुद्धिः । ७. = गुरुजनेन समम् । ८. = महामहेन । ९. = उद्वाह्य। १०. = अहानि ।
११. श स विक्रम । १२. = सतृष्णम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org