________________
चन्द्रप्रमचरितम्
४
७
परिष्यति तां य एव धन्यो मदनस्येव धनुर्लतां नताङ्गीम् । स भविष्यति पुण्यराशिरेकस्तव हन्ता भरतस्य च प्रभोक्ता ॥ ८४ ॥ इति वाचमदृष्टमुद्गराभां सहसा तस्य निशम्य खेचरेन्द्रः । हृदये विषसाद साध्वसोद्यत्प्रचुर स्वेदजलप्लुताङ्गयष्टिः ॥ ८५ ॥ गुणवत्सल मागमस्त्वमस्मिन्विषये मामकचिन्तयाकुलत्वम् । कमपि प्रतिकारमत्र योग्यं प्रविधास्याम्यहमप्रमत्तचित्तः ॥ ८६ ॥ इति देशयति नभश्चराणामधिपस्तं विससर्ज नम्रमौलिः । अवधायें च कृत्यमात्मचित्ते तमनैषीदिवसं निगूढभावः ॥ ८७ ॥ युग्मम् ) इत्यध्याहारः । उपमा ||८३|| परीति । मदनस्य मन्मथस्य । धनुर्लतां धनुषो लतामिव नताङ्गों स्तनभारेण किचिदानतशरीराम् । 'मसहन' इत्यादिना ङो-प्रत्ययः । तां शशिप्रभाम् । धन्यः पुण्यवान् । पुण्यराशिः पुण्यानां सुकृतानां राशिः समूहो यस्य सः । एव पुरुष एवं परिष्यति परिग्रही भविष्यति सः पुरुषः । एकः, तत्र ते । हन्ता हिंसिता । कृत्कामुकस्य -' इत्यादिना कर्मणि षष्ठी । भरतस्त्र भरतक्षेत्रस्य । प्रभोक्ता च पालकश्च । अत्रापि कर्मणि षष्ठी । भविष्यति । भू सत्तायां लट् ॥ ८४ ॥ इतीति । खेचरेन्द्रः धरणीध्त्रजः । तस्य प्रियधर्मणः । अदृष्टमुगदराभाम् अदृष्टस्यानालोकितस्य मुग्दरस्यायोगदा आभां समानाम् । इति प्रतीतिभूताम् । वाचं वचनम् । निशम्य श्रुत्वा । सहसा शीघ्रम् [ साध्वसोद्यत्प्रचुरस्वेदजलप्लुताङ्गयष्टिः ] साध्वसेन भयेन उद्यत उत्पद्यमानस्य प्रचुरस्य बहलस्य स्वेदस्य जलेन सलिलेन प्लुता सादिता ( आर्द्रा ) अङ्गस्य गात्रस्य यष्टिः ( अङ्गयष्टिर्गात्रयष्टिः ) यस्य सः । हृदये मानसे । विषसाद विखेद ( चिखेद) । षद्लृ विशरणगत्यवसादनेषु लिट् ॥ ८५॥ गुणेति । गुणवत्सल गुणेषु वत्सल: प्रीति र्यस्य तस्य संबोधनं भो गुणवत्सल गुणप्रोत' । अस्मिन् विषये एतस्मिन् कार्ये । त्वं भवान् । मामकचिन्तया मदीयया चिन्तया । 'युस्मदस्मदः -- इत्यादिना अञ् तद्योगे ममकादेशः । आकुलत्वं व्याकुलत्वम् । मागमः मा गच्छ । गम्लृ गतौ लुङि 'सतिशास्ति -' इत्यादिना अङ्-प्रत्ययः । अप्रप्रत्तचित्तः अप्रमत्तं प्रमादरहितं वित्तं यस्य सः । अहम् अत्र कार्ये । योग्यम् अर्हम् । कमपि कंचन । प्रतिकारं १२ प्रतिकूलम् । प्रविधास्यामि करिष्यामि । डुधाञ् धारणे च ॥८६॥ इतीति । नभश्चराणां विद्याधराणाम् । अधिपः प्रभुर्धरणीध्वजः । तं देशयति प्रियधर्मब्रह्मचारिणम् । नम्रमौलिः नम्रो मौलिर्यस्य सः । विससर्ज विसृष्टवान् । आत्मचित्ते आत्मनः का कोई प्रसंग नहीं आया ॥ ८३ ॥ | उसका शरीर कामदेवकी धनुर्वल्लरीकी भाँति नमनशील और कोमल है । वह पुरुष धन्य है, जो उपके साथ विवाह करेगा । उसका पुण्यात्मा पति तुम्हें मारनेवाला होगा और फिर भरतक्षेत्रका शासक होगा || ८४ ॥ क्षुल्लक प्रियधर्मकी इस बातको--जो जादूसे न दिखनेवाले मुद्गरके प्रहारके समान है - - अचानक सुनकर विद्याधरोंका राजा अपने मनमें बड़ा दुःखी हुआ । भयके कारण उसका सारा शरीर पसीनेसे सराबोर हो गया ||८५ || हे गुणवत्सल ! इस विषय में आप मेरी चिन्तासे व्याकुल न हों । अब मैं सावधान रहूँगा -- अपने मन में तनिक भी प्रमाद नहीं करूँगा । और इसके बारेमें कोई योग्य प्रतीकार करूंगा || ६ || यह कहकर विद्याधरोंके राजा धरणीध्वजने अभिवादनपूर्वक उन देशव्रती क्षुल्लकजीको वहाँसे बिदा कर दिया, और फिर अपने मनमें कर्त्तव्यका निश्चय कर
११
१६२
[ ६, ८४ -
१. असा निगूढ । २. अ आ इ क ख ग घ 'युग्मम्' इति नोपलभ्यते । ३. आश स परेति । ४. = धनुर्लतामिव कृशाङ्गोमित्यर्थः । ५. = य एष पुरुषः । ६. = परिगृहीष्यति । ७. = आभा यस्याः सा तां तत्समानामिति यावत् । ८ = गुणेषु वत्सलो गुणवत्सलः तत्संबुद्धी हे गुणवत्सल हे गुणानुरागिन् । ९. आ प्रतावेव 'गुणप्रीत' इति समुपलभ्यते । १०. या अत्रि, श स अत्री । ११. आ मामकादेशः । १२. = प्रतिक्रियाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org