SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६० चन्द्रप्रमचरितम् अथ सप्रियधर्मनामधेयं परमाणुव्रतपालनप्रसक्तम् । ' यतिचिह्नधरं सभान्तरस्थः सहसा क्षुल्लकमागतं ददर्श ।।७।। प्रतिपत्तिभिरर्घपूर्विकाभिः स्वयमुत्थाय तमग्रहीत्खगेन्द्रः। मतयो न खलूचितझतायां मृगयन्ते महतां परोपदेशम् ।।८।। प्रविसर्जित सर्वपादसेवागतविद्याधरबन्धुमन्त्रिवर्गः। गरुविष्टरमास्थितेन तेन स्मितपूर्व स कृताशिषा बभाषे||७६।। खचराधिप योगिनोऽपि कामं किमपि स्निह्यति मानसं न जाने। त्वयि बान्धववत्सले ममाहो बलवान्सवेजगत्सु मोहराजः॥८॥ धरणीध्वज इति धरणोध्वज इति नाम ( नामकः)। खेचरेन्द्रः खेचराणां विद्याधराणामिन्द्रः प्रभुः। तस्य पुरस्य आदित्यपुरस्य । प्रशास्ता पालकः । 'कृकामकस्य-'इत्यादिना कर्मणि षष्ठी। अभूत् अभवत् ॥७६।। अथेति । अथ अनन्तरम् । सभान्तरस्थः सभायाः संसदोऽन्तरस्थो मध्यस्थः । सः धरणीध्वजः । परमाणुव्रत-- पालनप्रसक्तं परमाणुव्रतस्य श्रावकव्रतस्य पालने रक्षणे प्रसक्तमासक्तम् । यतिचिह्नधरं मुनिचिह्नधरंजपमालादिधरमित्यर्थः (१)। प्रियधर्मनामधेयं प्रियधर्म इति नामधेयं यस्य तम् । सहसा शीघ्रम् । आगतम् । आयातम् । क्षुल्लकं ब्रह्मचारिणम् (?) ददर्श पश्यति स्म । दृश प्रेक्षणे लिट् ।।७७॥ प्रतिपत्तिभिरिति । खगेन्द्रः खगानां विद्याधराणामिन्द्रः प्रभुः। स्वयम् उत्थाय सिंहासनादुत्थाय । अर्घपूर्विकाभिः अर्घः पूजायोग्यं द्रव्यं पूर्वं पुरःस्सरं यासां ताभिः । प्रतिपत्तिभिः सत्कारैः । तं प्रियधर्माणम् । अग्रहीत् अपूजयत् । महतां महापुरु. षाणाम् । मतयः, उचितज्ञतायां प्रकृतज्ञतायाम् । परोपदेशं परेषा मुपदेशम् । न मृगयन्ते नान्वेषयन्ति । मगि अन्वेषणे लट् । खल व्यक्तम् । अर्यान्तरन्यासः ॥७८।। प्रवीति । प्रविजितसर्वपादसेवागतविद्याधरबन्धमन्त्रिवर्गः पादयोः सेवा पादसेवा तस्यै आगतास्तथोक्ताः, सर्वे च ते पादसेवागताश्च ( तथोक्ताः) सर्वपादसे कागतानां विद्याधराणां खेचराणां बन्धनां सगोत्राणां मन्त्रिणा सचिवानां वर्गः समहः, प्रविजितः प्रहितः सर्वपादसेवागतविद्याधरबन्धमन्त्रिवर्गो येन सः । सः धरणीध्वजः । स्मितपूर्वं स्मितं मनाक स्मितं पूर्वं यस्मिन् कर्मणि तत् । कृताशिषा विहिताशीर्वादेन । गुरुविष्टरं महदासनम् । आस्थितेन । तेन प्रियधर्मब्रह्मचारिणा । बभाषे उच्यते स्म । भाषि व्यक्तायां वाचि कर्मणि लिट । ७९।। खचरेति । खचराधिप भो खचराणां विद्याधराणामधिप प्रभो। बान्धववत्सले बान्धववत् वत्सले वात्सल्ययुक्ते । त्वयि भवति । योगिनोऽपि विद्याधरोंको सत्ता समाप्त कर दी थी। जैसे इन्द्र ने आकाशमें उड़नेवाले (जैनेतर पुराणोंकी दृष्टिसे) पहाड़ोंके पंख काटकर उन्हें निष्प्राण कर दिया था ॥७६॥ इसके पश्चात् एक दिनकी बात है, वह सभाके बीच में बैठा हुआ था। इतने में उसने अचानक ही वहाँ आये हुए क्षुल्लकग्यारहवीं प्रतिमाके धारी उत्कृष्ट श्रावकके दर्शन किये। वे उत्कृष्ट अणुव्रतोंके पालक थे । वे दिगम्बर साधुओं की तरह उद्दिष्ट भोजन त्याग आदि चिह्नोंसे विभूषित थे। उनका नाम था प्रियधर्म ॥७७॥ वह विद्याधरोंका राजा सिंहासनसे उठकर खड़ा हो गया, और अर्घ आदि पूजा सामग्री लेकर उसने स्वयं उनका सत्कार किया। महान् पुरुषोंकी बुद्धि उचित बातोंकी जानकारीके लिए निश्चय ही परोपदेशकी प्रतीक्षा नहीं करती ॥७८॥ फिर अपने चरणोंकी सेवामें उपस्थित हए विद्याधरों, बन्धओं और मन्त्रियोंके मण्डलको राजा धरणीध्वजने बिदा करके क्षुल्लकजीको एक बड़े आसन पर बैठा दिया। आसन पर बैठकर उन्होंने आशीर्वाद देकर मुस्कराते हुए, उससे यों कहा---॥७९॥ हे विद्याधरोंके नाथ ! मैं एक योगी हूँ, फिर भी मेरा १. म प्रियपृथु। २. अ म रिर्थपूर्वि । ३. इ प्रतिसजित । ४. अ आ इ सर्वगतश्च मोह । ५. आ प्रतावेव 'प्रकृतज्ञतायाम्' इति पर्यायः समुपलभ्यते । ६. श स भाष । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy