________________
- ६, ७६ ]
षष्टः सर्गः गिरिरस्त्यथ खेचराधिवासः शिखरोत्तम्भिततारकासमूहः। विजयार्ध इति प्रसिद्धनामा निजविस्तारनिरुद्धदिग्विभागः ।।७।। कलधौतमयोऽखिलासु दिनु प्रकिरन्यः शशिशुभ्रमंशुजालम् ।। प्रविभाति विशालमेदिनीकः शुचिनिर्मोक इवाम्बरोरगस्य ।।७४॥ पृथु दक्षिणतोऽस्ति तत्र रम्यं पुरमादित्यपुराभिधां दधानम् । रजताच्छतयेव देवलोकात्प्रतिबिम्बं पतितं मनोभिरामम् ॥७॥ धरणीध्वज इत्यभूप्रशास्ता बलवांस्तस्य पुरस्य खेचरेन्द्रः ।
अमरेन्द्र इवोद्धताव्यधाद्यः सकलान्खेचरभूभृतो विपक्षान् ॥७६।। ॥७२॥ गिरिरिति । अथ अनन्तरम् । खेचराधिवासः खेचराणां विद्याधराणामधिवास आधारभूतः । शिखरोत्त. म्भिततारकासमूहः शिखरैः शृङ्गरुत्तम्भित उदृतः तारकाणां नक्षत्राणां समूहो यस्य ( येन ) सः । निजविस्तारनिरुद्धदिग्विभागः निजस्य स्वस्य विस्तारेणायामेन निरुद्धो व्याप्तो दिशां विभागो यस्य ( येन ) सः विजया इति रजताचल इति । प्रसिद्धनाम्ना प्रसिद्धेन प्रतीतेन नाम्ना अभिधानेन । गिरिः पर्वतः । अस्ति वर्तते । अस भुवि लट् । स्वभावः ॥७३॥ कलधौतेति । कलधौतमयः रजतमयः । शशिशुभ्रं शशीव चन्द्र इव शुभ्रं गौरम् । अंशुजालम् अंशूनां किरणानां जालं समूहम् । अखिलासु सर्वासु । दिक्षु दिशासु । प्रकिरन्
। विशालमेदिनीकः विशाला' विस्तारा मेदिनी भूमि र्यस्य सः । यः पर्वतः। अम्बरोरगस्य अम्बरमाकाशमेवोरगः सर्पस्तस्य । शुचिनिर्मोक इव शुचिः शुभ्रो निर्मोकः कञ्चुकः ( स ) इव । प्रविभाति प्रभासते। भा दीप्तो लट् । उत्प्रेक्षा ।।७४॥ पृथ्विति । तत्र पर्वते । दक्षिणतः दक्षिणस्यां श्रेण्याम् । रजताच्छतया रजतस्य रूप्यस्याच्छतया नैर्मस्येन । मनोभिरामं मनोहरम् । देवलोकात् स्वर्गात् । पतितं च्युतम् । प्रतिबिम्बं प्रतिकृतीब । रम्यं सुन्दरम् । आदित्यपुराभिधाम् 'आदित्यपुरम्' इत्यभिधा ताम् । दधानं धरमाणम् । पृथु महत् । पुरं पुरी । अस्ति वर्तते । अस भुवि लट् । उत्प्रेक्षा ॥७५।। धरणीति । यः विपक्षान् शत्रून् । विगतपतत्त्रान् । सकलान् निखिलान् । खेचरभूभृतः खेवरभूमिपालान्, पक्षे खेचरान् आकाशचरान् भूभृतः पर्वतान् । अमरेन्द्र इव देवेन्द्र इव । उढतान् विनष्टान् । व्यधात् अकरोत् । बलवान् पराक्रमी । ॥७२।। इसके पश्चात्-एक विजयाधं नामका प्रसिद्ध पर्वत है। उसने अपने विस्तारसे सारी दिशाओं और विदिशाओंके विभागको समाप्त कर दिया है-जिधर देखो उधर वह फैला हुआ है, अतः पूर्व किस ओर है और किस ओर हैं पश्चिम आदि, इसका पता ही नहीं पड़ता। उसने अपने शिखरोंसे तारामण्डलको ऊपर उठा दिया है, और उस पर विद्याधर लोग निवास करते हैं ॥७३॥ उस पर्वतने अपनो लम्बाईसे भी विशाल भूभागको आत्मसात् कर रखा है। रजतमय होनेसे वह सभी ओर चन्द्रमाके समान अपनी धवल किरणोंको फैलाए हुए है। अतः वह आकाश रूपी सर्पकी गिरी हुई सफेद केंचुलीके समान जान पड़ता है ॥७४।। दक्षिणकी ओर उस पर्वतके ऊपर (उस पर्वतको दक्षिण श्रेणी में) एक आदित्य नामका विशाल नगर है। वह अत्यन्त अभिराम--सुन्दर है । उसे जो भी एक बार देख लेता है, उसका मन वहीं रम जाता है (अभिरामम्-अभिरमते मनो यत्र तदभिरामम्) । अतएव ऐसा जान पड़ता है मानो उसके रजतमय स्वच्छ प्रदेश में स्वर्गका प्रतिबिम्ब पड़ रहा हो ।७५॥ धरणीध्वज नामका एक बलवान् राजा उस नगरका शासक था । वह समस्त विद्याधरोंका स्वामी था। उसने सारे विपक्षी
१. अ मनोभिधानम् । २. = अधिवासो निवासो यत्र सः । ३. 'प्रसिद्धनाम्ना' इति पाठष्टीकाकृदभिमतः। प्रतिषु प्रसिद्धनामा' इत्येष पाठो दृश्यते । प्रसिद्ध प्रख्यातं नाम यस्य स:-इति तद्वयाख्या कार्या । ४. मा कलधौत इति । ५. = विस्तृता। ६. श स पृथ्वीति । ७. = प्रतिकृतिरिव । ८. आ विगतपरतान् , शस विगतपरत्रान् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org