________________
१५८
चन्द्रप्रमचरितम्
[६,६९
सपदि प्रविधीयतां तदत्र प्रविधेयं गुणवद्विमृश्य बुद्धया । हरिणायतचचुरीश यावद्दशमी याति दशां न पुष्पकेतोः ॥ ६६ ॥ श्रुतवानिति तगिरं गरीयःप्रमदोद्यत्पुलको बभूव भूपः । दुहितुर्विगणय्य चित्तवृत्ति सदृशीमात्मन एव चित्तवृत्तेः ॥ ७० ॥ अपरेधुरपृच्छाहतात्मा सहसाहूय निमित्तिनं नरेन्द्रः । विधे च शुभे शरीरजाया दिवसे तत्प्रतिपादिते प्रदानम् ॥७१।। स ततः प्रभृति प्रतीततेजा निजपाणिग्रहवासरं कुमारः ।
गणयन्स्मरबाणभिन्नमर्मा दयितासङ्गसमुत्सुकोऽवतस्थे ।।७२॥ धारणे च लट् ॥६८॥ सपदोति । ईश भो स्वामिन् । हरिणायतचक्षुः हरिणस्य मृगस्येवायते विशाले चक्षुषी यस्याः सा। यावत् यत्प्रमाणम् । पुष्केपतो. मन्मथात् । दशमों दशानां पूरणो दशमी, ताम् । दशाम् अवस्यां मरणावस्था मित्यर्थः । न याति न गच्छति । ( तावत् ) गुणवत् गुणयुक्तम् । प्रविधेयमिति कार्य. बद्धया बोधनेन । विमश्य विचार्य। अत्र अस्याम । तत कार्यम । सपदि शीघ्रम । प्रविधीयतां प्रतिकारः
तेति । इति उक्त प्रकारेण । तगिरं तस्याः शशिप्रभासख्या गिरं वाचम् । श्रुतवान् आकणितवान् । भूप: जयवर्मा । आत्मन एव स्वस्यैव । चित्तवृत्तेः चित्तस्य वृत्तेवर्तनस्य । सदृशी समानाम् । दुहितुः पुत्र्याः । चित्तवृत्ति मानसवृत्तिम् । विगणय्य निश्वित्य । गरोयःप्रमदोद्यत्पुलकः गरीयसा महता प्रमदेन संतोषेण उद्यदुत्पद्यमानः पुलको रोमाञ्चो यस्य सः । बभूव भवति स्म । भू सत्तायां लिट् । ७०।। अपरेधुरिति । आदृतात्मा आदृत आदरयुक्त' आत्मा बुद्धि यस्य सः । नरेन्द्रः जयवर्मा। अपरेधुः बन्यस्मिन् दिवसे । निमित्तिनं निमित्तज्ञम् । सहसा शीघ्रम् । आहूय बाह्वानं कृत्वा । अपृच्छत् शृणोत् । तत्प्रतिपादिते तेन निमित्तज्ञेन प्रतिपादिते कथिते । शुभे शोभने । दिवसे दिने । शरीरजाया: शशिप्रभाकुमार्याः । प्रदानं वाग्दत्तिम् । विदधे च चकार च । डुधाञ् धारणे च लिट् ।।७१।। स इति । ततः प्रभृति तद्दिवसमारभ्य । प्रतीततेजाः प्रतीतं प्रथितं तेजः प्रतापो यस्य सः । स्मरबाणभिन्नमर्मा स्मरस्य मदनस्य बाणैर्गिणैभिन्न स्फटितं मर्म मर्मस्थानं यस्य सः । दयितासङ्गसमुत्सुकः दयितायाः कान्तायाः सङ्गे संयोगे समुत्सुकः समुधुक्तः । सः कुमारः । अजितसेनकुमारः निजपाणिग्रहवासरं निजस्य स्वस्य पाणिग्रहस्य विवाहस्य वासरं दिवसम् । गणयन् संख्यानं कुर्वन् । अवतस्थे तिष्ठति स्म । ष्ठा गतिनिवृत्तौ लट् । 'संविप्रावात्' इति तङ्
तो वह इसके विनाशके लिए असाधारण प्रयत्न क्यों करता ? ॥६८॥ राजन् ! इसलिए अपनी बुद्धिसे इस विषयमें जो भी लाभकर हो शोघ्र कोजिए, जिससे हरिणाक्षी शशिप्रभा कामदेवकी दशवीं (मृत्यु) दशासे बच जाये ॥६९॥ शशिप्रभाकी सहेलोके ये वचन सुनकर एवं अपने विचारोंके समान अपनी पुत्रोके विचारोंको भो जानकर जयवर्मा मन-ही-मन बड़ा प्रसन्न हुआ, और उसी प्रसन्नताके कारण उसके शरीर में रोमांच हो आया ॥७०।। इससे अगले दिन राजाने आदर पूर्वक एक ज्योतिषीको शीघ्र हो बुलवाया। राजाके पूछने पर उसने जो शुभ दिन बतलाया, उसी दिन उसने अपनी कन्याका प्रदान--वाग्दान (सगाई) कर दिया ॥७१॥ विवाहकी बात तय होनेके बाद कामदेवने तेजस्वी राजकुमार अजितसेनके मर्मस्थलको अपने बाणोंसे वींध डाला। फलतः वह पत्नोके समागमके लिए उत्सुक होकर विवाहके दिन गिनने लगा
१. अ दाहितात्मा। २. आ इ प्रथिततेजा। ३. = यावत् पर्यन्तम् । ४. = मन्मथस्य । ५. आ संतोषयुक्त । ६. = पृच्छति स्म । Jain Education International For Private & Personal Use Only
www.jainelibrary.org