SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १५७ - ६, ६८ ] षष्ठः सर्गः मुषिता' वदनश्रिया मम श्रीरनयेतीव रुषोपजातमूर्छाम् । विदधाति मुहुर्मुहुर्मंगाक्षी विषनिःस्यन्दिभिरंशुभिः शशाङ्कः ।। ६५ ॥ परितापविनाशनाय शय्या क्रियते या नवपल्लवैः सखीभिः । दववह्निशिखावलीव सापि ज्वलयत्यम्बुजकोमलं तदङ्गम् ॥ ६६ ॥ विदधातु भुजंगसङ्गभाजो रससेकः खलु चन्दनस्य तापम् । प्रविभाति महत्तदत्र चित्रं यदमूं प्लष्यति दक्षिणोऽपि वातः ।। ६७ ॥ नितरां परिकोपितो मनोभू रतिरूपं ध्रुवमेतया हरन्त्या। विदधाति विनाशहेतुमस्याः किमसाधारणमन्यथा प्रयत्नम् ।। ६८ ॥ अलीनां भ्रमराणां वृन्दं समूहः । दूरम् उदस्यते निराक्रियते । असू क्षेपणे लट् । उत्प्रेक्षा ।।६४॥ मुषितेति । मम मे। श्री: शोभा । अनया, अन्वादेशेः एनदादेश: (?) । वदनश्रिया वदनस्य मखस्य श्रिया शोभया। मषिता अपहृता । इति एवम् । मत्वा, रुषा कोपेन, इव । शशाङ्कः चन्द्रः । विष [नि:- ] स्यन्दिभिः विषं (निः ) स्यन्दत इत्येवंशीलैः। अंशुभिः किरणः । मृगाक्षों मृगस्याक्षिणी इवाक्षिणो यस्यास्ताम् । मुहुर्मुहुः पुनः पुनः । उपजातमूर्छाम् उपजाता उत्पन्ना मूर्छा यस्यास्ताम् । विदधाति करोति ।।६५।। परितापेति । परितापविनाशनाय परितापस्य संतापस्य विनाशनाय विनाशार्थम् । सखिभिः [ सखीभिः ] वयस्याभिः । नवपल्लवै: नवैनतनैः पल्लवैः किसलयैः । या शय्या तल्पम् । क्रियते विधीयते । सापि पल्लवश शिखावलीव दवश्चासौ वह्निश्च (दवस्य वह्निः) तथोक्तस्तस्य शिखानां ज्वालानामावलीव समूह (जालम् ) इव । अम्बुजकोमलम् अम्बुजमिव कमलमिव कोमलं मृदुलम् । तदङ्गं तस्याः शशिप्रभाया अङ्गं गात्रम् । ज्वलयति दहयति । ज्वल दीप्तो गिजन्ताल्लट् । हेतुः (?) ॥६६॥ विदधात्विति । भुजङ्गसङ्गभाजः भुजङ्गानां सङ्गं संपर्क भजतीति तथोक्तस्य । चन्दनस्य मलयजस्य । रससेकं ( कः) रसस्य द्र सेकं ( कः ) सेचनम् । खलु, तापं सन्तापम् । विदधातु करोतु । दुधात्र धारणे च लोट् । दक्षिणोऽपि दक्षिणदिश आगतोऽपि । वातः वायुः। अमूम् एताम् । प्लुष्यति दहति । प्लष दाहे लट् । यत् प्रकृतम् । तत, अत्र लोके । महच्चित्रम् आश्चर्यम् । भवति । हेतुः ॥६७॥ नितरामिति । रतिरूपं रतिदेव्या रूपम । हरन्त्या अपहरन्त्या। एतया अनया शशिप्रभया । मनोभूः मन्मथः । नितराम् अत्यन्तम् । परिकोपितः परिक्रुद्धः । ध्रुवं निश्चयः । अन्यथा न परिकोपितश्चेत् । अस्याः शशिप्रभायाः। असाधारणं प्रतिकाररहितम् । विनाशहेतुं निधनकारणम् । प्रयत्न' प्रारम्भम् । किं किं कारणम् । विदधाति करोति । डुधाञ् होने वाले उसके उष्ण और दीर्घ श्वास वायुसे हटा दिये जाते हैं ॥६४।। 'इसने अपने मुखकी शोभासे मेरी शोभा चुरा लो है', मानो यह सोचकर रात्रिके समय चन्द्रमा क्रुद्ध होकर अपनी किरणोंसे बिष बहाकर शशिप्रभाको बार-बार मूच्छित कर देता है ॥६५॥ उसके तीव्र सन्तापको दूर करनेके लिए सहेलियाँ नवीन कोंपलोंसे जो सेज सजाती हैं, वह भी उसको कमल कोमल कायाको दवाग्निकी ज्वालाकी भाँति जलाने लगती है ॥६६॥ चन्दन-द्रवका सिंचन या लेप भले ही उसे सन्ताप दे; क्योंकि उससे जहरीले काले नाग लिपटे रहते हैं, किन्तु दक्षिण (अनुकूल) वायु भी उसे जलाता है, यह बड़े हो आश्चर्यको बात है ॥६७॥ लगता है शशिप्रभाने रतिके रूपको हरकर कामदेव (रतिपति) को बहुत अधिक क्रुद्ध कर दिया है। यदि यह बात न होती १. अ सुजिता । २. अ मनोजो। ३. अ वहन्त्या। ४. आ श स इदं ( ६६ तमं ) पद्यं पश्चाद् व्याख्यातम्, इतः पूर्व तु विदधातु इत्यादि ( ६७ तमं ) पद्यं व्याख्यातम् । ५. = दहति संधुक्षयति वा। ६. आ लट्, श स लेट् । ७. = कृत इति शेषः। ८. = निश्चयेन । ९. = प्रयतनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy